________________
४०६
द्वादशारनयचक्रम्
[विध्युभयारे ___ अथ तु विभक्तस्वतत्त्वं सुखं सुखादन्यन्न भवति प्रसादाद्यनात्मकमपि न भवतीति, उच्यते तथा सति तेन प्रकारेण नियमवत् सुखमेवानन्यत् प्रसादाद्यात्मकं भवति चेति तथा तस्य वस्तुनः प्रवर्तनात् तथाव्यक्तेश्च नियमप्रवृत्तिप्रकाशात्मकं सुखमेवेति त्वदभ्युपगमेनैवैक्यं मोहादीनामापन्नमस्मिन् साधने, एवं शेषसाधनेष्वपीति को वादार्थ उभयोरपि। । अथ त्वित्यादि यावत्सुखमिति, अथ मतं यद्विभक्तस्वतत्त्वं दुःखमोहाभ्यां तत्सुखं सुखादन्यन्न भवति तत् प्रसादाचनात्मकमपि न भवतीति विविक्तस्वरूपस्य सुखस्य दुःखादन्यत्वात् प्रसादाद्यात्मकत्वाच्च तदेव शक्यते वैधhण निदर्शयितुमत एव च तमः सुखादन्यत् विविक्तस्वरूपमप्रसादाद्यात्मकमपुरुषश्चेति साधर्म्यदृष्टान्तश्च स्यादिति, एवमितरसाधनेष्वप्युभयदोषपरिहार इत्यत्रो
च्यते तथा सतीत्यादि यावत् को वादार्थ उभयोरपीति, एवं सति तेन प्रकारेण नियमोऽयं यत् 10 सुखादन्यत् न भवति तत् प्रसादाद्यनात्मकमपि न भवत्येवेति, एतेन प्रकारेण नियमवत् सुखमेवा
नन्यत् प्रसादाद्यात्मकं भवति चेति तथा तस्य वस्तुनः प्रवर्तनात् तथाव्यक्तेश्च नियमप्रवृत्तिप्रकाशात्मकं सुखमेवेति त्वदभ्युपगमेनैवैक्यं मोहादीनामापन्नमस्मिन् साधने, एतदभ्युपगमवच्च शेषसाधनेध्वपि, दुःखादन्यत् सुखं मोहश्चेत्येवमादिषु, यद्यदनात्मत्वे दुःखादन्यन्न भवति तच्छोषादिवरणा
धनात्मकमपि न भवतीत्येवं नियमाद्व्यक्तेः प्रवृत्तेश्चैक्यं मोहादीनामभ्युपगतं त्वयैवे[ती]तरेतरैकत्वाभ्यु1 पगमः, इतिशब्दो हेत्वर्थे, इत्यतः को वादार्थः-वादप्रयोजनमुभयोरावयोः त्वयैवैक्याभ्युपगमान्न वादार्थस्तव ममापि, प्रतिपन्नार्थप्रतिपादनवैफल्यादिति ।
__ एवं तावदवरणाद्यात्मकत्वादिहेतवः प्रथमोक्तानन्यत्वपक्षस्यैव साधका अनात्मत्वविशेषणा अपि, तत्रैव त्ववरणाद्यात्मकत्वादिवद्विदोषा लघ्वादिहेतवोऽपि ।
(एवं तावदिति) एवं तावदवरणाद्यात्मकत्वादिहेतवः प्रथमोक्तानन्यत्वपक्षस्यैव साधकाः,
mmmmmmmmm
ammM
20 शक्यते तस्मान्न सपक्षोऽस्ति, सुखस्य साध्यशून्यस्य विपक्षतया ततो हेतोर्न व्यावृत्तिः प्रदर्शयितुं शक्या सुखादेरनिर्देश्यत्वादेव
अत एव च यत् सुखादन्यन्न भवति तत् प्रसादाद्यनात्मकमपि न भवति, तथा सुखादन्यो मोह इत्यपि दर्शयितुमशक्यत्वात् विपक्षाद्धेतोावृत्तिरपिन सिध्यतीति विरुद्धता हेतूनामिति भावः। अथ सुखादयो नाविभक्तखतत्त्वाः किन्तु विभक्तखतत्त्वा एव, तथा च साध्यसाधनयोरन्वयव्यतिरेको सेत्स्यत इत्याशङ्कते-अथ त्विति । तयाचष्टे-अथ मतमिति सुखदुःखमोहानां विविक्ततत्त्वत्वात् सुखादन्यत्वे साध्ये मोहस्साधर्म्यदृष्टान्तः सुखश्च वैधर्म्यदृष्टान्त इति प्रदर्शयितुं शक्यते ततश्च नानन्वयो न 20 वाऽव्यतिरेक इति भावः । एवं सति सुखमेव प्रकाशप्रवृत्तिनियमात्मकमिति त्वदीयाभ्युपगमेनैव सुखदुःखमोहानामैक्यमस्मत्साध
नीयं सिद्धमेवेति नेदानी किमप्यस्ति वादप्रयोजनमित्याशयेनोत्तरयति-तथा सतीति. विभक्तखतत्त्वतायां सुखादीनामङ्गीकृतायां सत्यामित्यर्थः । सुखस्य नियमात्मकत्वं दर्शयति-तेन प्रकारेणेति सुख सुखमेव, सुखादन्यन्न भवति, प्रसादाद्यात्मकमेव, प्रसादावनात्मकं न भवतीति प्रतिनियतरूपत्वानियमात्मकमित्यर्थः । सुखस्य प्रवृत्त्यात्मकत्वं प्रकाशात्मकत्वञ्च दर्शयति-तथा तस्येति सुखं सुखात्मतया प्रवर्तते प्रकाशते चेति प्रवृत्तिप्रकाशात्मकमित्यर्थः । एवं दुःखमोहयोरपि प्रकाशप्रवृत्तिनियमात्मकत्वादितरेतररूपत्वमतिदिशति-एतदभ्युपगमवञ्चति । सिषाधयिषितस्यार्थस्य त्वयाऽप्यभ्युपगतत्वात्तस्य पुनः प्रतिपादनं निष्फलमेवेति नावयोरिदानी कश्चिद्वादार्थोऽस्तीत्याह-इत्यत इति । एवञ्चावरणाद्यात्मकत्वादिहेतूनामनात्मत्वविशेषितानामप्यनन्यत्वसाधन एव सद्धेतुत्वं न त्वन्यत्वसाधने, सदोषत्वादित्युपसंहरति-एवं तावदिति । नन्वेवं लघुत्वादिहेतुना
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org