________________
अनात्मत्वविशेषणम्] न्यायागमानुसारिणीव्याख्यासमेतम्
४०५ किश्चान्यत् योऽपि धर्मस्वरूपविरोधः सोऽप्युच्यते तद्यथाधर्मस्वरूपविरोधोऽपि चैवमेव, ततश्च प्रकृतिपुरुषयोरप्येकतैव, एवं सुखमोहयोरपि ।
(धर्मेति) धर्मखरूपविरोधोऽपि चैवमेव-यथा पुरुषत्वापत्तौ सुखादीनां सुखाद्यात्मपरित्यागे धर्मिस्वरूपविरोधः तथा पौंसापत्ती त्रयाणामैक्यापत्तौ चान्यधर्मस्वरूपविरोधश्च, ततश्च प्रकृतिपुरुषयोरप्येकतैव-तस्माद्धेतोः पुरुषत्वापत्तेरनन्यत्वापत्तेश्च प्रकृतिः पुरुषादन्या पुमान् वा प्रकृतेरन्य । इति नोपपद्यते, ततोऽस्मदभीष्टमेकमेव कारणमित्येतदर्शनं साधीयः, एवं सुखमोहयोरपि-यों दुःखं सुखादन्यदित्येतत् किं तन्मात्रात् [उत] त्रैलक्षण्यादित्यतः प्रभृति यावत् प्रकृतिपुरुषयोरप्येकतैवेत्युक्त तथा सुखं दुःखमोहाभ्यामन्यत् मोहः सुखदुःखाभ्यामन्य इत्येतेष्वपि चतुर्पु दुःखं सुखादन्यदिति च साधनेन सह एवं ग्रन्थो योज्य इति ।
अथ मा भूदेष दोष इत्यनात्मत्वविशेषणं त्वद्वदाब्रवीमीत्युच्यते तथा सति यथा किं 10 सुखादन्यत् आत्मानं मुक्त्वा इदं तदिति निदर्शयितुं शक्यते ? इति समन्वयाभावः सुखादेरपि सुखादन्यस्य विपक्षत्वाद्विपक्षाव्यावृत्तिरपि ।
(अथ मा भूदिति) अथ मा भूदेष दोष इत्यनात्मत्वविशेषणं त्वद्वत्-एतद्दोषपरिहारार्थ यथा त्वयाऽनात्मत्वे सति वरणाद्यात्मकत्वात् सुखं दुःखाद[न]न्यन्मोहवदित्याद्यभिहितं तथाऽहमप्यनात्मत्वे सति लघुत्वात् सुखं दुःखादन्यन्मोहवदित्याब्रवीम्यतो[धर्म]धर्मिस्वरूपविरोधौ प्रकृतिपुरुष-15 दोषश्च नेति, अत्रोच्यते तथा सति यथा किमिति-एवं सति यथा किं सुखादन्यदात्मानं मुक्त्वेति दृष्टान्त इदं तदिति निदर्शयितुं न शक्यते-इदं तत् सुखात् पुरुषाचान्यद्वस्त्विति समन्वयस्याभावः, अत एव चान्यत्वेन पक्षीकृते सुखादिपुरुषव्यतिरिक्तसपक्षाभावात् सुखादेरपि सुखादन्यस्य विपक्षत्वाद्विपक्षाद्धेतोावृत्त्यर्थं यदुच्यते यच्च सुखादनन्यत् तदनात्मत्वे न प्रसादाद्यनात्मकं न लवाद्यनात्मकञ्चेति निदर्शयितुं न शक्यते, न च मोहादि सुखादन्यद्भवतीति शक्यं दर्शयितुमिति विपक्षाव्यावृत्तिरपि 20 अतो विपक्ष एव सत्त्वाद्विरुद्धाश्च हेतव इत्यभिप्रायः। प्रकृतिधर्मत्वं न स्यादिति धर्मखरूपविरोध इत्याह-धर्मखरूपेति । दोषान्तरमप्याह-ततश्च । पुरुषत्वापत्तेश्चेत्यर्थः । सुखदुःखमोहात्मन एव प्रकृतित्वात् सुखादीनां पुरुषत्वापत्तौ पुरुषादनन्यत्वे च पुरुष एव प्रकृतिः स्यात् , नान्या काचित प्रकृतिः पुरुषादत एकमेव कारणं सुखं वा दुःखं वा मोहो वा प्रकृतिर्वा पुरुषो वा भवेत् , न तु त्र्यात्मकमेकं भवदिष्टमिति भावः । प्रोक्तं दुःखधर्मिकं विचारमेव सुखमोहयोरपि समानत्वादतिदिशति-एवमिति । एतमेव स्फुटयति-यथेति । चतुर्विति, 25 सुखं दुःखादन्यत् , सुखं मोहादन्यत्, मोहः सुखादन्यः दुःखादन्य इति पक्षेष्वित्यर्थः। अथ सुखादीनां पुरुषत्वाद्यापत्तिवारणार्थ सुखादि दुःखाद्यन्यत् , अनात्मत्वे सति लघुत्वादिभ्य इत्युच्यते इत्याशङ्कते-अथेति, त्वद्वदिति, भवद्भिर्यथा सुखं दुःखादनन्यत् , अनात्मत्वे सति वरणाद्यात्मकत्वादित्यनात्मत्वेन हेतुर्विशेषितस्तथाऽस्माभिरपि पुरुषव्यावर्तनाय तदेव विशेषणमुच्यते तथा च न पूर्वोक्ता दोषा इति भावः । एवं सति ते हेतवोऽप्रसिद्धसाध्यधर्मसमन्वयव्यावृत्तयो विरुद्धाश्चेत्युत्तरयति-तथा सतीति अनात्मत्वे सतीति विशेषणे कृत इत्यर्थः, दुःखं सुखादनन्यत , अनात्मत्वे सति प्रसादाद्य-30 नात्मकत्वादिति प्रयोगे पुरुषव्यतिरिक्तस्य निश्चितसाध्यसाधनोभयस्य दृष्टान्तस्य कस्यचित् प्रदर्शयितुमशक्यत्वान्न साध्यसाधनयोरन्वयः सिद्ध्यति, सर्व हि सुखदुःखमोहात्मकमविभक्तखतत्त्वमत इदं सुखं दुःखं मोहो वेति न पृथक् विभज्य दर्शयितुं
१ सि. क. दुःख० । २ सि. क. सुखं दुःखादः । ३ सि. क. दुःखं सुख । ४ सि. क. सुखं मोहाद० । ५ सि. क० दन्यन्न भवतीत्यशक्यं ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org