________________
wimmam
द्रव्यक्रियाद्वैतम्] न्यायागमानुसारिणीव्याख्यासमेतम्
५०९ धारणात् , अद्रव्या-द्रव्यविरहिता क्रियैवेत्यर्थः, ततो नैव स्यादात्मा पूर्ववत्-प्राक् पश्चात्तदा वाऽद्रव्यत्वादभूतत्वात् खपुष्पवदिति व्याख्येयम् , निर्बीजत्वादस्थितत्वादित्यादिपर्यायैः त्रिष्वपि कालेषु साधनानि योजयद्भिरिति विशेषः, भवदेव हि भवति द्रव्यार्थत इति स्थितिरूपं द्रव्यार्थभवनमाचष्टे, एतदनिच्छतोऽस्थितभवनसाधात् खपुष्पमपि वा स्यादद्रव्यत्वात् भाववत् क्रियावत् अनिष्टापादनमेतत् , भूता
र्थसामर्थ्यादेव हि प्रवृत्तिः-द्रव्यार्थसामर्थ्यादेव हि प्रवृत्तिः-द्रव्यार्थसामर्थ्यादेव यस्मात् प्रवृत्तिः क्रिया न । निर्बीजेत्यर्थः, अत्रापि पूर्ववदनैकान्तिकशङ्का-ननु निर्बीजगुणादिप्रवृत्तिर्दृष्टेति, अत्रोत्तरमाह-गुणाद्यपि च द्रव्यमेव, प्रवृत्तत्वात् तन्त्वादिवत्-तन्तुबीजमृदादिवदिति प्राग्वत् , इह तु द्रव्यभवनमन्तरेण प्रवृत्त्यभाव इति प्रदर्योपनेयमिति विशेषः ।
एवं क्रियापि द्रव्येण विना नास्तीत्युक्तन्यायवदेवेति द्रव्यक्रियालक्षणं द्वैतमुक्त्वाऽक्षरार्थन्यायेनापि प्रतिपादयिष्यन्नाह
10 भवतीति भावः स च कर्ताऽकर्ता च द्रव्यम् , यतोऽसौ भवतीति भावः तद्रव्यं स भावो, भवनसम्बन्धाद्भवतीति भवति तस्मात्तद्भवनं भावः सा क्रिया।
भवतीति भाव इति, अत्र ‘भुवश्च' ( ) इति कर्तरि णप्रत्ययं केचिदाहुः, इह तु भूयत इति भावे घञ् प्रत्ययः, तथा च येन भूयते स भाव इत्यर्थः सामर्थ्याद्यो भवति स एव सम्बद्ध्यत इति भवतीति भाव इत्युक्तम् , स च कर्ताऽकर्ता च द्रव्यं तस्माद्भावशब्दो द्रव्य-15 वाची क्रियावाची च यतोऽसौ भव[ती]ति भावः-यस्माद्धेतोर्येन प्रकारेण यतो धर्मेण धर्माद्वा भवति तद्रव्यं स भाव इति, इतिशब्दस्य हेत्वर्थत्वाद्भवतीत्येतद्यतो भवति स भावः सा च क्रिया,
wwmummm
ww
प्रमाणाभावादिति भावः। आत्मादि कालत्रयेऽपि न स्यादद्रव्यत्वात्. अभूतत्वाद्वा, खपुष्पवदिति मानार्थः। निर्बीजत्वादिति, क्षणिकत्वेन क्रियाया उपादानकारणस्य स्थिरभूतस्य कस्याप्यभावेन मूलरहितत्वादिति भावः । कथं निर्वाजत्वमित्यत्राह अस्थितत्वादिति क्षणिकत्वादित्यर्थः, प्राङ् नासीत् , इदानी निजित्वात् , खपुष्पवत् , इदानीं न स्यात् प्राङ् निर्बीजत्वात् , पश्चान्न 20 भविष्यति, इदानीं निर्बीजत्वात् खपुष्पवदेवेत्यभूतं तत्स्यात् आत्मादि, अस्थितत्वादिति भावः। स्थितस्यैव भवनं सम्भवति न तु निर्बीजस्येत्याह-भवदेव हीति । विपर्यये दोषमाह-एतदनिच्छत इति । ननु सत्त्वादिगुणानां सामान्यशून्यानामपि प्रवृत्तिदर्शनानिर्बीजा क्रिया सम्भवत्यतोऽनैकान्तिको निर्बीजत्वहेतुरसत्त्वसाधन इत्याशंकते नन्वितिः । गुणादीनामपि तन्त्वादिवगव्यत्वमेव तेन तेन प्रकारेण प्रवर्त्तमानत्वात्, न हि द्रव्यस्य तथाभवनमन्तरेण प्रवृत्तिः सम्भवतीत्युत्तरयति-गुणापि चेति । तदेवं द्रव्यक्रिययोरन्यतराभावेऽपराभावादुभयमावश्यकमिति प्रसाध्य भावपदादपि द्वैविध्यं दर्शयति-भवतीति भाव इति। 25 भावशब्दनिष्पत्तौ विवादं दर्शयति-अत्रेति, भवतीति भाव इति केषाञ्चिन्मतेन कर्तरि णप्रत्यये भवति, पाणिनीयमते तु भवतीति भव इत्यच्प्रत्ययेन भवति, भाष्यमते तु प्राप्त्यर्थाच्चरादिण्यन्तादच्प्रत्यये भाव इति भवति, काशिकाकृन्मतेन तु भवतेर्विभाषया कर्तरि णप्रत्यये भावः भव इति रूपद्वयं भवति । इह कथं भावशब्दनिष्पत्तिरित्यत्राह-इह त्विति येन येन रूपेण पृथिव्यादिना गमनादिना वा भूयते स भावः। केन तथा भूयते? सामाद्यो भवति स एवेति मूले भवतीति भाव इत्य व्युत्पत्तिः प्रदर्शितेत्याशयेनाह-तथाचेति । स च भावः कर्तृभूतमकर्तृभूतश्च द्रव्यं भवति, अकर्तृभूतायाः क्रियाया अपि द्रव्य-30 त्वेष्टरुक्तत्वात् तथा च द्रव्यं क्रिया च भाव इत्युक्तं भवतीत्याह-सचेति । द्रव्यस्य भावत्वमाह यतोऽसाविति । यस्माद्धे
१क. सर्वदेव । २ सि. क. स च ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org