________________
द्वादशारनयचक्रम्
[विध्युभयारे अस्ति तु संयोगः प्रतिबन्धी पतनस्य, फलस्येव वृन्तमतो विशेषयामः संयोगभावेऽपि पतनप्रतिबन्ध्यविषयगुरुत्वादिति, प्रतिबन्धिना यद्विषां न भवति गुरु तत्पतेदेव, स चास्य नास्ति प्रतिबन्धी त्वयैकान्तगुरुत्वाभ्युपगमात् स तु प्रतिबन्धानिवार्यस्यूतोपलवत्-एकेन तन्तुना प्रतिबन्धिना सत्यपि संयोगभावे तदविषह्यगुरुत्वात् पतत्येव यथोपलस्तथैतत् पतेदेव सुखं लघुत्वशून्यगुरुत्वादिति । योगिनोऽपि । चेत्यादि, योऽपि चास्ति योगी प्रतिबन्धकः तस्यापि च योगिनः प्रतिबन्धिनो गुरुत्वात् तत्पतनोपचय
हेतुत्वात् सुतरां पतनमेव स्यात् , पतेदेव तेनापि सह शिलाबद्धशिलावदिति पातहेतुत्वं दृढयति, एवं तावदत्यन्तगुरुत्वे पतनमेव प्रसक्तम् ।
अथवा मा भूदेष दोष इत्यत्यन्तलघुत्वमिष्यते ततः
अत्यन्तलघुतायां न कदाचिदपि पतनं स्यात् तस्योत्पत्तिकारणाभावात् खपुष्पवत् , 10 दृष्टविरुद्धमुच्यते गुरुलघुत्वदर्शनात् , अर्कतूलो लघुर्गुरुर्लोहपिण्ड इति, न, कन्यानुदरवत्तु व्यवहारोऽयमपेक्षाकृतो बादरस्कन्धविषय इति ।
(अत्यन्तेति) अत्यन्तलघुतायां न कदाचिदपि पतनं स्यात्-माताख्यो भाव एव न स्यात् , तस्योत्पत्तिकारणाभावात्-तच्च कारणं गुरुत्वं पतनस्य तदभावात् खपुष्पवत्, स्यान्मतं दृष्टविरुद्धमुच्यते गुरुलघुत्वदर्शनात् अर्कतूलो लघुर्गुरुर्लाह पिण्ड इति दृष्टत्वादिति, एष दोषो न, यस्मात् व्यव15 हारतस्तु युज्यत इत्युक्तत्वादित्यत आह-कन्यानुदरवत्तु व्यवहारोऽयमपेक्षाकृतो बादरस्कन्धविषय इति,
यथाऽनुदरा कन्येत्यन्यासामुदरवतीनामुदरेण सदृशमुदरमस्या नास्तीत्युदरवत्येवानुदरेत्युच्यते व्यवहारतः तथा बादरस्कन्धेषु लघुगुरुत्वे ।
यदपि च लोहपिण्डार्कतूलोदाहरणं तदपि तत्तुला[भारा]पेक्षिकलघुगुरुत्वे एव साधयतीत्यत आह___ एवमापेक्षिकलघुगुरुत्वे अनवस्थिततत्त्वे अस्मान् प्रति न परस्परतोऽन्ये इति नायःपि20 ण्डार्कतूलदृष्टान्तोऽस्ति । लोष्टादि पतेदेव गुरुत्वादित्यनुमितेः फलादौ व्यभिचारे शङ्किते हेतुं विशेषयति-अतो विशेषयाम इति । एकान्तेन गुरुत्वाभ्युपगमात् प्रतिबन्धकस्य प्रतिरोधाशक्तेः प्रतिबन्धानिवार्यतन्तुवेष्टितोपलवल्लोष्ठादिः पतेदेवेत्याह-प्रतिबन्धिनेति, एतदेव स्फुटयति-एकेनेति । अत्यन्तगुरुत्वादित्यस्यार्थमाह-लघुत्वेति । शक्तिमत्प्रतिबन्धकस्यापि च गुरुत्वाच्छिलया बद्धा
यथा शिला पतत्येव, उभयोर्गुरुत्वात् तथा प्रतिबन्धयुतमपि सुखादि सुतरां पतेदेवेत्याह-योगिनोऽपीति प्रतिबध्यसम्बन्धिनोऽपि 26 प्रतिबन्धकस्येत्यर्थः । तेनापि सह-प्रतिबन्धकेनापि सहेत्यर्थः । अत्यन्तगुरुतामपहायात्यन्तलघुत्वाभ्युपगमे तु लोष्टादीनां कदाचिदपि पतनं न स्यात्, तत्कारणस्य गुरुत्वस्याभावात् , यस्य कारणं नास्ति नास्त्येव तत्, यथा खपुष्पादीत्याह-- अत्यन्तलघुतायामिति । नन्वेवं गुरुत्वलघुत्वाभावप्रतिपादनं प्रत्यक्षविरुद्धम् , दृश्यते हि लघुत्वमर्कतूलादेः लोहपिण्डादेश्च गुरुत्वमित्याशङ्कते-स्यान्मतमिति, परमार्थनयत एवास्माभिः तदभावः प्रतिपादितः नतु व्यवहारनयेन, तन्नयेन चापेक्षिक
लघुत्वगुरुत्वाभ्युपगमात् न दृष्ट विरोध इत्याह-एष दोषो नेति । अर्कतूललोहपिण्डादीनां लघुगुरुत्वव्यवहारो नैकान्तेन 30 लघुत्वगुरुत्वसद्भावप्रयुक्तः, अपि त्वापेक्षिकलघुगुरुत्वप्रयुक्तः, उदरवत्यप्यनुदरा कन्येति व्यवहारवदित्याह-कन्येति,
तत्र हेतुमाह-बादरेति, व्यवहारस्य स्थूलद्रव्यविषयत्वेन गुरुत्वसद्भावावश्यंभावेन तत्र लघुत्वव्यवहारस्यापेक्षाव्यतिरेकेणानुपपत्तेरिति भावः, व्यवहारविषयलघुत्वगुरुत्वयोस्तत्त्वमनवस्थितमेव, तस्मात् लोहपिण्डो गुरुरेव, अर्कतूलो लघुरेवेति भवदुक्तोदाहरणमस्मान् प्रत्यसिद्धमेवेत्याह-एवमिति । 'पलानां द्विसहस्रञ्च भार एकः प्रकीर्तितः । तुलापलशतं ज्ञेयं सर्वत्र वैष ..सि. क. ननु । २ सि. क. पीतो० । ३ सि. क. चास्त्ययोगी। ४ सि. क. हारतोऽनुयु० । ५ सि. क. तत्तुल्या० ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org