________________
अन्यत्वहेतुदोषाः] न्यायागमानुसारिणीव्याख्यासमेतम्
३९३ चलादन्यत् चलत्वात् पर्वतादिव वायुः, सुखादप्रवृत्तिशीलादन्यत् , प्रवृत्तिशीलत्वात् , आकाशादिव वायुः, मोहः सुखदुःखाभ्यामगुरुभ्यामन्यो गुरुत्वात् , अर्कतूलादिव लोहपिण्डः। दुःखं सुखात् प्रकाशकादन्यत् , अप्रकाशकत्वात् , प्रदीपादिव घटः, अतश्च सुखत्वादुःखत्वान्मोहस्वादित्यादयोऽप्यन्यत्वहेतवः स्युः, शरीरेन्द्रियगत आत्मैकदेशस्तदेकदेशभूताभ्यां रजस्तमोभ्यामन्यः सुखत्वाल्लोष्टवत् , लोष्टादिर्हि सुखदुःखमोहैः पुरुषभोग्यैरन्योऽन्यतोऽन्यैरुपेतः, एवं दुःखमोहौ।
न, अपृथग्भूतेत्यादि, हेत्वसिद्धिप्रतिपादनसाधनानि लोकप्रसिद्धदृष्टान्तानि यावत् प्रदीपादिव घट इति, लोष्टदृष्टान्तो वक्ष्यते सुखदुःखमोहैः पुरुषभोग्यैरन्योऽन्यतोऽन्यैरुपेत इत्यतिदेशसाधनोक्तिकाले उत्तरत्र । अपृथग्भूतसमवस्थानस्वरूपेत्याद्यसिद्धं तत्कथमिति चेत्-तत्साधनैरेवोच्यते सुखं मोहाद्गुरोरित्यादि सुबोधत्वान्न व्याख्येयं परस्परान्यत्वसाधनकदम्बकं यथा भाष्यलिखितमनुगन्तव्यम् , 10 पुन:-अतश्चेत्यादि, एतस्मादन्यसाधनप्रपश्चात् सुखत्वाहुःखत्वान्मोहत्वादित्यादयोऽप्यन्यत्वहेतवः स्युः, आदिग्रहणात् प्रसादादयोऽपीति, तत्प्रयोगदिगुपप्रदर्शनार्थमाह-शरीरेन्द्रियगत आत्मैकदेशस्तदेकदेशभूताभ्यां रजस्तमोभ्यामन्यः, सुखत्वालोष्टवत् , यथा लोष्टो भोग्यो हि पुरुषस्य भोक्तुरुपभोगार्थप्रवृत्तेः कपोतोइयनाथ क्षेपणादानादिषु सुखं दृष्टं चलनपीडनादौ दुःखं लोष्टो नु कपोतो न्वित्यादि संशयविपययादिषु मोहः, तस्मात् सुखं दुःखमोहाभ्यामन्यत् लोष्टवत् , एवं दुःखमोहावित्यतिदेशः, दुःखं शरीरे- 10 न्द्रियगतं तदात्मैकदेशभूताभ्यामन्यत् दुःखत्वालोष्टवत् , मोहः सत्त्वरजोभ्यामन्यो मोहत्वाल्लोष्टवदिति ।
अत्र ब्रूमः सर्वेऽप्येतेऽन्यत्वहेतवोऽप्रसिद्धसाध्यधर्मसमन्वयव्यावृत्तयः, पृथग्भूतसुखाद्यात्मकसत्त्वादिलघ्वादितूललोष्टादिवस्त्वभावात् , सर्वस्य त्रैगुण्याव्यतिरेकाच्च न चैषां विपक्षाव्यावृत्तिरस्ति, तूललोष्टादेरेव विपक्षत्वेन व्यवस्थानात् , साध्यसाधनोभयानन्वयो धर्म्यसिद्धिश्च, साध्याव्यावृत्त्यादिदोषश्च, स्वत एवानुमाननिराकृतस्य पक्षीकरणाश्चैते।।
अत्र ब्रूमः सर्वेऽप्येत इत्यादि, सर्वग्रहणात् लघुत्वादयो मोहत्वपर्यन्तास्त्वयोक्ता अन्यतोऽन्यत्वसाधनेऽनुपदमेव प्रदर्यत इत्याह-लोष्टदृष्टान्त इति, अतिदेशसाधनोक्तिकाल इति, शरीरेन्द्रियगत आत्मैकदेश इत्याद्यनुमानप्रदर्शनावसर इत्यर्थः, स्फुटमन्यत् । शरीरेति शरीरस्येन्द्रियाणाश्च त्र्यात्मकत्वात् सुखावच्छिन्नः शरीरेन्द्रियैकदेशः रजस्तमोऽवच्छिन्नशरीरेन्द्रियैकदेशाभ्यां भिन्नः सुखात्मकत्वात् , यथा यदा लोष्टः सुखस्वरूपस्तदा रजस्तमोभ्यामन्य एव, पुरुषोपभोगार्थ हि सर्वेषां सर्जनम् , यथा यथा पुरुषस्योपभोगस्स तेन प्रकारेण तदात्मा भवति कपोतोड्डयनादिप्रवृत्तौ प्रव-25 तयितुः स सुखरूपो भवति, चलने पीडाकारी यदा भवति तदा स दुःखात्मकः, यदा चायं लोष्टो वा कपोतो वेति संशयकारी न लोष्ठः कपोत एवेति विपर्ययकारी वा तदा स मोहरूपो भवतीति सुखात्मकत्वदशायां रजस्तमोभ्यामन्यस्तथा शरीरेन्द्रियगतः सुखप्रदेशोऽपीति भावः । एवं दुःखावच्छिन्नं मोहावच्छिन्नं शरीरेन्द्रियभागं पक्षीकृत्यापि भेदो भाव्य इत्याह-एवमिति । अथोक्तानामन्यत्वसाधनानां साधनाभासत्वमाह-अत्र बम इति । सर्वपदबोधितान् हेतून् दर्शयति-सर्वग्रहणादिति । प्रोक्तहेतूनां साध्यधर्मेण सहान्वयो व्यतिरेकश्चाप्रसिद्ध इत्यर्थः । लघ्वेवेत्सवधारणपक्षेऽसजातीयलक्षणव्यावृत्तार्थविषयतयेत्यायनि-30
20
सि. कार्यभूतस्य शरीरस्य कारणभूतानां चेन्द्रियाणामाध्यात्मिकानामेकदेशस्तदात्मभूतत्वद्गतस्तदात्मभूताभ्यां रजस्तमोभ्यामन्यः । २ सि. क. तो नयनार्थ ।
द्वा० न० १२ (५०)
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org