________________
द्वादशारनयचक्रम्
[उभयनयारे प्रदश्यते, यथोक्तं अस्तिभवतिविद्यतिपद्यतिवर्ततयः सन्निपातषष्ठाः सत्तार्थाः' (
)। इति, तस्मात्तेन तेन प्रकारेण परिणममानं प्रवर्त्तमानं वस्तु भवतीत्युच्यते स्वेन खेन च पारिणामिकेन प्रकारेण भवति परिणमतीति ।
अत्रोपचयहेतुमाह-- । तथा च चैतन्यादिलक्षणताऽऽत्मादेरुपपद्यते तथाभवनप्रवृत्तिसामर्थ्यात् द्रव्यत्वतुल्यत्वे सत्यपि।
तथा च चैतन्यादिलक्षणतेत्यादि यावत्तुल्यत्वे सत्यपि, तुल्ये द्रव्यत्वे--अस्त्येव जीवद्रव्याणामजीवद्रव्याणाश्च भवन विशेषः, तद्यथा-जीवद्रव्यस्य चैतन्यवीर्यामूर्त्यसंख्यातप्रदेशावगाहादिः
तथाभवनप्रवृत्तिसामर्थ्यम् , अजीवद्रव्येष्वपि पुद्गलानां रूपरसादिकर्मादि तथाभवनसामर्थ्यम् , 10 यथासंख्यश्च धर्माधर्माकाशकालानां गतिस्थित्यवगाहवर्तनास्तथाभवनसामर्थ्यानि, तस्मादात्मादेर्द्रव्यत्वतुल्यत्वे सत्यपि तथाभवनप्रवृत्तिसामर्थ्याच्चैतन्यादिप्रतिविशिष्टलक्षणतोपपद्यते, एवं तावाव्यस्य क्रियाविरहितस्याभाव उक्तः ।
तयैव युक्त्या क्रियाया अपि विना द्रव्येणासत्त्वमित्यत आह
अथ तु प्रवृत्तिर्भूतिरित्येवाद्रव्या ततो नैव स्यादात्मा पूर्ववत् , भवदेव हि भवति 16 द्रव्यार्थतः, एतदनिच्छतोऽस्थितभवनसाधर्म्यात् खपुष्पमपि वा स्यादद्रव्यत्वाद्भाववत् , भूतार्थसामर्थ्यादेव हि प्रवृत्तिः, गुणाद्यपि च द्रव्यमेव प्रवृत्तत्वात्तन्त्वादिवत् ।
(अथेति) अथ तु प्रवृत्तिभूतिरित्येवाद्रव्या प्रतिक्षणप्रवृत्त्युपरमलक्षणा भूतिरित्येव, एवेत्यव
समान मिति न किमपि द्रव्यं पारिणामिक रूपमनापन्नं सद्भवतीति भावः। नित्यावस्थानमेव दर्शयति-यथोक्तमिति योऽसौ
भवति तद् द्रव्यम् तद्भवनलक्षणात् खरूपान कदाचिदपि वियुज्यतेऽन्यथाऽसद्रूपमेव भवेदिति भावः । एवमेव जीवधर्मा20 धर्माकाशकालपुद्गलानां द्रव्याणां द्रव्यत्वेन यथा नित्यावस्थानं तथाऽऽत्मीयात्मीयवैशेषिकलक्षणेभ्योऽपि परस्परमिश्रीभाव
मनापन्नानां नित्यावस्थानमिति दर्शयितुमुपचयहेतुमाह तथा चेति । सर्वेषां द्रव्यत्वतुल्यतां दर्शयति-तुल्ये द्रव्यत्व इति । विशेषलक्षणानि दर्शयति जीवद्रव्यस्येति, खपरप्रकाशचैतन्यपरिणामो वीर्यपरिणामः असंख्येयप्रदेशादिपरिणामः अमूर्तखभावता जीवानाम् , धर्माधर्मयोगतिस्थित्युपग्रहकारिखभावताऽसंख्यातप्रदेशपरिणामस्वभावताऽमूर्तस्वभावता च, नभसोऽवगाहदानखभावता अनन्तप्रदेशपरिणामखभावताऽमूर्तता च कालस्य वर्तनपरिणामखभावता द्रव्यपर्यायापेक्षयाऽनन्तसंख्यापरि25 णामताऽमूर्तता च, अचैतन्यशरीरवाड्मनःप्राणापानसुखदुःखजीवितमरणोपग्रहस्वभावता मूतखभावताऽप्रदेशसंख्येयासंख्येयानन्तप्रदेशपरिणामखभावता च पुद्गलानामिति मर्यादामेतामनादिकालप्रसिद्धिवशोपनीतां तथाभवनप्रवृत्तिसामर्थ्यादात्मादयो न कदाचिदप्यतिक्रामन्ति तुल्ये द्रव्यत्वे सत्यपि, खखलक्षणातिक्रमे हि पदार्थानामेषां भेदो न स्यात् , न घेते स्वगुणमपहायान्यदीयगुणपरिग्रहं कुर्वन्तीति स्वात्मनि नित्यावस्थितखरूपा एवेति भावः। एवञ्च न किञ्चित् क्रियाविरहितं द्रव्यमस्तीत्युपसंहरति-एवं
तावदिति । अथ क्रियामात्रपक्षे दोषं वक्तुमाह-अथ स्विति तुशब्दो द्रव्यपक्षव्यावृत्त्यर्थः । प्रतिक्षणं विभिन्नक्रियामात्राभ्यु30 पगमेऽपि आत्मादि न भवेदित्याह-प्रतिक्षणेति एकस्य पर्यायस्य प्रवृत्तिरपरस्य च विनाश इति प्रतिसमयमुदयव्ययात्मकं खयं
भवनमेव भावाख्यमस्ति न तु स्रजः सूत्रमिव भवनबहिर्भूतं द्रव्यमुपलभ्यमानमस्ति, नाप्य दृश्यं द्रव्यमस्ति षष्ठभूतवत्तत्साधक
१. सि. क. तुल्यावे ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org