________________
३९७
असिद्धत्वाभावाशङ्का] न्यायागमानुसारिणीव्याख्यासमेतम्
एवमापेक्षिकेत्यादि यावदनवस्थिततत्त्वे अल्पावधिकलोहपिण्डकः पलमात्रप्रमाणोऽर्कतूलभाराल्लघीयान् 'पलशतिका तुला, विंशतिस्तुला भार इति'परिभाषितत्वात् , अयःपिण्डो गुरुरपि लघुरर्कतूलो लघुरपि गुरुद्देष्ट इत्यनवस्थितगुरुत्वलघुत्वतत्त्वे गुरुलघुत्वे आपेक्षिकत्वादस्मान् प्रति न गुरुत्वलघुत्वे परस्परतोऽन्ये' ततो नायःपिण्डार्कतूलदृष्टान्तोऽस्ति ।
इतर आह
अथ ममाऽत्र किम् ? यत्तु भवनश्च प्रसिद्धम् यदपि च भवसिद्धान्तेनोक्तम्-द्रव्यश्चैतदेवं लघुगुरुत्वापेक्षया तदेव दृष्टमिति, तन्नोपपद्यते, गुरुलघ्वादयो हि गुणाः सत्त्वरजस्तमांसि च, द्रव्यता तेषां सन्द्रावे एकत्वापत्तौ भवति, ते च गुणाः परस्परतोऽन्य इति ।
अथ ममाऽत्र किमित्यादि यावदेकत्वापत्तौ भवतीति, यदि युष्मसिद्धान्तेनानवस्थिततत्त्वे लघुगुरुत्वे युज्यते ततो युक्तमस्मान् प्रत्यसिद्धं लघुरेवेति, ततो ममात्र किम् ? यत्पुनरेतदुक्तं 10 भवनश्च प्रसिद्धमिति तदयुक्तमुक्तम् , यदपि च भवसिद्धान्तेनोक्तं यस्माद्रव्यश्चैतदेवं लघुगुरुत्वापेक्षया तदेव दृष्टमिति, तदपि नोपपद्यते गुरुलध्वादयो गुणाः सत्त्वरजस्तमांसि च,-लघ्वादिप्रकाशात्मका गुणास्त्विमे तल्लक्षणा मयोच्यन्ते, तेषां-गुणानां सन्द्रावे-सङ्गमे तदर्थगतेरेकत्वापत्ताविति तत्त्वेतस्मिन् गुणैकगमने द्रव्यता भवति 'गुणसन्द्रावो द्रव्यम्' (पातं० महा. अ५ पा० १ सू० ११९) इति लक्षणात् , ते च गुणाः परस्परतोऽन्ये, तस्मान्नासिद्धमित्यभिप्रायः।। निश्चयः ॥ इति पलशतस्य तुलात्वेन तुलाविंशते रत्वेनोक्तत्वात् , तुला पलापेक्षया गुळपि भारापेक्षया लघ्वीति नावस्थिततत्त्वे लघुगुरुत्वे इति दर्शयति-अल्पेति. भवत्सिद्धान्ते लघुत्वगुरुत्वयोरप्रसिद्धत्वं स्यान्नाम किं नश्छिन्नमित्याशङ्कते-अथेति । अनवस्थिततत्त्व इति, गुरुत्वलघुत्वयोस्तत्त्वमनवस्थितम् , इदं लघ्वेवेदं गुर्वेवेति नास्ति स्वरूपेऽवस्थानं तयोः, आपेक्षिकत्वात् , अपेक्षया लघोरपि गुरुत्वाद्गुरोरपि लघुत्वात् , तथाविधयोरेव तयोः प्रमाणसिद्धत्वात् , तस्माल्लघुरेवेति हेतुरस्मान् प्रत्यसिद्ध इत्यभिधानं भवतां युक्तं भवतु, अवस्थिततत्त्वयोस्तयोरभ्युपगन्तुर्ममात्र किमिति भावः । ननु भवद्भिः सत्त्वादीनां 20 द्रव्यं च भव्य इति प्रकाशात्मसत्त्वेन प्रवृत्त्यात्मसत्त्वं प्रकाश्यत इत्येवं भवनं मृदात्मघटेन घटः क्रियत इत्यादाविव प्रतिपादितं,
नलक्षणद्रव्यत्वादेव च तदेव गुरुलघुत्वमापेक्षिकमनुभवतीत्युक्तं तदपि नास्माकमभिमतमित्याशङ्कते-यत्पुनरेतद्कमिति, भवनात्मकत्वादेव सत्त्वादेव्यत्वमुक्तप्रायम् , शब्दादिभावेन भवनस्य प्रसिद्धत्वादिति भावः। तस्य द्रव्यत्वादेवापेक्षिकं लघुगुरुत्वमिति व्यवहारस्तु युज्यत इति भवत्सिद्धान्तेनोक्तं तदपि न युक्तमिति दर्शयति-यदपि चेति । कथमयुक्तमित्यत्राह-गुरुलध्वादय इति, सत्त्वरजस्तमसामनादित्वेन 'गुणास्तु न प्रत्यस्तमयन्ते नोपजायन्त' इत्येवमुत्पत्तेनिषिद्धत्वा- 25 नास्माकं तेषां भवनं प्रसिद्धम् , परिणमनन्तु न निषेधामः, तस्मान्न भवनलक्षणं द्रव्यत्वं सत्त्वादेः, न वा गुणवत्त्वरूपं द्रव्यत्वम्, तेषां लघुगुरुत्वादिधर्मवत्त्वेऽपि पुरुषोपकरणत्वात् पुरुषपशुबन्धकत्रिगुणात्मकमहदादिरजुनिर्मातृत्वाच्च गुणत्वमेव, प्रकाशादीनामेव तेषां लक्षणत्वात् , द्रव्यञ्च सन्द्रावरूपं गुणानाम् , पार्थक्येन स्थितानां गुणानामेकीभावगमनं हि गुणानां सन्द्रावस्तदेव च द्रव्यत्वम् , तस्मात् सत्त्वादयो गुणाः परस्परतोऽन्ये लक्षणभेदादिति भावः । पातजलं द्रव्यलक्षणं दर्शयति-गुणेति सन्द्रूयते सङ्गम्यते, समित्येकीभावे, एकीभावो गम्यते इति सन्द्रावः, गुणानां सन्द्रावो गुणसन्द्रावः, 'यस्य गुणान्तरेष्वपि प्रादु- 30 भवत्सु तत्त्वं न विहन्यते तद्व्यं यथाऽऽमलकादीनां फलानां रक्कादयः पीतादयश्च गुणाः प्रादुर्भवन्ति, आमलकं बदरमित्येव भवति, अन्वर्थ खल्वपि निर्वचनं गुणसन्द्रावो द्रव्य मिति' महाभाष्ये दृश्यते । अथाऽऽचार्यः सत्त्वादीनां द्रव्यत्वमेव न गुणत्वम् , तेषां सदैकीभावेनावस्थानात् सत्त्वरजस्तमसां हि परस्परं संयोगस्य 'अन्योन्यमिथुनवृत्तय' इत्यनादिता भवद्भिरङ्गी
15
१ सि. क. तैकत्वे । २ सि.क. तोऽनन्ये । ३ सि.क. नोक्तं तदपि नोपपद्यते यः। ४ सि.क. तदर्थव्यतिरे।
___Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org