________________
mmmmmmmmmmmm
wwwmama
३९० द्वादशारनयचक्रम्
[विध्युभयारे प्रकाशादिप्रपश्चा व्यक्तिरेकैव-एकार्थविषया, 'सत्त्वमिति वा रज इति वा तम इति वा प्रधान इति वा यथेच्छसि तथास्तु सर्वथाऽप्येकस्य कारणाख्यस्य वस्तुनः सूक्ष्मस्य स्थूलतैव व्यक्तिरिति तद्विषया व्याव
यंत इति, इतिः विचारपरिसमात्यर्थः, यत् प्रतिज्ञातं सत्त्वं प्रकाशात्मकयोः रजस्तमसोः शब्दभावाय व्यवतिष्ठते तत एकात्मकैककारणमिति तत् साध्वभ्यधामेति, त्वया यदुच्यते रजःशब्दकार्यमित्यादि ग्रन्थ5 स्यापि समानदौष्ट्यापादनार्थोऽतिदेशः भाष्य एव सुलिखितातिदेशोपायत्वान्न वित्रियते विशेषणविन्यासोपायश्च सुलिखित एव प्रकाशस्थाने प्रवृत्तिं कृत्वेत्यादि सर्वमनुगन्तव्यं यावद्वायुमिति । तथा तमः शब्दकार्यमित्यादि तथैवानुगन्तव्यं यावल्लम्बनपाषाणमिति ।
एवमवसायितप्रसङ्ग इदानीं साधनमाह
अतस्त्रीण्यप्येकम् , अपृथग्भूतसमवस्थानस्वरूपभेदात्मकत्वात् , वरणादितमस्त्ववत् । 10 अतस्त्रीण्यप्येकमित्यादि तमस्त्ववदिति, सत्त्वरजस्तमांसि त्रीण्यपि प्रकाशप्रवृत्तिनियमात्मकानि जात्यन्तराभिमतान्येकम् , वस्तुतः त्रित्वस्यातंत्रत्वाद्भिन्नमप्यभिन्नमिति पक्षार्थः, परमतापेक्षया त्रयाणामैक्यासिद्धेः साध्य, त्रीण्यपि च परस्परसिद्धानि धर्मित्वेनास्माकञ्च वस्तुशक्तित्वभेदेनेतीत्थं साध्यते, अन्यथा त्रीणि चैकञ्चेति विरुद्धं स्यात् , अपृथग्भूतसमवस्थानस्वरूपभेदात्मकत्वात्-भूतं भवनं
भावो भूतिरिति [भावे] निष्ठाविधानात् , अपृथग्भवनं सङ्गत्यैकीभावेनावस्थानं तदिदमपृथग्भूत15 समवस्थानं तदेव स्वरूपं भेदाश्चात्मा येषां तानि सत्त्वादीनि अपृथग्भूतसमवस्थानस्वरूपभेदात्मकानि तद्भावात् , क्षीरोदकवद्देशकालभेदेन सहभवनेऽपि सङ्गत्यकावस्थानस्वरूपत्वविशेषणात् कचित् कदाचित् इत्याह-सत्त्वमिति वेति । एकात्मकैककारणत्वानभ्युपगमे सांख्यस्य खोक्तवचननिरूपणाशक्यतामुद्भावयितुं प्रक्रान्तं विचारमुपसंहरति-इतिरिति । गुणत्रयोद्देशवाक्ये सत्त्वविषयमेव-वाक्यं निर्दिश्य कृतं विचारमेव रजोविषयवाक्ये तमोविषयवाक्ये चातिदिशति त्वया यदुच्यत इति । अत्र भाष्यं पूर्णतया न गम्यते । अतिदेशोऽयमाचार्येणेव नर्तक्या 20 इति ग्रन्थं यावद् बोध्य इति प्रतिभाति । अथ सत्त्वरजस्तमसामैक्यं साधयितुमाह-अत इति । त्रीण्यप्येकमिति त्रित्ववि
स्य विधानं व्याहतार्थ भवतीति पक्षार्थ विशदयति-वस्तत इति. तंत्रं-प्रधानमतंत्रमप्रधानमित्यर्थः, विशेषणस्याप्रधानत्वमविवक्षितत्वादुपलक्षणत्वाद्वा भवेत् , भवतां जात्यन्तरत्वेन त्रित्वतया यान्यभिमतानि सत्त्वादीनि तानि एकस्वविशिष्टान्येवेति भावः । तच्चैकत्वं सांख्यानामसिद्धमतः साध्यत इत्याह-परमतापेक्षयेति सांख्यमतापेक्षयेत्यर्थः, तेषां मते सत्त्वादीनां परस्परं सिद्धत्वामित्वम्, अस्माकमपि सुखदुःखमोहात्मकानां तेषां वस्तुशक्तिविशेषतया सिद्धत्वाद्ध25 मित्वं नातो धर्म्यप्रसिद्धिरित्याह-त्रीण्यपि चेति । प्रतिज्ञाते हेतुमाह-अपृथगिति । अत्र भूतशब्दो भावे क्तप्रत्ययान्तः,
धात्वर्थमात्रस्य भावत्वाद्भवनार्थो भूतशब्द इत्याह-भूतमिति । निष्ठाविधानादिति, व्याकरणे क्तप्रत्ययस्य निष्ठासंज्ञा कृता, तप्रत्ययस्य भावेऽपि विधानादित्यर्थः । हेत्वर्थ स्फुटीकरोति-अपृथग्भवनमिति, अयं भावः जात्यन्तरत्वेन भवतामभिमतानि सत्त्वरजस्तमांसि वस्तुतोऽभिन्नान्येव, सङ्गत्यैकीभावेनावस्थितानामपि तेषां स्वस्वस्वभावेष्ववस्थितत्वात् , यथा रूप
यौवनसाधुत्वलीलाविलाससम्पन्ना कुलस्त्री सत्त्वस्य रूपमुपदिश्यते सा भर्तुः सुखावहा भवति सपत्नीनां दुःखाय रागिणां मोहाय 30 च, क्षत्रिया प्रहरणकृतापराधां दस्युसेनामभिनिघ्नती काचित् रजसो रूपमित्यपदिश्यते दस्युभिरुपद्रुतानां दार्यमाणानां
सुखावहा भवति, तेषां दस्यूनां प्रहारैर्दुःखाय प्रलायमानानाञ्च विषादाय, घनाघनो महानीलस्तोयाध्मातस्तडिद्विलसितः सबलाकस्तमसो रूपमित्यपदिश्यते, स च सजीकृतबीजोपकरणानां कर्षकाणां सुखाय अनाच्छादितवेश्मनां दुःखाय प्रोषितभतृकाणां मोहाय च, तत्र यत्सुखहेतुस्तत्सुखात्मकं सत्त्वं यदुःखहेतुस्तदुःखात्मकं तमः यन्मोहहेतुस्तन्मोहात्मकं तम इत्येकम
१ सि. भवनस्य । क. भवनमस्य । २ सि. क. स्थानस्य । ३ सि त्यैक्याव०।
mmmmmmmmmwww
Ammmmmmmmmm
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org