________________
तव मत एव दोषाः] न्यायागमानुसारिणीव्याख्यासमेतम्
४०९ सर्वगतत्वादकृतकत्वादित्यादि वा यावकिश्चिदिहास्ति सर्व तदनन्यत्वे त्रिलक्षणता प्रतिपद्यते धर्मजातमित्यतः कुतः सङ्कलना ? न शक्यमेव संकलयितुम् , प्रत्येकद्वित्रिचतुरादिसंयोगधर्मानन्त्यादिति स्वपक्षसाधनहेतुसौलभ्यं दर्शयति भावितत्रैगुण्यैकात्मकलोष्टादिवस्तुन्यायव्यापित्वादिति ।
इतर आह
नन्वेवं स्ववचनविरोधादिदोषा अनन्यत्वप्रतिज्ञाया इत्ययुक्तम् , तवात्मन एवोपाल- 5 म्भात्।
नन्वेवं ववचनविरोधादीति, सुखं दुःखादनन्यदिति पक्षे सुखदुःखयोः प्रतिपुरुषं स्वानुभवेन पृथक्त्वसिद्धेः शरीरविकारादिभिरनुमेयत्वाच्च लोकप्रसिद्धरभ्युपगतत्वाञ्च त्वयापि स्ववचनेन च सुखं दुःखमिति पृथगुच्चारणात् स्ववचनाभ्युपगमलोकप्रसिद्धिप्रत्यक्षानुमानविरोधदोषा अनन्यत्वप्रतिज्ञाया इति एतच्चायुक्तम् , तवात्मन एवोपालम्भात्, यस्मादेवं पुनः स्वसिद्धान्त एव स्ववचनादिविरोध 10 उन्नीयते त्वयाऽऽत्मन एव, न ममोद्दिश्य आत्मनोऽपरिहारेण वचनवक्रतयोच्यते ।
कुत इति चेदुच्यते
प्रधानमेकं सुखदुःखमोहात्मकत्वादभिन्नगुणात्मकं साम्येन चावस्थितमिति तथा परस्परमुपकुर्वन्ति सत्त्वादयः शब्दादिभावेन च व्यवतिष्ठन्ते प्रत्येकं सुखाद्यात्मनेति सुखादित्र्यात्म:कत्वं घटादावेकस्मिन्नेव चेति त्वयैवाभ्युपगतत्वात् कस्य स्ववचनविरोधादिदोषाः ? इति 15 स्वस्थेन चेतसा चिन्त्यताम् ।
प्रधानेत्यादि यावदभ्युपगमात् , प्रधानमेकं सुखदुःखमोहात्मकत्वादभिन्नगुणात्मकं साम्येन चावस्थितमिति कस्यायं स्ववचनविरोधः, तथा परस्परमुपकुर्वन्ति सत्त्वादयः शब्दादिभावेन च व्यवतिष्ठन्ते प्रत्येकं सुखाद्यात्मनेति सुखादिव्यात्मकत्वं घंटादावेकस्मिन्नेव चेति त्वयैवाभ्युपगतत्वात् , अन्यत्वैकत्वोक्तेश्चेति कस्य स्ववचनविरोधादिदोषा इति स्वस्थेन चेतसा चिन्यताम् , मम तु त्वदोषो- 20 द्भावनपरप्रयासत्वाददोषः, एवमस्मदोषोत्कीर्तनद्वारेण स्वदोषोत्कीर्तनमेवैतद्भवत इति ।
पार्थक्येनानुमानादनुमानविरोधश्चेत्याशङ्कते-नन्वेवमिति। एवं वदतस्तवैवायं दोषो न ममेत्याशयेनोत्तरयति-तवात्मन एवेति । विरोधमेवोद्भावयति-प्रधानमेकमिति, सुखादिधर्मकसत्त्वादित्रयात्मकमेकं प्रधानं धर्मधर्मिणोस्तादात्म्यात् , तादात्म्यच्च भेदसहिष्ण्वभेदोऽतख्यात्मकमेकमन्यूनाधिकभावेनावस्थितमभ्युपगम्यते, न्यूनाधिकभावदशायां प्राप्तायामेको गुणोऽन्यतरमपेक्ष्य जनयति, यथागुगप्रधानभावं सुखदुःखमोहधर्म कशब्दाद्यात्मना परिणमन्ति सत्त्वादयः, सत्त्वादेश्च 25 प्रतिक्षणपरिणामस्वभावतया घट एक एव कञ्चन सुखाकरोति तं प्रति तस्य सुखरूपसमुद्भवात्, कञ्चन दुःखाकरोति तं प्रति तस्य दुःखरूपसमुद्भवात् , कञ्चन मोहयति तम्प्रति तस्य मोहरूपसमुद्भवादित्येकस्य सुखदुःखमोहात्मकत्वं वदतस्तवैव खवचनाभ्युपगमलोकप्रसिद्धिप्रत्यक्षानुमानविरोधदोषाः, त्रिगुणमेकमिति विरोधादिति भावः। मम च प्रयासः केवलं तव मते दोषमुद्भावयितुम् , न तु यथा मया प्रतिपादितं तथा मम मतम् , अतो न मे विरोधादिदोषाः, एवञ्च मयि दोषमुद्भावयता त्वया तव मत एवोद्भावित इत्याह-मम विति। एवं हेतुदोषा अप्यप्रसिद्धसाध्यसमन्वयव्यावृत्तित्व- 30
१ सि. क. प्रत्यक्षं । २ सि. क. स्वानुभवने । ३ क. दुःख०। ४ सि. क. स्ववचनादिति । ५ सि. क. नघटा। ६ सि. क. नान्यत्वेकवेति ।
द्वा० न० १४ (५२) Jain Education International 2010_04 For Private & Personal Use Only
www.jainelibrary.org.