________________
Wommmmmmm
www
सत्त्वादेर्भेदाशङ्कनम्] न्यायागमानुसारिणीव्याख्यासमेतम्
३९१ पृथग्भवनाभावादित्युक्तं भवति, तत्स्वरूपभेदान्मकत्वञ्च वादिप्रतिवादिप्रसिद्धम् , दृष्टान्तो वरणादितमस्त्ववत् , यथा वरणसदनापध्वंसनबैभत्स्यदैन्यगौरवाणां परस्परतो भिन्नानां छादनस्तम्भनविशरणारोचनविषादाधोगमनधर्माणां भेदात्मकत्वे सत्यपि मोहात्मकतमःसारूप्यानतिक्रमेणैक्यमपृथग्भवनसमवस्थानस्वरूपभेदात्मकत्वात् तथाऽस्मादेव हेतोः सत्त्वादीन्येकमिति ।
अत्राह
अपृथग्भवनसमवस्थानस्वरूपभेदात्मकत्वमसिद्धं सुखदुःखमोहानां जात्यन्तरत्वात् , कथं पुनरेतदुपलभ्यते सुखदुःखमोहा जात्यन्तराणीत्यत्रोच्यते सुखं लघ्वप्रवृत्तिशीलं प्रकाशकं दृष्टम्, सुखाश्च करणप्रकाशाः, तस्मात् प्रवृत्तिनियमाभ्यामन्ये, तथा दुःखं चलमप्रकाशकं प्रवृत्तिशीलं दृष्टम् , दुःखाश्च करणप्रवृत्तयः, तस्मात् प्रकाशनियमाभ्यामन्याः तथा मोहो गुरुरप्रकाशको दृष्टः मूढाश्च करणनियमाः तस्मात् प्रकाशप्रवृत्तिभ्यामन्य इति, एवं आध्या- 10 त्मिकानां कार्यकरणात्मकानां सुखदुःखमोहमयत्वं बोध्यम् । सत्त्वरजस्तमांसि जात्यन्तराणि, लक्षणभेदात् चेतनशरीरवत् , लक्षणभेदश्च सत्त्वं लघ्वप्रवृत्तिशीलं प्रकाशकं दृष्टमित्युभाभ्यामन्यत्, रजश्चलमप्रकाशकं प्रवृत्तिशीलमित्युभाभ्यामन्यत् , मोहो गुरुरित्युभाभ्यामन्य इति ।
__ अपृथग्भवनसमवस्थानेत्यादि जात्यन्तरत्वसाधनानि यावद्गुरुरित्युभाभ्यामन्य इति, ननूक्तमन्वयो वीत एवात्राह-कथं पुनरेतदुपलभ्यते सुखदुःखमोहा जात्यन्तराणीति, अत्रोच्यते सुखं 10 लध्वप्रवृत्तिशीलं प्रकाशकं दृष्टम् सुखाश्च करणप्रकाशास्तस्मात् प्रवृत्तिनियमाभ्यामन्ये, तथा दुःखं चल
www
प्यवस्थितखभावभेदात्मकमतो न तानि जात्यन्तराणीति । अविनाभाववर्तित्वं सत्त्वादीनां 'अन्योऽन्याभिभवाश्रयजननमिथुनवृत्तयश्च गुणाः' इति वदतां वादिनामपि सम्मतमेव, अत एवोच्यते-तत्स्वरूपमेदात्मकत्वश्चेति । वरणादीनां कार्य दर्शयतिछादनेति वरणादयो भिन्नस्वभावा अपि तमसोऽभिन्नत्वादेकरूपा एव सङ्गत्यैकीभावेनावास्थिताः, अत एव च तेषां क्वचित् कदाचित् पृथग्भवनं नास्ति, एवं सत्त्वादयोऽप्यपृथग्भूततत्त्वत्वादविनाभाववर्तिनः सङ्गत्यैकीभावेनावस्थिताः स्वरूप-20 भेदेऽप्येकरूपा एवेति भावः । ननु सत्त्वरजस्तमसामेकीभावेनावस्थानस्यासिद्धत्वात्त्वदुक्तो हेतुरसिद्धः लक्षणभेदेन तेषां जात्यन्तरत्वादित्याशङ्कते-अपृथग्भवनेति । ननु पूर्वमेकात्मकैककारणपूर्वकत्वसमर्थनसमये वीतानुमानप्रतिज्ञावाक्यविचारे सत्त्वादीनामप्यन्वयरूपत्वमुक्तमेवातो न जात्यन्तरत्वमित्याशङ्कायामुच्यते-ननूक्तमिति । सत्त्वादीनां लक्षणभेदाढ़ेद इत्याशयेन लक्षणान्याह-सुखमिति, सत्त्वमित्यर्थः, ऊर्द्धगमनतिर्यग्गमनहेतुर्धर्मो लघुत्वं एतच्चाग्निवाय्वादिवस्त्वन्तरवृत्ति, प्रवृत्ते रजोधर्मत्वेन सत्त्वमप्रवृत्तिशीलम् , इदश्च स्वरूपवर्णनम्, न तु लक्षणम् तमसोऽप्यप्रवृत्तिशीलत्वात् , एवमग्रेऽपि प्रकाशो बुज्यादिवृत्तिरू-25 पालोकः भौतिकालोकश्च तत्कारणं सत्त्वं लघुत्वादेव, सत्त्ववृत्तिलघुत्वं दर्शयति-सुखाश्चेति, आहरणधारणप्रकाशनसाधनानां त्रयोदशप्रकाराणामिन्द्रियाणां करणानां प्रकाशाः, खखविषयग्रहणानुकूलानां वृत्तीनां खखविषयग्रहणोन्मुख्यरूपनैपुण्ये हेतुर्लाघवं भवति, तत्रैकादशेन्द्रियाणि बुद्धिरहङ्कारश्चेति त्रयोदशविधं करणम् , बुद्ध्यहङ्कारमनःकरणैराहृतं पञ्च ज्ञानकरणैः प्रकाशितं पञ्चकर्मकरणानि धारयन्ति, तस्मात् करणानामाहरणधारणप्रकाशा लघुत्वलक्षणसत्त्वकार्याः सुखरूपाः, अत एवोक्तं 'प्रीत्यप्रीतिविषादात्मकाः प्रकाशप्रवृत्तिनियमार्था' इति । एवञ्च सुखरूपं सत्त्वं प्रवृत्तिनियमाभ्यां रजस्तमोभ्यामन्यत् लघुत्वादिभ्य इति भावः 130 दुःख मिति रज इत्यर्थः, तस्य दुःखरूपत्वात् , चलं सक्रियत्वेन प्रवृत्तिशीलं न प्रकाशकारि च, करणमिदं चालयत् स्वकार्ये प्रवय॑ते, चलता च द्विविधा परिणामप्रस्पन्दभेदात् परिणामस्तु सर्वेषां गुणानां खतो भवति, प्रस्पन्दश्च रजस एव लक्षणम् , सोऽयं प्रस्पन्दः प्राणादीनां कर्मेन्द्रियवृत्तीनां वचनादीनां बाह्यानां द्रव्याणामुत्पतननिपतनभ्रमणादिः, तत्र करणप्रवृत्तयः क्वचिदप्यवस्था
१ सि. क. स्यादिगौर० ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org