________________
३९८
5
द्वादशारनयचक्रम्
आचार्य आह
आ अद्यापि प्रतिपादनमेव वर्त्ततेऽन्यत्वं गुणानाम्, गुणसन्द्रावद्रव्यत्वे तवाप्येतद्द्रव्यमेव न गुणाः पृथक् सन्द्रुतानामेवावस्थानात् कुतः स्यात् सन्द्रावः ? तत्रापि च प्रतिज्ञायते सत्वादयो गुणाः तत्सन्दुतिलक्षणं द्रव्यमेव शब्दादिभावेन व्यवस्थानात् शब्दादिस्वात्मवदिति । आ अद्यापीत्यादि यावच्छब्दादिस्वात्मवदिति, नन्वेतत् प्रतिपादनमेव वर्त्ततेऽन्यत्वं गुणानाम्, तस्मादेकात्मकैककारणम्, यदि भवता गुणसन्द्रावो द्रव्यमिष्यते ततस्तवाप्येतद्द्रव्यमेव, न गुणाः पृथक् सैन्दुतानामेवावस्थानात् कुतः स्यात् सन्द्राव : ? न प्रधानावस्थायां नापि व्यक्तावस्थायामसन्द्रावो यतोऽस्यासन्द्रावादद्रव्यत्वं स्यात्, तस्माद्द्रव्यमेव न पृथग् लध्वादयो गुणा इति, तत्रापि प्रतिज्ञायते - सत्वादयो गुणा लघुत्वादिलक्षणाः तत्सन्दु तिलक्षणं द्रव्यमेव, शब्दादिभावेन व्यवस्थानात्, 10 यो यः शब्दादिभावेन व्यवतिष्ठते स सोऽर्थो लध्वादिलक्षणगुणसन्दुतिद्रव्यमेव, शब्दादिखात्मवत्, यथा शब्दादिखात्मा सत्त्वादिगुणसन्दुतिलक्षणं द्रव्यमेव शब्दादिभावेन व्यवस्थानात् तथा लघुगुरुत्वादिलक्षणाः सत्त्वादय इति ।
www
अनापन्नतद्रूपसत्त्वस्यासत्त्वस्यासन्द्रुतस्य स्वेनैव रूपेण स्थितस्य प्रागारम्भादारभमाणस्य शब्दादिभावापत्तिकालः व्यवस्थाशब्देनोच्यते इति चेन्न, पूर्वतुल्यत्वात्, नान्तरेण प्रवृत्त्या15 द्येकत्वगतिं व्यवस्थापत्तेः ।
अनापन्नतद्रूपेत्यादि यावदुच्यत इति चेदिति, शब्दादिरूपमनापन्नस्य सत्त्वस्यासत्त्वस्यासन्द्रुतस्य गुणान्तरासङ्गतस्य तदनात्मकस्य स्वेनैव रूपेण स्थितस्य प्रागारम्भादारभमाणस्य च यः शब्दादिभावापत्तिकालो यावदनिष्पन्नशब्दादित्वकाल इत्यर्थः, सा ह्यवस्था सत्त्वं शब्दकार्यं प्रख्याय शब्दात्मना व्यवतिष्ठमानमिति व्यवस्थान शब्देनोच्यते, अन्यथावस्थितमेव शब्दादिभावेन स्वासत्त्वमिति, 20 एतच्च न, पूर्व तुल्यत्वात्, यथा प्रागुक्तं लध्वादिलक्षणसत्त्वाद्यैक्यापत्तिर्द्रव्यम्, तन्न कदाचित् सत्त्वादिप्रधानावस्थायाम्, यदि व्यक्तावस्थायामित्यत आह-नान्तरेण प्रवृत्त्याद्येकत्वगतिं व्यवस्थापत्तेरिति,
wwwwwwww
www.www.w
Jain Education International 2010_04
[ विध्युभयारे
कृतैवैति तेषामेकात्मकत्वादेकात्म कैक कारणत्वमेव जगतः सत्त्वरजस्तमसां कदापि वियोगाभावात् त्रित्वासिद्धेरित्युत्तरयति - आ अद्यापीति, सत्त्वादीनां द्रव्यत्वमेव न गुणत्वम्, पृथगनवस्थानात्, सन्दुतानामेवावस्थानाचेत्याह-यदि भवतेति, पृथगवस्थानाङ्गीकारे तेषां कदाचिदपि सन्द्राव एव न भवेदित्याह - कुत इति, प्रधानावस्थायां व्यक्तावस्थायां वा सन्द्रावा25 सम्भवात्तेषां द्रव्यत्वं न स्यात्, इष्टश्च द्रव्यत्वं तस्मात् सदा सन्ता एवेति तेषां पृथगवस्थानाभावाद्गुणत्वानौचित्याद्भेदसाधनमसङ्गतमिति तेषां द्रव्यत्वमेव सेत्स्यतीति भावः । उक्तमेवानुमानेन साधयति तत्रापीति, शब्दादिभावेन व्यवस्थानादित्यत्र व्यवस्थानशब्दार्थमाह-अनापन्नेति यावच्छब्दोत्पत्तिकालं शब्दादिभावानापन्नं गुणान्तरासङ्गतं स्वस्वरूपावस्थितं सत्त्वाद्येव शब्दात्मना व्यवतिष्ठमानमित्युच्यते तदानीश्च द्रव्यत्वं बाधितमिति नोक्तहेतोर्गुणानां द्रव्यत्वं सिद्ध्यतीति शङ्कितुरभिप्रायः । सत्त्वस्यासत्त्वं कथमित्यत्राह - अन्यथेति । एवं तेषामसन्द्रावेऽङ्गीक्रियमाणे सन्द्रावः कदाचिदपि न स्यात् तथा चाद्रव्यत्वमेव 30 तेषां प्राप्तमित्युक्तमेवेत्युत्तरयति - पूर्वतुल्यत्वादिति । ननु व्यक्तावस्थायां तेषां सन्द्रावो भविष्यतीत्यत्राह - नान्तरेणेति
१ सि. क. 'नन्यत्वं । २ सि. क. 'देकैकका० । ३ सि. क. सम्भूतानामे ० । ४क. लक्षणात्संतुति० । ५. क. गुणसंभवति । ६ सि. क. 'स्वात्मनः ।
For Private & Personal Use Only
www.jainelibrary.org