________________
४०२
द्वादशारनयचक्रम्
[विध्युभयारे स्यात् , न तु श्रावणत्वस्य शब्दत्वे प्रत्यक्षीकर्तुं शक्योऽन्वयः शब्दत्वस्याप्रसिद्धत्वादिति, तद्वत् किमिह साधर्म्यमिति चेदुच्यते-बलीयस्त्वश्चास्मद्धेतूनामाद्यहेतुभावना[तः,]भिन्नात्मकतायान्त्वित्यादि प्रक्रम्यानात्मत्वे सत्यवरणाद्यात्मकत्वादित्यादिभिराद्यहेतुभिः प्रत्यक्षागमबलीयस्त्वमापादितम् , तस्मान्न समतेति ।
इतर आह5 मा मंस्थाः त्वदीया हेतवो बलीयांसः, तदबलत्वश्चास्मत्पक्षसाधनाय इतोऽपि विपरिवतयितुं शक्यत्वात्, यथा सुखादन्यदुःखं प्रसादाद्यनात्मकत्वात् पुरुषवत् , मोहश्च दुःखादन्यः तत एव तद्वदिति, अत्रोच्यते किं तन्मात्रादेव विपरिवर्तनम् ? उत त्रैलक्षण्यात् ? त्रैलक्षण्यादिति चेन्न, आदिलक्षणमेव हि नास्तीह यदाधारण शेषद्वयम् ,न ह्यनात्मकत्वं नाम किञ्चिदस्ति, आत्मा न भवति, आत्मैव नास्तीत्यनात्मकमिति द्विधाऽप्यसिद्धं दुःखस्यानात्मकत्वं 10 धर्यसिद्ध्यापत्तेः, न दुःखं नान्यो मोहः पुरुषो वा प्रसादाद्यनात्मकत्वात् खपुष्पवत् स्यादिति।
(मा मंस्था इति) मा मंस्थास्त्वदीया हेतवो बलीयांसोऽवरणाद्यात्मकत्वादय इति, तदबलत्वश्चास्मत्पक्षसाधनाय इतो विपरिवर्त्तयितुं शक्यत्वात्, पूर्वहेतवस्तावदबला यतः शक्यन्तेऽत इतोऽपि-सुतरां पुरुषनिवृत्त्यर्थमनात्मत्वविशेषणाहतेऽपि विपरिवर्तयितुम् , तद्यथा सुखादन्यदुःखं
प्रसादाद्यनात्मकत्वात् पुरुषवत् , असमर्थसमासेनागमकेनापि अर्थ गृहीत्वा वाहीकोक्त्यनुसारेणोक्तम् , 15 मोहश्च दुःखादन्यस्तत एव तद्वदिति, चशब्दादुःखादन्यौ सुखमोही सुखाद्यात्मकत्वात् पुरुषवत् तथैव व्याख्या द्वे साधने समस्योक्ते, मोहादन्ये सुखदुःखे वरणाद्यनात्मकत्वान् पुरुषवदिति तथैवेति, अत्रोच्यते किं तन्मात्रादेव विपरिवर्त्तनं[उत] त्रैलक्षण्यादिति प्रश्नः, प्रतारणार्थ भाववाचिप्रत्ययसहितपञ्चम्य
wwwwwwww
धत्ताए परिणमंति' इत्याद्यागमेन चैकत्वं समर्थितं तेनास्मद्धतवः प्रत्यक्षागमबलीयांस इति भावः । अथ न सन्ति त्वदीया हेतवो बलीयांसः, अस्माभिरपि तेषां दौर्बल्यं संविधातुं शक्यत्वात् , येनास्मत्पक्षसिद्धिर्भवेदित्याशङ्कते-मा मंस्था इति । प्रसाद20 लाघवादयः सत्त्वस्य कार्य ततः प्रसादाद्यात्मकं सत्त्वं कार्यकारणयोरभेदात् दुःखच्च न प्रसादादीनामात्मा, अतः प्रसादाद्यनात्म
कत्वाद्दुःखं सुखादन्यदेव, अन्यथा दुःखादपि प्रसादादिप्रसङ्गात् दृष्टो हि यः प्रसादाद्यनात्मकः स सुखादन्यो यथा पुरुषः, तथा च सुखान्यत्वव्याप्यप्रसादाद्यनात्मकत्वादुःखं सुखादन्यदित्याशयेनानुमानमाह-यथेति । मोहादपि प्रसादानुदयेन सोऽपि न प्रसादाद्यात्मेति तत एव हेतोर्मोहस्यापि सुखभिन्नत्वसिद्धिरित्याह-मोहश्चेति । दुःखं सुखादनन्यदेव, अनात्मत्वे
सत्यवरणाद्यात्मकत्वादित्यादिसुखानन्यत्वसाधनहेतोर्विपक्षभूतपुरुषवृत्तित्वस्य व्यावर्त्तनायात्मत्वे सतीति विशेषणं भवद्भिः कृतम्, 25 तद्विशेषणव्यतिरेकेण भवदुक्तहेतुत एव भवत्पक्षो विपरिवर्त्तयितुं शक्यते, यथा अनात्मत्वे सत्यवरणाद्यात्मकत्वहेतावनात्मत्वविशेषणं परित्यज्य तत एव दुःखस्य सुखादनन्यत्वं भवदिष्टं विपरिवर्तनीयम्, सुखादन्यदुःखं वरणाद्यनात्मकत्वात्, पुरुषवदित्याशयेनाह-पूर्वहेतव इति । इत इति, अनात्मत्वविशेषणविरहिताद्भवदुक्तहेतोरित्यर्थः । प्रसादादिर्न भवत्यात्मा यस्येति प्रसादाद्यनात्मक इत्ययमसमर्थसमासोऽगमकत्वात्तथापि कथञ्चिदर्थ गृहीत्वा प्रसादाद्यनात्मकत्वादिति वादिना प्रयुक्तमित्याह
असमर्थेति । वाहीकोक्त्यनुसारेण वाहीको गोपालः तदुक्तिमेवेयमुक्तिरनुसरति, न तु शब्दखारस्यमियमुक्तिरनुसरतीति भावः । 30 प्रसादाद्यनात्मकत्वादिति यो हेतुरुच्यते स किं हेतोः प्रतिकृतिमात्ररूपः, किंवा त्रैलक्षण्यसमन्वित इति विकल्प्य दूषयितुमाहकिमिति । केवलं पञ्चम्यन्तशब्दप्रयोगव्यनयात् त्रैलक्षण्यशून्यान कस्यचित्सिद्धिरिति भावमाख्याति प्रतारणार्थमिति अकोविदान् छलयितुमित्यर्थः । भाववाचित्वप्रत्ययघटितहेतोः पक्षधर्मत्वमात्रं प्रतिभासते तन्मात्रमेव सादृश्यं सद्धेतुना सहेति
१ सि. क. समंताविति । २ सि. क. त्वात् तद्यथा। ३ सि. क. तर्हि कोपेनुसा।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org