________________
गुरुलघुविचारः] न्यायागमानुसारिणीव्याख्यासमेतम्
३९५ __ अनवधारितेत्यादि यावदतथा तेनैव, लघुत्वादित्यादयो हेतवः किमवधारितार्थाः ? उतानवधारितार्थाः ? इति सम्प्रधार्यमेतत् , लध्वेव सुखं न गुरु न चलं वा तथाऽन्येषामपि चलत्वादीनाम् , चलमेव गुर्वेव प्रवृत्तिशीलमेवेति, तत्रानवधारितलध्वादिधर्मतायां सत्यामितरात्मकमपीति-लघुचलगुर्वादित्र्यात्मकमपीति लघुचलगुर्वादित्र्यात्मकतयैव पक्षधर्मता स्यादेषां तथा सतीत्यतथा तेनैव-अनन्यतैवेत्यर्थः, इतिशब्दस्य हेत्वर्थत्वात् यात्मकैकत्वादित्यर्थः, असजातीयेत्यादि यावदस्मान् प्रति । तोवदसिद्धम् , अथावधारितार्था एते लध्वादिहेतवो गुर्वाद्यसजातीयलक्षणव्यावृत्तार्थविषयाः ततस्तेषामसजातीयलक्षणव्यावृत्तार्थविषयतया विशेषहेतोः पक्षधर्मतैव भक्तः, तत्रास्मान् प्रति तावदपक्षधर्मत्वम् , तद्यथा 'णिच्छयओ सव्वलहुं'ति गाथा, निःकृष्यावधार्य चयतो-ज्ञानतः परमार्थनयतो वा सर्वथा लघु सर्व वा लघु न विद्यते तथा सर्वगुरुद्रव्यम् , परमाणुद्विप्रदेशाद्यसंख्येयान्तानां केषाश्चिदनन्तप्रदेशानाश्च स्कन्धानां शेषद्रव्याणाश्चागुरुलघुत्वात् ततः परमनन्तानेन्तप्रदेशानां बाद- 10 राणामापेक्षिकलघुगुरुपरिणामित्वात् , व्यवहारनयेन तु युज्यते लघुत्वं गुरुत्वञ्चान्योन्यस्मात् लघुर्गुरुवेति वातं रातीति वातरा बदरप्रमाणबादरा वा स्कन्धाः स्थूला इत्यर्थः, ण इतरेसु-नेतरेषु प्रागुक्तपरमाण्वादिषु सूक्ष्मेष्वगुरुलघुत्वमेवेत्यर्थः ।
अत्यन्तगुरुतायामेतदेव पतेत् संयोगभावेऽप्यविषयगुरुत्वात् प्रतिबन्धानिवार्यस्यूतोपलवत् , योगिनोऽपि च गुरुत्वात् सुतरां पतनमेव स्यात् शिलाबद्धशिलावत् ।
अत्यन्तगुरुतायामित्यादि, निरपेक्षैकान्तगुरुतायामेतदेव पतेत्-पतनक्रियमेव स्यात् न तिष्ठेन्नोवं वा गच्छेत् , गुरुत्वात् दृष्टान्तो वक्ष्यमाणः, स्यान्मतं पतेदेव यदि प्रतिबन्धी न स्यात्,
लघुत्वाद्याश्रयस्य वस्तुनो गुरुत्वचलत्वादिधर्मवत्त्वाप्रतिषेधेन लघुगुरुचलाद्यात्मकरवाल्लघुत्वादिहेतवो लघुगुरुचलाद्यात्मन एव धर्मा भवेयुः, तथा च सति सुखं न रजस्तमोभ्यामन्यत् , ज्यात्मकैकत्वादिति भावः । इति शब्दस्येति । स्यादितीत्यत्रस्थेति शब्दस्येत्यर्थः, तथा च सर्वस्य त्र्यात्मकैकत्वेन तद्व्यतिरिक्तस्य कस्यचिदभावात् सर्वे हेतवः पक्षमात्रवृत्तय इति तेषां साध्यधर्मेण 20 सह समन्वयो व्यतिरेकश्चाप्रसिद्ध एव, सपक्षविपक्षयोरभावादिति भावः । अथावधारणपक्षे दोषमाह-असजातीयेत्यादीति, एकान्तेन लघुत्वादियुक्तौ गुरुत्वादिविजातीयेभ्यो व्यावृत्त एवैकान्तलघुभूते लघुत्वादेर्वृत्तित्वेन केवलं पक्षधर्मतैव स्यात् सुखात्मकवस्तुव्यतिरिक्तस्यैकान्तलघुत्वाभावादिति भवन्मतमनुसृत्योक्तमिति भावः। अस्मन्मतेन चैकान्तलघुभूतवस्त्वप्रसिद्धरसिद्धा एव लघुत्वादिहेतव इत्याह-तत्रास्मानिति. अत्रार्थे गाथा प्रमाणयति-तद्यथेति. निच्छयओ सव्वगुरुं सव्वल विजए दव्वं । ववहारओ उ जुज्जइ वायरखंधेसु नण्णेसु (बृहत्कल्पभा० गा० ६५) इति गाथा दृश्यते, सूक्ष्माणां पुद्गलस्कन्धानां 25 शेषद्रव्याणां धर्माधर्माद्यरूपिणां निश्चयनयेनागुरुलघुत्वात् बादरस्कन्धानाचापेक्षिकलघुगुरुत्वात् न किञ्चित् सर्वथा लघु गुरु वा, न वा सर्वे वस्तु गुरुलघु वा विद्यते, व्यवहारनयेन तु बादरस्कन्धेष्वेव सापेक्ष लधुत्वं गुरुत्वञ्चास्ति न सूक्ष्मेष्वरूपिषु चेति तदर्थः । एवञ्चोभयन येनापि न किञ्चिल्धुरेव गुरुरेव वेति सावधारणा लघुत्वादिहेतवोऽसिद्धा एवेति भावः। एकान्तेन गुरुत्वाङ्गीकारे च दोषमादर्शयति-अत्यन्तेति । एवकारो भिन्नक्रम इत्याशयेनाह-पतनक्रियमेवेति । ननु कारणसद्भावमात्रेणावश्यं कार्येण भवितव्यमेवेति नास्ति नियमः कारणसत्त्वेऽपि प्रतिबन्धकसम्बन्धेन कार्योदयादर्शनादित्याशङ्कते स्यान्मतमिति लोष्ठादीनां 30 गुरुत्वेऽपि पतनप्रतिबन्धकभूम्यादिसंयोगस्य सत्त्वेन न पातः, यथा फलस्य वृन्तम्, वृन्तं प्रसवबन्धननामा संयोगविशेषः ।
१ सि. क. तत्त्वान। २ सि.क. भवंतमिति । ३ सि.क. विषयतायाविशेषतायावि०। ४ सि. क. मूलतः। ५क्ष, मनन्तप्रदेशानां । ६ सि. क. अन्त्यतः ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org