________________
अमेदसाधनम्] न्यायागमानुसारिणीव्याख्यासमेतम्
३९९ आदिग्रहणानियमो गृह्यते, प्रवृत्तिनियमावन्तरेण न व्यवस्थापत्तिरस्त्यतो हेतोः नान्तरेण प्रवृत्त्यायेकत्वगति व्यवस्थापत्तेः पूर्वेण तुल्यत्वमिति नास्ति सत्त्वादिपृथत्तवं तवापीति ।
अतो यथाहेत्वनैकान्तिकस्त्वां प्रति यथा सुखं मोहाद्गुरोरनन्यत् लघुत्वात् लोहपिण्डवदर्कतूलवत् शब्दभावव्यवतिष्ठमानसुखादिवद्वा, दुःखात् प्रवृत्तिशीलादनन्यत् , अप्रवृत्तिशीलत्वात् वायुवदाकाशवदित्यादि, स्वप्रयुक्तलक्षणभेदवैलक्षण्यविशेषणपक्षविरचनया लघ्वादय एव विपर्यसनीयाः।
अतो यथाहेत्वनैकान्तिक इत्यादि यावद्विपर्यसनीयाः, एतस्मादेव सत्त्वाद्येकत्वात् यो यो हेतुर्यथाहेतु सुखं मोहाद्दुरोरन्यत् लघुत्वादित्यादि त्वत्प्रयुक्तः स स हेतुर्विशेषेणास्मत्पक्षं साधयन्ननैकान्तिको भवति त्वां प्रति 'यथा कान्तिको भवति तथोच्यते-सुखं [मोहात्] गुरोर[न]न्यत् लघुत्वात् , यद्येल्लघु तत्तद्गुरोर[न]न्यत् , लोहपिण्डवदर्कतूलवत् , यथा प्रागुपवर्णितमापेक्षिकमर्कतूल- 10 गुरुत्वं लोहपिण्डलघुत्वञ्च तहयं सहितं दृष्टान्तः, शब्दभावव्यवतिष्ठमानसुखादिवद्वेति-लौकिकार्थातिक्रमेऽपि त्वन्मतेनैव दृष्टान्तान्तरमिति, तथा दुःखात् प्रवृत्तिशीलादनन्यत् , सुखमिति वर्त्तते, कुतः ? अप्रवृत्तिशीलत्वात् , वायुवदाकाशवदिति, यथा वायुराकाशं वा सुखात्मकं दुःखात् प्रवृत्तिशीलादनन्यत्तथेहापीति, आदिग्रहणात्-दुःखं सुखादनन्यत् अप्रवृत्तिंशीलात् प्रवृत्तिशीलत्वात् यद्युत् प्रवृत्तिशीलं तत्तदप्रवृत्तिशीलादनन्यत्, वाय्वाकाशवत् तथा सुखं दुःखमोहाभ्यामप्रकाशकाभ्यामनन्यत् प्रकाश-15 कत्वात् , घटप्रदीपादिसुखवत् तथा दुःखं मोहादनन्यदचलात् चलत्वात् पर्वतादिदुःखवत्, तथा सुखात् प्रकाशकादनन्यत् अप्रकाशकत्वात् प्रदीपघटादिदुःखवत्, तथा मोहः सुखदुःखाभ्यामगुरुभ्यामनन्यो गुरुत्वात् पृथिव्यम्यादिगुरुत्ववत्, एवश्च सुखत्वाद्दुःखत्वान्मोहत्वात् प्रसादादिकार्यत्वादित्यादयोऽप्यनन्यत्वहेतवः, एवं प्रत्येकमितरगुणस्वरूपानन्यत्वं प्रतिज्ञाय तत्तद्रूपविनिवृत्तिहेतुतो यत्किश्चिद्वस्तूदाहृत्य साध्यम् , सर्वस्य लोष्टादेलघुप्रसवादिपरस्परापृथग्भूतगुणात्मकत्वात् तद्यथा शरीरेन्द्रि- 20 यगत आत्मैकदेशस्तदेकदेशभूताभ्यां रजस्तमोभ्यामनन्यः सुखत्वाल्लोष्टवत्, सत्त्वरजोभ्यामनन्यो असन्द्रुतस्य कथं व्यवस्था, सा हि अनुपगतशब्दादिभावस्य खात्मव्यवस्थितस्य यावच्छब्दाद्यात्मलाभं तदुन्मुखता, इयञ्च प्रवृत्तिनियमात्मतां विना न सम्भवत्येवेति सन्द्रुतत्वमवश्यमभ्युपेयमिति सत्त्वादेः केवलगुणत्वेनावस्थानासम्भवात् सदैकीभावं गतत्वाचन सत्त्वादिमोहादिभिन्नमिति भावः । एवञ्च सत्त्वं मोहाद्गुरोरन्यल्लघुत्वादिति लघुत्वादिहेतवो गुरुमेदाभाववदृत्तित्वादनैकान्तिका इत्याह-अत इति भेदसाधनाय ये ये हेतवः प्रयुज्यन्ते ते सर्व एव हेतवोऽनैकान्तिका इति भावः, सुखमिति 25 सुखं साध्यधर्मी मोहानन्यत्वं साध्यधर्मः, तत्र मोहस्य तल्लक्षणं गुरुत्वं विशेषणं लघुत्वादिति हेतुः, लोहपिण्डवदर्कतूलवदितिदृष्टान्तः, लोहपिण्डे गुरुत्वस्यापेक्षिकत्वाल्लघुत्वमपि वर्तते, अर्कतूले लघुत्वस्यापेक्षिकत्वादुरुत्वमपि वर्तते, तथा च य एव लघुः स एव गुरुः, य एव गुरुः स एव लघुरिति सत्त्वस्य लघोगुर्वभेदः सिद्ध्यतीति लघुत्वं हेतुर्गुरुमेदे साध्येऽनैकान्तिकमिति भावः । यथेति आपेक्षिकलघुगुरुत्वप्रदर्शनायैव समुच्चितस्य दृष्टान्तता, एवञ्चार्कतूलो लघुर्गुरुरपि लोहपिण्डो गुरुर्लघुरपि, लघुगुर्वोने परस्परं भेद इति सर्वलोकप्रसिद्धोऽर्थ इति भावः। तदुपेक्षया तन्मतप्रसिद्धमेव दृष्टान्तमाह-शब्देति, शब्दो हि सत्त्वादि-30 त्र्यात्मकः, अत एव लघुर्गुरुरपि, एवञ्च शब्दात्मसुख मोहात्मकाद्गुरोरनन्यदेव, मोहस्यापि शब्दात्मकत्वादिति भावः। एवं पूर्वोक्तान हेतूनखिलान् विपर्यासयति-तथा दुःखादिति, स्पष्टं सर्वमन्यत् । स्वप्रयुक्तेति सुखं मोहाद्गुरोरन्यदिति सांख्येन
१ सि. क. हेत्वैकान्तिकेत्वा०। २ सि. क. सत्त्वादेक०। ३ सि. क. यका०। ४ सि. क. यथैका । ५ सि.क. यद्यलघुत्वात्। ६ सि. क. शीलाद०। ७सि.क. यदप्रवृ०। ८ सि. क. °लघु प्रकाशे नरादि। ९सि. क, °देशस्तदेकस्तदेक०।
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org