________________
wwwnwwammam
३९४ द्वादशारनयचक्रम्
[विध्युभयारे त्वहेतवोऽप्रसिद्धसाध्यधर्मसमन्वयव्यावृत्तयः, एते हेतवोऽसिद्धा एवावधारण इति वक्ष्यति, सिद्धत्वेऽप्यप्रसिद्धसाध्यधर्मसमन्वयाः, पृथग्भूतसुखाद्यात्मकसत्त्वादिलघ्वादितूललोष्टादिवस्त्वभावात् सर्वस्य त्रैगुण्याव्यतिरेकाच्च, न चैषां विपक्षाढ्यावृत्तिरस्ति तूललोष्टादेरेव विपक्षत्वेन व्यवस्थानात्, विविक्तैकसुखाद्यात्मकाद्धि वस्तुनोऽन्यद्विविक्तदुःखाद्यात्मकं स्यात् , सपक्षस्तु नास्ति, सर्वस्य त्रिगुणै5 कत्वात्मकत्वात् , न पुरुषोऽसत्त्वात् , तस्यापि सुखादन्यत्वादिति, ततश्च तूललोष्टादेरपि विपक्षत्वात्ततश्च लघुत्वादिहेतूनामप्ययावृत्तेरप्रसिद्धसाध्यधर्म[समन्वयव्यावृत्तयस्ते हेतव इति विरुद्धत्वं हेतुदोषः, साध्यसाधनोभयानन्वयो धर्म्यसिद्धिश्च साधर्म्यदृष्टान्ते, साध्याव्यावृत्त्यादिदोषश्च वैधर्म्यदृष्टान्त इति दर्शयति । किश्चान्यत्- स्वत एवानुमाननिराकृतस्य पक्षीकरणार्थाश्चैते हेतव इति वर्तते, अस्ति प्रधानं
भेदानामन्वयदर्शनादिति प्रक्रम्य सुखदुःखमोहान्विता आध्यात्मिका बाह्याः शब्दादयः कार्यात्मकाः, 10 त्रयाणामेककार्यभावात् तदारब्धाश्चाकाशवाय्वनलाम्भोभूमयो भूताख्यास्तैर्यग्योनमानुषदैवानि शरीरा
णीन्द्रियाणि च तन्मयानि त्रयाणामेककार्यभावात् सुखाद्यन्वितान्येव चन्दनशकलादिवदित्येवमाद्यनुमानसिद्धं त्रैगुण्यं 'अन्यत् सुखं दुःखमोहाभ्यां लघ्वेव चेत्येवमादिपक्षं निराकरोति, तस्य स्वपक्षस्यानुमाननिराकृतस्यान्याविदितस्यासर्वलोकप्रत्यक्षस्य सतः पंक्षीकरणार्था एते हेतवः संवृत्ता इतीत्थमनुमानविरुद्धप्रतिज्ञादोषोद्भावनवक्रोक्तिरेषा ।
किश्चान्यत्
अनवधारितलघ्वादिधर्मतायामितरात्मकमपीति लघुचलगुर्वाद्यात्मकतयैव पक्षधर्मता स्यादित्यतथा तेनैव, असजातीयलक्षणव्यावृत्तार्थविषयतया अस्मान् प्रति तावदसिद्धं लघुरेवेति । तद्यथा 'णिच्छयओ सबलहुँ'ति गाथा ।
मग्रन्थेनासिद्धर्वक्ष्यमाणतयाऽत्र सिद्धवत्कृत्यान्वयव्यतिरेकयोरप्रसिद्धत्वमुच्यत इत्याह-एते हेतष इति । तत्रान्वयाप्रसिद्धिं 20 प्रथममाह-प्रथग्भतेति तूललोष्टादेः परस्परं भेदाभावाद्यत्र यत्र लघुत्वादिकमस्ति तत्र तत्र मोहगुरुभेदइति नान्वयग्रहः
गुरुभूतलोष्टाभिन्नत्वात्तूलस्य, तथा तूलस्य सुखाभिन्नत्वेन दृष्टान्तत्वासंभवश्च, पक्षभिन्नस्य दृष्टान्तत्वात् , ननु तूलादेः सुखाद्यात्मकत्वं कथमित्यत्राह-सर्वस्येति । अथाप्रसिद्धसाध्यधर्मव्यावृत्तिमाह-न चैषामिति । यो दृष्टान्तत्वेनोपन्यस्तस्तूललोष्ठादिः स न दृष्टान्तो भवेत् सुखाद्यात्मकवस्तुनो भिन्नस्य दुःखाद्यात्मकत्वनैयत्याद्रजआद्यात्मकत्वेन तत्र साध्यधर्माद्यसम्भवादित्याहविविकैकेति । तत्रैव पोषकं हेतुमाह-सर्वस्येति । पुरुषोऽपि त्वदभ्युपगतो नास्त्येव सत्त्वेऽपि न सुखस्वरूप इति न तस्य 26 दृष्टान्तत्वमित्याह-न पुरुष इति । तथा च तूललोष्टादेः सुखाद्यनात्मकत्वे रजआद्यात्मकत्वेन साध्याभाववत्तया विपक्षत्वा
तत्र च लघुत्वादिहेतूनां सत्त्वेन न विपक्षव्यावृत्ततेत्साह-ततश्चेति । एवञ्च विपक्ष एव लघुत्वादीनां सत्त्वाद्विरुद्धत्वमित्याहविरुद्धत्वमिति । साध्येति अर्कतूलादिसाधर्म्यदृष्टान्ते एकान्तलघुत्वादेगुरोरन्यत्वस्य चासत्त्वम्, तत्र गुरुलघुत्वस्यैव व्यवहारनयेनाभ्युपगमात्, त्वन्मतेन च च्यात्मकैकस्मादन्यस्याप्रसिद्ध्या पक्षव्यतिरिक्तस्य दृष्टान्तधर्मिणोऽसिद्धिश्वेत्यर्थः ।
लोष्टादिवैधर्म्यदृष्टान्ते व्यतिरेकानन्वयमाह-साध्येति । त्वदीया हेतवोऽनुमाननिराकृतपक्षा इत्याह-खत एवेति सर्वस्य 30 सुखादित्रैगुण्यात्मकत्वमनुमानैर्भवद्भिरेव साधितम् , तेन चानुमानेन सुख दुःखमोहाभ्यामन्यदित्यादिपक्षो निराक्रियत इति
भावः। ननु सुख मोहाद्गुरोरन्यदित्यत्र किमेकान्तेन लघुत्वादित्यवधारणरूपे हेतुरुच्यते, उत लघुत्वादित्यनवधारणात्मेति विकल्पमारचय्य दूषयति-अनवधारितेति । अनवधारणपक्षे दोषं प्रदर्शयति-तत्रति, अनवधारितस्य लघुत्वादेर्हेतुत्वे
सि. क. विविक्तव । २ सि. क. विपक्षतस्तु । ३ सि.क. प्यावृत्ते । सि.क."नुमते निराकृतश्च प्रत्यक्षी। ५ सि. क. तदायानि । ६ सि. क. प्रत्यक्षी० ।
15
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org