________________
MM
द्वादशारनयचक्रम्
[विध्युभयारे (एवञ्चेति) एवञ्च स्थिते-स्वधर्मेणापि लोष्टाद्यर्थानां सुखायेकात्मकत्वे स्थितेऽनन्यत्वे लघुत्वादिहेतवोऽपि साधका इति तदर्शयति-सुखं दुःखादनन्यल्लघुत्वात् , लोष्टादिवदिति वर्त्तते, एवमप्रवृत्तिशीलत्वात् प्रकाशकत्वादेतानि च चत्वारि साधनानि- प्रत्येकं त्रीणि समुदितान्येकमिति, अत्र द्विकसंयोगेनापि त्रीणि-लध्वप्रवृत्तिशीलत्वात् लघुप्रकाशात्मकत्वात् , अप्रवृत्तिप्रकाशात्मकत्वादिति । एवं 6 मोहादपीति-मोहात् सुखमनन्यदित्यत्रापि त एव हेतवस्तावन्तः, परधर्मेण सुखस्य दुःखधर्माभ्यां
प्रत्येकं द्वे समुदायेनैकमिति त्रीणि चलत्वादप्रकाशकत्वात् चलाप्रकाशकत्वादिति, प्रवृत्तिशीलत्वादित्यपि तत्संयोगेनेतराभ्यामपि सप्तसाधनानि, एवं मोहादपीति मोहादनन्यत्, चलत्वादिभ्यस्तेभ्यः, एवं सुखं दुःखादनन्यत् , गुरुत्वादप्रकाशकत्वात्तत्संयोगाचेति, एवं मोहादपीति, तेभ्य एव मोहधर्मेभ्यत्रिभ्यो मोहादप्यनन्यत् सुखमिति, द्वाभ्यामप्यनन्यत्-सहिताभ्यामपि दुःखमोहाभ्यामनन्यत् सुखं 10 लघुत्वादित्यादिभ्यस्तेभ्य एव हेतुभ्यो द्वित्रिचतुरादिसंयोगेन प्रत्येकञ्चानुगन्तव्यमिति, अत आह-एत
एव सर्व इति, अनया दिशाऽभ्यूह्याः, न केवलमेत एव लघुत्वादयः चलत्वादयो गुरुत्वादयो वा स्वपरधर्महेतवः, किं तर्हि ? स्वपरधर्माः प्रसादादयश्च प्रसादलाघवादयः शोषतापभेदादयः, वरणसदनापध्वंसनादयश्च, इतरेतरेत्यादि, द्वित्रिचतुरादिसंयोगेन चेति सुखस्य दुःखान्मोहाहाभ्याश्चानन्यतया तिस्रः, एवं दुःखस्य तिस्रः, मोहस्य तिस्रः, त्रयाणां परस्परतोऽनन्यता एकैवेति दश प्रतिज्ञाः, एतासु 15 सुखधर्मा लघ्वादयो दुःखधर्माश्चलादयः मोहधौं गुर्वप्रकाशौ प्रत्येकं द्विकादिसंयोगेन सप्तत्यधिकं
शतं साधनानाम् , लाघवगौरवे त्वपनीय प्रसादादिशोषादिवरणादीनाश्च हेत्वयं पञ्चषष्टिसहस्राणि पञ्चशतानि च षट्त्रिंशानि, किश्चान्यत् , न केवलमेत एव हेतवोऽन्येऽप्यचेतनत्वेत्यादिसमासदण्डकमध्ये यावच्छरीराद्यापत्तित्वादि प्रकृतिधर्मैः सामान्य तैर्विशेषितैश्चापुरुषत्वे सति सत्त्वात् प्रमेयत्वात्
इति । खधर्मेण सुखे दुःखान्यत्वसाधने हेतून् गणयति-स्वधर्मणापीति । सुख लघ्वप्रवृत्तिशीलं प्रकाशकं दृष्टमिति 20 वचनाच्चत्वारो हेतव इत्याह-सुखमिति, दुःखादनन्यत्वे साध्ये प्रत्येकं त्रीणि त्रिकसंयोगेनैकं द्विकसंयोगेन त्रीणीति सप्त साध
नानीति भावः । एवं मोहादनन्यत्वे साध्ये त एव तावन्तो हेतव इत्याह-एवं मोहादपीति । दुःख चलमप्रकाशकं प्रवृत्तिशीलं दृष्टमिति दुःखधर्मेण सुखस्य दुःखादनन्यत्वे साध्ये सप्त हेतवः मोहादनन्यत्वे च साध्ये त एव तावन्त इत्याह-परधर्मणेति । मोहो गुरुरप्रकाशको दृष्ट इति वचनात् मोहधर्मेण सुखस्य मोहादनन्यत्वे साध्ये त्रयो हेतव इत्याह-एवं मोहादपीति । प्रोक्त एव सर्वे हेतवो दुःखमोहाभ्यामनन्यत्वे साध्ये प्रयोज्या इत्याह-द्वाभ्यामपीति । एवं प्रसादलाघवाभिष्वङ्गोद्धषेप्रीतय 25 सुखस्य कार्यम् शोषतापमेदस्तम्भोद्वेगापद्वेगा दुःखस्य वरणसदनापध्वंसनबैभत्स्यदैन्यगौरवाणि मोहस्येति वचनेन प्रसादादयोऽपि सुखस्य दुःखाद्यनन्यत्वे साध्ये हेतवो भवन्तीत्याह-किं तहीति । सत्त्वस्य स्खधर्माः प्रसादादयः परधर्माः शोषादयो वरणादयश्चेति बोध्यम् । अथ प्रतिज्ञाभेदान् प्रदर्श्य हेतुसंख्यां सामान्यत आह-द्वितीति । अनन्यतया-अनन्यत्वसाध्येनेत्यर्थः । प्रयाणामिति सुखदुःखमोहानां परस्परतोऽनन्यत्वसाधने एका प्रतिज्ञा, त्रयोऽप्यनन्य इत्येवंरूपेत्यर्थः । साधनानि गणयति
एताविति प्रोक्तप्रतिज्ञाखित्यर्थः । लाघवगौरवे विति, लघुत्वगुरुत्वयोः सुखधर्मे मोहधर्मे चोक्तत्वादिति भावः, इतोऽ30 न्यान्यपि बहूनि साधनानि सम्भवन्तीत्याह-किश्चान्यदिति । नन्वेवं सुखदुःखमोहानामनन्यत्वसाधने सुखाद्यन्यतमस्यैव परमार्थतो वस्तुत्वापत्त्या सुखमिति दुःखमिति मोह इति वचनमपि न घटते, त्वया पृथगुच्चारणाचानन्यत्वसाधनं खवचनविरुद्धम् , लोकेन तेषां भिन्नखरूपेणानुभवात् लोकविरोधः, शरीरे विकारविशेषमुपलभ्यायं सुखी अयं दुःखी अयं मुग्ध इत्येवं
१ सि. क. भ्यामिति । २ सि. क. स्थूल। ३ सि. क. भूतैरवि० ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org