SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ mammummmmmmmmmmmmmmmmmmmmmmm ammam manaw अनन्यत्वसाधनम् ] न्यायागमानुसारिणीव्याख्यासमेतम् ४०७ अनात्मत्वविशेषणा अपि, नान्यत्वपक्षस्येति प्रतिपादिताः, तत्रैव-अनन्यत्वपक्ष एव त्ववरणाद्यात्मकत्वादिवत् विदोषा लध्वादिहेतवोऽपि, नान्यत्वपक्षे, तत्र सदोषा एवेत्यभिप्रायः । ननु लध्वादयोऽनन्यत्वहेतव उक्ता एव, किं पुनरनुशयेनेत्यत्रोच्यते सुखादावपि च परिहारपक्षेऽपि कृतेऽपि च परधर्मेणापि विशिष्टेन प्रतिपादनविधिनाऽनन्यत्वहेतवः सुखं दुःखादनन्यत् चलाप्रकाशकत्वात् , अविभक्ताशेषगुणात्मकलोष्ट- । वदिति। (सुखादावपि चेति) सुखादावपि च न सत्त्वादिष्वेव, तत्रापि च परिहारपक्षेऽपि कृतेऽपि च-यथा त्वया सुखं मोहाद्गुरोरन्यदिति परिहारपंक्षे कृतेऽपि च परधर्मेणापि दुःखं सुखादनन्यल्लघुत्वादित्येतेनापि-न केवलमनात्मत्वे चलत्वादेवेति, इत्थं विशिष्टेन प्रतिपादनविधिनाऽनन्यत्वहेतव इति, अपिशब्दात् स्वधर्मेण-सुखं दुःखादनन्यत् , लघुत्वादिभिः सुकरप्रतिपादनमेवेत्यर्थः । परधर्मेण 10 तावत्- सुखं दुःखादनन्यत् , चलाप्रकाशकत्वात् , चलमप्रकाशकं प्रवृत्तिशीलं दुःखमिति वचनादुःखधर्मेण सुखं ततोऽनन्यदिति साध्यते, अविभक्ताशेषगुणात्मकलोष्टवदिति दृष्टान्तः, प्रागुपवर्णितः । अविभक्तसुखदुःखमोहात्मकसत्त्वरजस्तमोगुणात्मको लोष्ट इति त्रित्वैक्यानतिक्रमाचात एवाशेषगुणस्तदात्मको लोष्टः चलाप्रकाशकत्वात् दुःखादनन्यदिति स एव लोष्टो दृष्टान्तो भावितः सुखाद्यात्मकत्वात् , एवं तावत् परधर्मेण । एवञ्च स्थिते सुख दुःखादनन्यल्लघुत्वात् , एवमप्रवृत्तिशीलत्वात् प्रकाशकत्वादेतानि च चत्वारि साधनानि, अत्र द्विकसंयोगेनापि त्रीणि, एवं मोहादपि, परधर्मेण सुखस्य दुःखधर्माभ्यां प्रत्येकं द्वे समुदायेनैकमिति त्रीणि, प्रवृत्तिशीलत्वादित्यपि तत्संयोगेनेतराभ्यामपि सप्तसाधनानि, एवं मोहादपि, एवं सुखं दुःखादनन्यत् गुरुत्वादप्रकाशकत्वात्तत्संयोगाच्च। एवं मोहादपि द्वाभ्यामप्यनन्यत् सुखं तेभ्य एव हेतुभ्य इति एत एव सर्वे हेतवः स्वपरधर्माः। प्रसा- 20 दादयश्चेतरेतरसंयोगेन चाभ्यूह्याः, अन्येऽप्यचेतनत्वादिसमासदण्डकमध्ये यावच्छरीराद्यापत्तित्वाप्रकृतिधर्मेस्सामान्यभूतैर्विशेषितैश्च यावत्किञ्चिदिहास्ति सर्व तदनन्यत्वे त्रिलक्षणतां प्रतिपद्यते धर्मजातमित्यतः कुतः सङ्कलना? भावितत्रैगुण्यैकात्मकलोष्टादिवस्तुन्यायव्यापित्वात् । सुखादीनां दुःखाद्यनन्यत्वमित्थं साधितमेव, पुनरपि किमर्थं तदेवोच्यत इत्यत्राह-सुखादावपि चेति खोक्तिदाया॑य त्वदुक्ताः खपरधर्माः सर्व एवानन्यत्वसाधका भवन्तीति प्ररूप्यत इति भावः । अपिशब्दार्थमाह-न सत्वादिष्वेवेति, न केवलानां 25 सत्त्वादीनामनन्यत्वसाधन एव ते हेतव इति भावः । त्वया परिहारपक्षे कृतेऽपि सोऽकिञ्चित्कर इत्याशयेनाह-तत्रापि चेति । परधर्मेणापीति त्वदभ्युपगमेन दुःखादेर्लधुत्वादि परधर्मः, सुखं लघ्वप्रवृत्तिशीलं प्रकाशकं दृष्टमित्युक्तेः । अपिशब्दार्थमाहन केवल मिति । चलत्वमप्रकाशकत्वं च दुःखधर्मः। तदेव समुच्चित्य सुखेऽनन्यत्वसाधने हेतूक्रियते चलाप्रकाशकत्वादिति । अविभक्केति, अविभक्ता अपृथसिद्धतत्त्वा येऽशेषा गुणाः सुखदुःखमोहास्तदात्मको यो लोष्टः तद्वदित्यर्थः । साधितञ्च सुखदुःखमोहानामैक्यमपृथग्भूतसमवस्थानस्वरूपमेदात्मकत्वादितिहेतुनेत्याशयेनाह-प्रागुपवर्णित इति । अथ 30 सुखादीनां परस्परमनन्यत्वसाधनहेतूनां सङ्कलनाशक्यतामभिधातुं खपरधर्मेण परोक्तलक्षणाश्रयेण सङ्कलयति-पवञ्च स्थित ५ सि. क. स्वलध्वादयोऽन्यत्वहे. इत्यधिकं दृश्यते । २ सि० का विपरिहार० । ३ सि. क. पि च न य० । १ सि. क. पक्षोकृतास्वे०। Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002585
Book TitleDvadasharnaychakram Part 2
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1951
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy