________________
wwwwwww
३९२ द्वादशारनयचक्रम्
[विध्युभयारे मप्रकाशकं प्रवृत्तिशीलं दृष्टम् दुःखाश्च करणप्रवृत्तयस्तस्मात् प्रकाशनियमाभ्यामन्याः, तथा मोहो गुरुरप्रकाशको दृष्टः, मूढाश्च करणनियमास्तस्मात् प्रकाशप्रवृत्तिभ्यामन्य इति । एतेनाध्यात्मिकानां कार्यकारणात्मकानामित्यादिनोत्तरेण ग्रन्थेन तैर्यग्योनादिसंसारगताध्यात्मिककार्यकारणात्मकभेदानां सुखदुः
खमोहमयत्वातिदेशः कार्यकारणात्मकत्वात्तेपासपीति । अस्य ग्रन्थस्यार्थव्याख्यानं साधनैरेव क्रियते5 सत्त्वरजस्तमांसि जात्यन्तराणि लक्षणभेदात् , चेतनशरीरवत्, लक्षणभेद:- सत्त्वं लघ्वप्रवृत्तिशीलं [प्रकाशकं] दृष्टमित्यादि तत्साधनं भाष्ये सुलिखितमिति न विवृण्महे, तथा रजस्तमसोरन्यत्वापादनसाधनान्यनुगन्तव्यानि यावद्गुरुरित्युभाभ्यामन्य इति ।
आचार्य उत्तरमाह
ननु लक्षणभेदहेतुत्वमपि न, लघुत्वप्रकाशाप्रवृत्तिशीलत्वान्यपि ह्येकम् , अपृथग्भूत10 समवस्थानस्वरूपलक्षणभेदात्मकत्वात् , भिन्नलक्षणतमस्त्ववत् ।
ननु लक्षणभेदहेतुत्वमित्यादि यावत्तमस्त्ववत्, लक्षणभेदहेतुनां लघुत्वादीनामप्यहेतुत्वम् , एतेनैव प्रत्युक्तत्वात् , कथम् ? लघुत्वप्रकाशाप्रवृत्तिशीलत्वान्यप्येकम् , अपृथग्भूतसमवस्थान. स्वरूपलक्षणभेदात्मकत्वादिति भिन्नलक्षणतमस्त्ववत् , तथैव व्याख्येयं लक्षणशब्दाधिकेन विग्रहस्तुतत्स्वरूपमेव लक्षणं स ऐव भेदो यस्येति तस्मात् ।
तास्वरूपलक्षणभेदात्मकत्वमप्यहेतुरतो नानन्यत्वं सत्त्वादीनामितीतर आह
न, अपृथग्भूतसमवस्थानस्वरूपेत्याद्यसिद्धम् , तत्कथमिति चेत्-सुखं मोहाद्गुरोरन्यत् , लघुत्वात् , लोष्ठादिवाकैतूलः, दुःखात् प्रवृत्तिशीलादन्यत् , अप्रवृत्तिशीलत्वात् , वायोरिवाकाशम् , दुःखमोहाभ्यामप्रकाशकाभ्यामन्यत् प्रकाशकत्वात् , घटादिव प्रदीपः, दुःखं मोहादनासमर्थत्वेन दुःखरूपत्वात् प्रकाशनियमाभ्यां सत्त्वतमोभ्यामन्या इति भावः । तथा मोह इति तमसो गुरुत्वं लक्षणम् , 20 तच्च कार्यस्याधोगमनहेतुर्धर्मः लघुत्व विरोधिस्थितिहेतुभूतो धर्म इति यावत् , तत एव करणान्यलसानि स्वविषयग्रहणासमर्थानि
भवन्त्यतो मूढानि करणानीत्युच्यन्ते, तस्मात् प्रकाशप्रवृत्तिभ्यां सत्त्वरजोभ्यामन्यानीति विभिन्नलक्षणत्वात् सत्त्वादीनां जात्यन्तरत्वमिति भावः । सर्वेषां वस्तूनां सुखदुःखमोहमयत्वातिदेशग्रन्थमभिदधाति-एतेनेति, तैर्यग्योनादीति, तैर्यग्योनमानुषदैवात्मको भौतिकः सर्ग उच्यते पशुपक्षिमृगसरीसृपस्थावरास्तैयग्योनाः, एकविध एव मानुषः, ब्राह्मप्राजापत्येन्द्रगान्धर्वासुरयक्षरा क्षसपशाचा दवाः, एतत्सर्व कार्यकारणवीतेऽग्रे व्यक्तीभविष्यति । तदेवं लक्षणमुक्त्वा जात्यन्तरत्वं साधयति-सत्त्वरज इति ।
चेतनशरीरयोभाक्तृत्वभोगसाधनत्वरूपलक्षणभेदाढ़ेदो भाव्यः । अथ त्वदुक्तलक्षणभेदोऽपि न हेतुः, सत्त्वरजस्तमसां प्रकाश25 प्रवृत्तिनियमानाञ्चापृथग्भूततत्त्वतायाः पूर्व प्रसाधितत्वात् लघुत्वचलत्वगुरुत्वादीनामप्यपृथग्भूततत्त्वात् खस्वरूपेषु व्यवस्थितत्वाच्च जान्त्यन्तरत्वाभावान्न जात्यन्तरत्वसाधकत्वमित्याशयेनोत्तरयति-नन्विति । तत्र लघ्वप्रवृत्तिशीलं प्रकाशकमिति यदुक्तं धर्मत्रयं तस्यापिन चलाप्रकाशप्रवृत्तिशीलत्वादिभ्यो भेदोऽपि तु वरणाद्यात्मकतमस्त्ववदेकत्वमेवेत्याह-लघुत्वेति । वरणसदनापध्वंसनादीनां तमोलक्षणानां हि मिन्नखरूपत्वेऽपि तैर्न तमसो भेदः किन्तु तेषां तम सारूप्यानतिवृत्तरेकत्वमेव तथा लघुत्वप्रका
शाप्रवृत्तिशीलत्वानामपि लक्षगानां सत्त्वसारूप्यानतिक्रमादैक्यमपृथग्भूतसमवस्थानस्वरूपलक्षणभेदात्मकत्वादित्याह-लक्षणमे30 देति । उक्तहेतोरप्यसिद्धिमाशङ्कते-नेति । तामेवोपपादयति-सुखमिति । एक एव लोष्ठदृष्टान्तः सुखदुःखमोहाना परस्पर
सि. क. भव्ये । २ सि. क. एवाभेदो। ३ सि. क. नान्यत्वे ।
15
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org