________________
Ammammmmmmmmmmm
अनात्मकत्वसमासः] न्यायागमानुसारिणीव्याख्यासमेतम्
४०३ न्तशब्दप्रयोगमात्रात् पक्षधर्मसादृश्यात् लक्षण्यशून्यान्न परिवर्त्तनमित्यभिप्रायः, स्यान्मतं न तन्मात्रात्, किं तर्हि ? त्रैलक्षण्यात्, एवञ्चेन्मन्यसे तदयुक्तं, यस्मादादिलक्षणमेव नास्तीह-पक्षधर्मत्वमेव तावन्नास्ति यदाधारण शेषद्वयम् , कथं पक्षधर्मो नास्तीति चेत् यस्मान्नह्यनात्मकत्वं नाम किश्चिदस्ति, यदि प्रसादाद्यात्मा न भवतीत्यनात्मकं दुःखमुच्यते, अथात्मैव नास्तीत्यनात्मकमित्युच्यते द्विधाऽप्यसिद्धं दुःखस्यानात्मकत्वम् , धर्म्यसिद्ध्यापत्तेः, कथमिति चेदुच्यते-न दुःखं नान्यो मोहः पुरुषो वा त्वत्प-5 रिकल्पितं दुःखं प्रसादाद्यनात्मकत्वात् खपुष्पवत्स्यादिति धर्म्यभावादपक्षधर्मत्वम् । ___ इतर आह
नन्वन्यपदार्थविषयत्वाद्बहुव्रीहेरनात्मकश्रुतेरस्ति प्रसादाद्यनात्मा वा चित्रगुदेवदत्तवत् कोऽप्यन्यः, सोऽत्र च सद्धर्मवान् धर्मी पक्षो भवितुमर्हतीति ।
नन्वन्यपदार्थेत्यादि यावत् सद्धर्मवान् , ननु बहुव्रीहेरन्यपदार्थविषयत्वात् तत्सूचकसमा- 10 सान्तकप्रत्ययान्तत्वादनात्मकश्रुतेरस्ति प्रसादाद्यनात्मा वा चित्रगुदेवदत्तवत् कोऽपि वरणादिभ्यः प्रसादादिभ्यश्चान्यः सोऽत्र च सद्धर्मवान् धर्मी पक्षो भवितुमर्हतीति ।
अत्रोच्यते, बहुव्रीहेरन्यपदार्थविषयत्वानैकान्त्यात् , एवमपि स्थूलशिरा राहुरिति तद्गुणसंविज्ञानपक्षाश्रयेण शिरोऽव्यतिरिक्तस्य राहोरसदाख्यया व्यपदेशिवद्भावेन यथा व्यवहारो दृष्टस्तथेदमपि स्यात् , तस्य व्यपदेशिवद्भावव्यवहारानभ्युपगमे धर्मधर्मिस्वरूपविरोधात् । 15
(अत्रेति) अत्रोच्यते नैतदुपपद्यते बहुव्रीहेरन्यपदार्थविषयत्वानैकान्त्यात् , एवमपीत्यादि यावद्धर्मधर्मिस्वरूपविरोधादिति, स्थूलं शिरोऽस्य स्थूलशिरा राहुः, कपोऽतंत्रत्वात् , बहुव्रीहेरेव तंत्रसूचयति पक्षधर्मेति । मात्रपदव्यावर्त्य दर्शयति त्रैलक्षण्यशून्यादिति, पक्षधर्मत्वसपक्षधर्मत्वविपक्षावृत्तित्वशून्यादित्यर्थः। द्वितीयं विकल्पमुत्थाप्य निराकरोति स्यान्मतमिति । पक्षधर्मत्वमेवेति, सपक्षसत्त्वविपक्षासस्वयोः हेतौ सत्त्वेऽपि यावता स हेतुः पक्षे न वर्तते तावता सिषाधयिषिते साध्यधर्मिणि न साध्यनिश्चयो भविष्यतीति पक्षधर्मत्वं मुख्य- 20 तया हेतोरावश्यक तत एवापरे द्वे लक्षणे फलवती भवत इति भावः । नत्रः प्रसज्यप्रतिषेधपर्युदासान्यतरार्थाङ्गीकारेऽपि नानात्मकत्वं नाम धर्मः प्रसिद्ध्यतीत्याचष्टे यदीति यस्यात्मा प्रसादादिने भवति तद्दःखमनात्मकमुच्यत इति वक्तव्यं पयुदासपक्षे, आत्मा नास्तीत्यनात्मकमिति प्रतिषेधपक्षे, उभयोरपि पक्षयोःखादि नास्ति प्रसादाद्यनात्मकत्वात् खपुष्पवदित्यनुमानेन दुःखाद्यभावस्यैव सिद्धर्धर्म्यभावात् व सुखादिभेदः सिद्ध्येत्, त्रैलक्षण्यविरहादित्याह-द्विधापीति । नन्वनात्मकन्वादिति बहुव्रीहिणा समस्तं पदम् , कप्प्रत्ययश्रुतेः, बहुव्रीहिश्च 'अनेकमन्यपदार्थे' इति सूत्रेण समासघटकपदार्थातिरिक्तपदार्थ- 25 वृत्तित्वेऽनेकप्रथमान्तपदानां समासो विधीयते यथा चित्रा गावो यस्यासौ चित्रगुरिति चित्रगोव्यतिरिक्त देवदत्तादौ बहुव्रीहिः, तस्मात् प्रसादाद्यनात्मा कश्चिदस्ति, स एव चात्र पक्षीक्रियते तेन वा पक्षधर्मता हेतोरित्याशङ्कते-नन्वन्यपदार्थेति । सद्धर्मवानिति अन्यस्य कस्यचित् सिद्धत्वादेवानात्मकत्वं नाविद्यमानधर्मः येन खपुष्पदृष्टान्तेन धर्मासिद्धिः स्यादिति भावः । समस्यमानपदार्थव्यतिरिक्तस्यान्यपदार्थस्य क्वचिदसत्त्वेऽपि बहुव्रीहेर्दर्शनाम्न तन्मात्रदन्यस्य दुःखादेः सिद्धिरित्याशयेन समाधत्तेअत्रोच्यत इति । अथ यद्यन्यपदार्थे एव बहुव्रीहिरित्यभ्युपगम्यते स्थूलशिरा राहुरित्यादौ शिरोव्यतिरिक्तस्य राहोरभावेऽपि 30 तदतिरिक्तं राहुं प्रकल्प्य तत्र स्थूलशिरस्त्वेन ध्यपदिश्यते तदाप्याह-एवमपीति । ननु स्थूलशिरा राहुरिति कथं बहुव्रीहिः कबभावात्, कथं वा न कर्मधारय इत्यत्राह-कपोऽतंत्रत्वादिति, कपो वैभाषिकत्वादतंत्रता विज्ञेया, स्थूलशिरःशब्दस्यात्र
mmmmmmmmmmmmmmm
सि.क. श्रुते नास्ति प्रसादाद्यात्मा वा ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org