________________
૪
द्वादशारनयचक्रम्
[ विध्युभया
wwww
त्वात्तस्य चान्यपदार्थत्वव्यभिचारं दर्शयति, तद्गुणसंविज्ञानपक्षाश्रयणेन 'भवति बहुव्रीहौ तद्गुणसंविज्ञानमपि ' ( महाभा०अ १ पा. १ सू० २१) इति वचनात् न हि स्थूलशिरोलक्षितस्तद्व्यतिरिक्तो राहुरस्ति, चित्रगो विशिष्टदेवदत्तवत्, तदेव हि स्थूलशिरो राहुः, तद्वतोऽसदाख्या - शिरोव्यतिरिक्तस्याssख्या व्यपदेश:, स्थूलेन शिरसा व्यपदेशेन चित्राभि [ गभि]रिव व्यपदेशिनो देवदत्तस्य व्यतिरिक्तस्य तद्वदव्यतिरिक्त6 स्यापि राहोः, तया व्यपदेशिवद्भावं कृत्वा व्यवहारो दृष्टोऽसतोऽपि तथेदमपि स्यात्, तस्य च व्यपदे
www.www.wMA
www
www.
शिवद्भावव्यवहारस्यानभ्युपगमे - उक्तोपपत्त्या दृष्टमिममसदाख्यया व्यपदेशिवन्द्भावव्यवहारमनभ्युपगच्छतस्ते धर्मधर्मिस्वरूपविरोधौ दोषौ भवतः ।
धर्मस्वरूप विरोधस्तावत्
आत्मनोऽनन्यदेव दुःखम्, प्रसादाद्यनात्मकत्वात्, आत्मस्वतत्त्ववत्, पुरुषत्वापत्तिश्च,
www.w
www// NA
10 अन्यथा सुखान्यत्वप्रसादाद्यनात्मकत्वानुपपत्तेः ।
( आत्मन इति ) आत्मनोऽनन्यदेव दुःखम्, पुरुषादित्यर्थः, प्रसादाद्यनात्मकत्वात् बहुव्रीहिसामर्थ्यात् प्रसादाद्यात्मनोऽन्यत्वादित्यर्थः, आत्मस्वतत्त्ववत् पुरुषस्वात्मवदित्यर्थः, पुरुषत्वापत्तिश्च दुःखस्य धर्मिस्वरूप वैपरीत्यम्, अतो धर्मिस्वरूपविरोधः । किं कारणं ? अन्यथा सुखान्यत्वप्रसादाद्यनात्मकत्वानुपपत्तेः पुरुषत्वापत्तिमन्तरेण सुखस्य दुःखादन्यत्वं वरणाद्यनात्मकत्वं दुःखस्य वा सुखा15 दन्यत्वं प्रसादाद्यनात्मकत्वं मोहस्य त्वाभ्यामन्यत्वं प्रसादादिशोषाद्यनात्मकत्वञ्च नोपपद्यते, भावित - न्यायत्वात् सुखदुःखमोहानामैक्यवृत्तित्वस्य तस्मात् पुरुषस्वरूपापत्तेः प्रसादादिशोषादिकार्याणां सुखदुःखमोहानां धर्मिस्वरूप विपरीततेति ।
wwwww
पुंलिङ्गत्वेन बहुव्रीहेरेव तंत्रत्वादन्यपदार्थव्यभिचारित्वमिति भावः । तगुणेति तस्य अन्यपदजन्यप्रतीतिविषयस्य गुणा विशेषणानि तेषां संविज्ञानं यत्र सोऽयं तद्गुणसंविज्ञानबहुव्रीहिः, बहुव्रीहिसमासघटकपदव्यति रि तरा हुपदजन्यप्रतीति विषयस्य विशेषणान्यपि - 20 स्थूलशिरोरूपाणि तदुपलक्षितस्य तदभिन्नस्य राहोर्बोधकानि भवन्ति, वैषम्योदाहरणं चित्रेति, तत्र व्यतिरिक्तोऽन्यपदार्थोऽस्ति,
अत्र तु तदेव समासघटकशिर एव तद्वतो राहोरसदाख्या भवतीत्यर्थः । भवतीति, सर्वादीनि सर्वनामानीत्यत्र सर्व आदिर्येषां तानीमानीति विग्रहे सर्वशब्दस्य सर्वनामसंज्ञा न प्राप्नोति, अन्यपदार्थ प्रधानत्वाद्बहुव्रीहेः, यदन्यत् सर्वशब्दात्तस्य सर्वनामसंज्ञा प्राप्नोतीति शङ्कायां नैष दोषः, भवति हि बहुव्रीहौ तद्गुणसंविज्ञानमपि, यथा चित्रवाससमानय इति तद्गुण आनीयत इति महाभाष्ये प्रोकम् । व्यपदेशिवद्भावमिति यत्र निमित्तसद्भावान्मुख्यो व्यपदेशो यस्यास्ति स व्यपदेशी यस्तु व्यपदेशहेत्वभावादविद्यमानव्यप 25 देशः स तेन तुल्यं वर्त्तते कार्यं प्रतीति व्यपदेशवद्भवतीत्युच्यते देवदत्तस्य सतश्चित्राभिर्गोभिर्व्यपदेशो मुख्यः राहोरसतः स्थूलशिरसा व्यपदेशो गौण इति भावः । एवं दुःखस्य प्रसादाद्यनात्मकत्वाभावेऽप्यसदाख्यया प्रसादाद्यनात्मकत्वं व्यपदेशिवद्भावेन व्यवहार्यमित्याह - तथेदमपीति । तथानभ्युपगमे दोषमाह - तस्य चेति । व्यपदेशिवद्भावमनभ्युपेत्य मुख्य एव प्रसादायना त्मकत्वव्यवहारेऽभ्युपगम्यमाने पुरुषस्यापि प्रसादाद्यनात्मकत्वाद्यथा पुरुषखात्मा पुरुषादनन्यो भवति तथा दुःखस्यापि प्रसादाधनात्मत्वात् पुरुषादनन्यत्वेन पुरुषत्वापत्त्याधर्मिखरूपविरोधः प्रसज्यत इत्याह- आत्मन इति पुरुषादित्यर्थः । यदि दुःखं 30 पुरुषात्म न भवेत्तर्हि तत् प्रसादाद्यनात्मकं मुख्यं न स्यात्, सुखादन्यदपि मुख्यं न स्यात्, पुरुषव्यतिरिक्तस्य सुखदुःखमोहात्मकत्वेन पूर्व व्यवस्थापितत्वात् तत्र च प्रसादाद्यनात्मकत्व सुखाद्यन्यत्वव्यवहार स्यामुख्यत्वात् पुरुष एव च मुख्यत्वात् एवश्व दुःखादौ प्रसादाद्यनात्मकत्व सुखाद्यन्यत्वव्यवहारस्य मुख्यत्वे पुरुषत्वापत्तिर्दुर्वरैिवेत्याह- पुरुषत्वापत्तिश्चेति । इदमेव कारणमाह- अन्यथेति । कुतो नोपपद्यत इत्यत्राह - भावितेति । एवं सुखदुःखमोहानां पुरुषत्वापत्तौ सुखादीनां पुरुषधर्मत्वेन
"
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org