________________
४००
www
द्वादशारनयचक्रम्
[विध्युभयारे मोहत्वाल्लोष्टवत् , तथा शरीरेन्द्रियगत आत्मैकदेशस्तदेकदेशभूताभ्यां रजस्तमोभ्यामनन्यः प्रसादकार्यत्वाल्लोष्टवत् एवं लाघवप्रसवादिभ्यः, तथा सत्त्वतमोभ्यामनन्यः शोषत्वाल्लोष्टवत्, एवं तापादिभ्यः, तथा सत्त्वरजोभ्यामनन्यः वरणत्वात् एवं सदनादिभ्य इति । एवं तावद्यथाहेत्वनैकान्तिकस्तं
प्रति, त एवान्यत्वहेतवोऽनन्यत्वहेतव इत्युक्ताः स्वप्रयुक्तलक्षण [भेद] वैलक्षण्यविशेषणपक्षविरचनया 5 लध्वादय एव ।
अथवा मुक्त्वापि तां सत्त्वादिभेदलक्षणाभिमतेभ्य एव त्वदुक्तेभ्यो लघ्वादिहेतुभ्योऽभेदसिद्धिः शक्याऽऽपादयितुं स्फुटेनैव न्यायाध्वना । सुखं मोहादनन्यत् अपुरुषत्वे चलत्वात् मोहस्वात्मवत् , दुःखादनन्यत् , प्रवृत्तिशीलत्वात् दुःखस्वात्मवत् , तथा दुःखादि ।
(अथ वेति) अथ वा मुक्त्वापि तां-लक्षणभेदहेतूनां सुखं मोहाद्गुरोरनन्यल्लघुत्वान्महालोह10 पिण्डार्कतूलवदित्यादीनां विशेषणमन्तरेण भेदो न शक्यः साधयितुमिति तद्रचनाकुसृतिर्यथा त्वया क्रियते तथैव मया कृता, किन्तु तां मुक्त्वापि लक्षणभेदवैलक्षण्यविशेषणपक्षविरचनां सत्त्वादिभेदलक्षणाभिमतेभ्य एव त्वदुक्तेभ्योऽभेदसिद्धिः शक्याऽऽपादयितुं स्फुटेनैव न्यायाध्वना भ्रान्तिजननेन विनेत्यर्थः, तद्यथा-सुखं मोहादनन्यत् , अपुरुषत्वे चलत्वात् , मोहस्वात्मवत् , अपुरुषत्वविशेषणं द्रष्टव्यमधिकारात् , दुःखस्वात्मवदिति तथा दुःखादीत्यादि ।
इतर आहनन्वेवं विरुद्धाव्यभिचारिवदुभयानिश्चयः, न, उक्तत्वात् ।
(नन्वेवमिति) नन्वेवं विरुद्धाव्यभिचारिवदुभयानिश्चयः यथोक्तलक्षणयोयोविरुद्धयोनित्यानित्य[त्व साधकयोरेकत्र सन्निपतितयोहि तयोरेकस्मिन् धर्मिणि शब्दे परस्परनिवारितव्याप्त्योः श्रावण त्व] कृतकत्वयोः शब्दत्वघटादिदृष्टान्तयोरुभयत्र संशयो भवतीति तथेहावाभ्यामुक्तैरन्यत्वान
20 प्रयुक्त यल्लक्षणं मोहादेगुर्वादि ततो मेदस्तं विशेषणीकृत्य गुरोरन्यदिति तेन पक्षविरचनाकृता मयापि तदनुसारेणैव तल्लक्षणमेदस्य
वैलक्षण्यं मोहाद्गुरोरनन्यदित्येवं रूपं तद्विशेषणीकृत्य पक्षविरचनया त एव लध्वादिहेतवो विपर्यसिता इति भावः । तथाविधविरचनां त्यक्त्वापि केवलं सुखं मोहादनन्यदित्यादिपक्षविरचनयापि स्फुटाध्वना प्रोक्तहेतुभ्य एवामेदः साध्यत इत्याहअथ वेति, विशेषणमिति गुरोरित्यादिविशेषणमित्यर्थः, सुखमिति इदश्च सुखस्य मोहस्य च दुःखादनन्यत्वं सिद्धवत्कृत्य,
भन्यथा चलत्वस्य पक्षसपक्षधर्मता न स्यादिति बोध्यम् , यथा सत्प्रतिपक्षस्थले तुल्यबलत्वादुभयोर्हेत्वोर्न साध्यस्य तदभावस्य 25 वा सिद्धिस्तथाऽत्रापि हेतुभिरुभाभ्यामुक्तैनैकस्यापि सिद्धिस्तुल्यबलत्वादित्याशङ्कते-नन्वेवमिति, परस्पर विरुद्धयोर्यावष्यभि
चारिणी हेतू ताभ्यामिवेत्यर्थः, परस्परविरोधिनोः साधकत्वाद्विरुद्धौ यावव्यभिचारिणौ हेतू तद्वदिति वार्थः । दृष्टान्तमेव स्फुटयति-यथेति, नित्यत्वाव्यभिचारि श्रावणत्वम् , अनित्यत्वाव्यभिचारि च कृतकत्वम् तौ हेतू यदैकत्र धर्मिणि प्रयुक्ती यथा शब्दो नित्यः श्रावणत्वात् यच्छ्रावणं तन्नित्यं यथा शब्दत्वम् एवं शब्दोऽनिल्सः कृतकत्वात् यत्कृतकं तदनित्यं यथा घट
इति, तदाऽनित्यत्वव्याप्यकृतकत्वबुद्ध्या नित्यत्वनिश्चयस्य नित्यत्वव्याप्यश्रावणत्वबुद्ध्या चानित्यत्वनिश्चयस्य निवारितत्वेन किं 30 शब्दो नित्योऽनित्यो वेति संशयस्यवोदयेन नान्यतरनिश्चयो भवति, समानबलत्वात् तथा लघुत्वादिभ्यो न मोहादिभेदो न वा
१ सि. क. सत्वतमोभ्या० । २ सि. क. °हेत्वैका० । ३ सि. क. विरचना ४ सि. क. °दित्यादिवि० ५ सि. क. सदादि०। ६ सि. क. रेकत्व०।
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org