________________
४०१
अतुल्यत्वोक्तिः] न्यायागमानुसारिणीव्याख्यासमेतम् न्यत्वहेतुभिरुभयानिश्चयोऽस्तु मा भून्मयोक्तानामेवैकान्तिकत्वमित्यत्रोच्यते न, उक्तत्वात्-नैष उभयानिश्चयो युज्यते, अस्माभिभिन्नात्मकतायान्वित्यादि प्रक्रम्य सुख दुःखादनन्यत् , अनात्मत्वे सत्यवरणाद्यात्मकत्वात् , दुःखस्वात्मवदित्यादिभिरैकान्तिकैहेतुभिरन्यत्वस्य निषिद्धत्वात् ,अथवा न, उक्तत्वादिति, त्वत्प्रयुक्तानामन्यत्वहेतूनां लघुत्वादीनामुक्तदोषत्वात् , सर्वेऽप्येतेऽप्रसिद्धसाध्यधर्मसमन्वयव्यावृत्तयः अनुमाननिराकृतपक्षा अनवधारणे विपर्ययहेतवः, अवधारणे चापक्षधर्मा एवेति तस्मादनैकान्तिकाः, 5 तेषाश्चकान्तिका अस्मदुक्ता निवर्तका एवेति न तुल्य[त्व]मावयोः।।
इतश्चातुल्य[व]मावयो:
भावितत्वाच्च गुणेषु सदा सन्द्रावस्य, विरुद्धाव्यभिचारिणि च न परस्परनिवारितव्याप्तित्वमात्रात् संशय एव, किं तर्हि ? प्रत्यक्षागमबलीयस्त्वभूतादेव निश्चयोऽन्वेष्यत इति युक्तम् , बलीयस्त्वञ्चास्मद्धेतूनामाद्यहेतुभावनातः।
10 (भावितत्वाचेति) भावितत्वाच गुणेषु संदा सन्द्रावस्य-बहुधा भावितं हि सदा सत्त्वादयो गुणाः सन्द्रुता एव प्रधानमहदहङ्कारादिसर्वावस्थासु, न जातु पृथग्भूतसमवस्थानाश्चेति, किञ्चान्यत् विरुद्धाव्यभिचारिणि च-उक्तविरुद्धाव्यभिचारिण्यपि न परस्परनिवारितव्याप्तित्वमात्रात् संशय एव, किं तर्हि ? प्रत्यक्षागमवलीयस्त्वभूतादेव निश्चयोऽन्वेष्यत इति युक्तम्-तयोविरुद्धाव्यभिचारिणोः पक्षधर्मयोः प्रत्यक्षीकृतार्थेनागमेन बलीयान् प्रत्यक्षसंवादिना प्रत्यक्षेण आगमेन च जनितबलाद्वा प्रत्य- 15 क्षेणैवागमेनैव वा यथाप्रसिद्धं यो बलीयान् तत एव निश्चयोऽन्वेष्यत इत्यादिव्याख्याविकल्पेषु प्रत्यक्षागमेन घटादिषु प्रसिद्धसाध्यानित्यत्वान्वयस्य कृतकत्वहेतोर्बकीयस्त्वात्ततोऽनित्य इति निश्चयः
मोहाद्यमेदः सिद्ध्यति, न तु तेषां मोहादिभेदसाधनेऽनैकान्तिकत्वमिति भावः। मोहादिमेदाव्यभिचारित्वमेव लघ्वादी नास्तीत्याशयेन समाधत्ते-नैष इति । अस्माभिः सत्त्वरजस्तमसां भिनात्मकत्वे भिन्नात्मकतायां त्वित्यादिग्रन्थेन दोषमुपदयोनात्मत्वे सत्यवरणात्मकत्वादित्यादिभिरमेदस्यैव साधितत्वेन न लघुत्वादेर्मोहादिमेदाव्यभिचारित्वम् , सत्त्वादीनां हि पर-20 स्परं भेदे सति लघुत्वादीनां मोहादिभेदाव्यभिचारित्वं स्यात् स एव नास्तीति भावः । उक्तत्वादित्यस्य सत्त्वादीनाममेदस्योकत्वादित्यर्थमभिमत्य तदनुसारेण व्याख्यायेदानी लघुत्वादेर्मोहादिभेदसाधने दोषाणामुक्तत्वादित्यर्थानुसारेण व्याख्याति-अथ वेति। दोषानेव पूर्वोदितान् दर्शयति सर्वेऽप्येत इति व्याख्यात एव पूर्वोऽयं प्रन्थः । अन्यथापि तुल्यत्वाभावमाह-भावितत्वाश्वेति सत्त्वादयः परस्परमनादित एकरूपेणावस्थिता एव, न तु कदाचिदपि तेषां पृथगवस्थानमस्ति, तथात्वे तेषां प्रधानावस्थायां व्यक्तावस्थायां वा सन्द्रावासम्भवेन महदादिकार्य नैव स्यात् . तस्माइन्यत्वादपि नास्ति तेषां मेदो येन तुल्यता भवेदिति 25 भावः । विरुद्धयोरव्यभिचारित्वात् संशयो भवतीत्येतदपि न युक्तं तुल्यबलयोस्तत्तदभावव्याप्ययोरेकत्रैकदाऽसम्भवात् प्रत्यक्षेणागमेन वाऽवश्यमन्यतमस्य बलीयस्त्वादन्यतमनिश्चय एव भवतीति ततोऽपि न तुल्यतेत्याह-किञ्चान्यदिति। प्रत्यक्षागमबलीयस्त्वेयस्य व्याख्याभेदान् दर्शयति-प्रत्यक्षीकृतार्थेति प्रत्यक्षीकृतोऽर्थो यस्यागमस्यासौ प्रत्यक्षागमस्तेन बलीयानित्येको व्याख्यामेदः प्रत्यक्षसंवादिना प्रत्यक्षेणागमेन च जनितं यदलं तेन यो बलीयानित्यन्यः, प्रत्यक्षेणैव यद्वाऽऽगमेनैव यो बलीयानित्यपर इति ! पूर्वोदितदृष्टान्तेऽपि न संशयः घटादावनित्यत्वान्वयस्य कृतकत्वे प्रत्यक्षीकृतत्वेन तस्य बलीयस्त्वम् ,श्रावणत्वे नित्यत्वान्वयस्य 30 शब्दत्वादौ न प्रत्यक्षतः प्रसिद्धता, शब्दत्वादेरेवाप्रसिद्धत्वादित्याह-प्रत्यक्षागमेनेति । अनन्यत्वसाधकहेतूनां बलीयस्त्वमाह बलीयस्त्वञ्चति भिन्नात्मकतायामित्यादिग्रन्थेन मेदे दोषं प्रदर्श्य 'तच्चेव ते पोग्गला परिणमंति ते चेव ते पोग्गला दुब्भिग
१सि.क. "रेकत्व०।२ क. नास्तीदंपदम् । ३ सि.क, सद्भूता एव । ४ सि. क. उक्ता०।५लि.क.स्त्वा भूत एव । ६ सि. क. यत्पक्षी।
द्वा० न० १३ (५१)
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org