________________
४१०
द्वादशारनयचक्रम्
[विध्युभयारे किश्चान्यत्
हेतुविरुद्धतोक्तावप्येवमेवेति स्फुटमेव सुखं सदा व्यक्तशब्दस्पर्शरूपरसगन्धं चेत्यभ्युपगम्यताम् , किमन्यापादनेन परदोषाभिधानेन वा तत्त्ववादिनैव भवितव्यमृजुना, तेभ्य एव लघ्वादिभ्यो हेतुभ्यो वियदादिवदिति , स्वमतेन तु व्यक्तशब्दस्पर्शरूपरसगन्धवत्प्रति5 ज्ञायां वियद्वर्जान्युदाहरणानि ।
(हेत्विति) हेतुविरुद्धतोक्तावप्येवमेव-यथोक्तमेते हेतवः सप्रपञ्चाः सविशेषणनिर्विशेषणाः प्रतिज्ञादोषोद्भावनद्वारेण विरुद्धाव्यभिचार्युद्भावनद्वारेण चास्मत्पक्षस्यानन्यत्वस्य साधका इति, तथा हेतुविरुद्धतापि अन्यत्वपक्षे, प्राग्व्याख्यात[स]मन्वयव्यावृत्त्यभावविधिनाऽन्यत्वपक्ष एव दर्शनादिति तदुपसंहारार्थमाह इति स्फुटमेवेत्यादि यावद्वियदादिवदिति, इतिशब्द[स्यो]पसंहारार्थत्वात्, यदमि10 लिख्यते त्वया प्रधानं नाम गुणसाम्यावस्थानं किञ्चिदस्तीति तन्नामिलिखनीयम् , सुखं सदा व्यक्त
शब्दस्पर्शरूपरसगन्धं चेत्यभ्युपगम्यतां स्फुटमेव किमन्यापादनेन परदोषाभिधानेन वा, तत्त्ववादिनैव भवितव्यमृजुना, तेभ्य एव लध्वादिभ्यो हेतुभ्यो वियदादिवत्-यथाऽऽकाशवाय्वन्यम्बुभुवः पञ्च महाभूतानि व्यक्तशब्दादिभावानि तथा सुख मिति लघ्वादिभ्य एव हेतुभ्यः पृथिव्यामिव शब्दादयः पश्चापि, शेषेष्वपि च चतुषु भूतेषु व्यक्ता इत्यभ्युपगम्यताम् , परिणतिविशेषात्तु हिङ्गुगन्धवत् सूपे 15 लवणरसवच्चाप्सु कस्यचिदेव प्रत्यक्षता शब्दादेन शेषस्य, अभिभवादिभिरिति परमतेनैवैतदुक्तम् , स्वमतेन तु व्यक्तशब्दस्पर्शरूपरसगन्धवत्प्रतिज्ञायां वियद्वर्जान्युदाहरणानीति 'स्पर्शरसगन्धवर्णवन्तः पुद्गला इति' [तत्त्वा अ. ५, सू०, २३] सामान्येन 'अणवः स्कन्धाश्च [तत्त्वा. अ. ५. सू. २५] मूर्त्तत्वात् पृथिवीवत् वाय्वादयोऽपि, शब्दबन्धसूक्ष्मस्थौल्यादयस्तु स्कन्धेष्वेव पुद्गलेष्विति, आकाश
विरुद्धाव्यभिचारित्वविरुद्धत्वादयोऽन्यत्वपक्ष एव न त्वनन्यत्वपक्ष इत्याह-हेत्विति । एतदेव विशदयति-यथोक्त मिति, 20 सविशेषणेति अनात्मत्वे सतीत्यादिविशेषणेन सहिता रहिता वा हेतवः प्रतिज्ञाश्च मोहादुरोरिति गुर्वादिविशेषणेन सहिता
रहिता वेति भावः, हेतुविरुद्धत्वोक्तिरप्येवमेव अन्यत्वपक्ष एव नानन्यत्वपक्ष इत्याह-तथा हेत्विति । सांख्य शिक्षयति-यद भिलिख्यत इति, सुखं सदा व्यक्तशब्दस्पर्शरूपरसगन्धं लघुत्वादिभ्यः, वियदादिवदिति सदा स्फुटमनुभूयमानशब्दादिगुणं सुखायेवाभ्युपगम्यताम , किमव्यक्तप्रकृतिमहदादिपरिकल्पनाक्लेशेन, तत्र दृष्टान्तेष्वपि गगनादिपञ्चभूतेषु वैषम्यमन्तरेण सर्वत्र
शब्दादिपञ्चगुणा व्यक्ता एवाभ्युपगम्यताम् , यथा च परिणामवैचित्र्येण पञ्चगुणसद्भावेऽपि हिड्गन्धस्यैव सूपे लवणस्येव 25 रसस्य जले प्रत्यक्षत्वमपरेषामभिभवात् तथाऽऽकाशे शब्दस्यैव वायौ शब्दस्पर्शयोस्तेजसि शब्दस्पर्शरूपाणां जले
शब्दस्पर्शरूपरसानां पृथिव्याञ्च शब्दस्पर्शरूपरसगन्धानां प्रत्यक्षत्वमिति भावः । वर्णनमिदं परमतानुसारेणोक्तं स्याद्वादसिद्धान्तानुसारेण तु शब्दस्य पौद्गलिकत्वात् स्पर्शादीनाञ्च पुद्गलगुणत्वाद्वियर्जानामेवोदाहरणत्वं विज्ञेयमित्याह-स्वमतेन त्विति । स्पर्शादयः पुद्गलानामेव धर्मा भिन्नाभिन्नात्मानः, ते पुद्गलाः समासतो द्विविधाः, अणवः स्कन्धाश्चेति, तत्राणवोऽस्मदिन्द्रियविषयातीताः सूक्ष्माः परस्परेणासंयुक्ताः, स्थूला ग्रहणादानादिव्यापारसमर्थाः प्रायः स्कन्धाः संघाता इति पुद्गलभेदा30 उक्ताः । अथ यथा पृथिवी मूर्त्तत्वात् स्पर्शादिचतुर्गुणा तथा वायुतेजोजलान्यपीत्याह-मूर्त्तत्वादिति, रूपं हि मूर्तिः मूर्त्या.
श्रयाश्च द्रव्यादयः, नहि स्पर्शादयो मूर्ति व्यभिचरन्ति, अविनाभावित्वात् , यत्र हि रूपपरिणामः तत्रावश्यतया स्पर्शरसगन्धा भवन्ति ततश्च परमाणावपि ते विद्यन्ते, न च परमाणवश्चतुगुणत्रिगुणद्विगुणैकगुणजातिभेदाः, सर्वेषामेकरूपत्वात् किन्तु किञ्चिह्न
१ सि. क. 'नन्यत्व०।२ सि. क. शब्दसम्बद्ध ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org