SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ सत्त्वादीनामैक्यम् ] न्यायागमानुसारिणीव्याख्यासमेतम् ३८९ wwwww सत्त्वं प्रकाश्यते व्यक्तिनियतिपरिणत्या नियमेनैवेति, नियतो हि भावो व्यज्यते प्रवर्त्तते, तथा तम:सत्त्वेन रजःसत्त्वं प्रकाश्यते व्यक्तिनियतिपरिणत्या नियत्यैवेत्युक्तं भवतीति [ तमःसत्त्वेन तमःसत्त्वं प्रकाश्यते व्यक्तिनियतिपरिणत्या नियमेनैवेत्युक्तं भवतीति ] तदेव भावितम् - एवमेव च सत्त्वप्रकाशेन सत्त्वप्रकाशो रजःप्रकाशस्तमःप्रकाशश्च प्रकाश्यते, रजःप्रका- 5 शेन सत्त्वप्रकाशो रजः प्रकाशस्तमः प्रकाशश्च प्रवर्त्यते, तमःप्रकाशेन सत्त्वप्रकाशो रजःप्रकाशस्तमःप्रकाशश्च नियम्यत इति त्रयोऽप्यर्था ऐक्यमापादनीयाः । एवमेव चेत्यादि, यथा सत्त्वरजस्तमसां नवापि विकल्पा उक्तास्तथा सत्त्वप्रकाशेन सत्त्वप्रकाशः प्रकाश्यत इति, सत्त्वप्रकाशेन रजः प्रकाशः तमः प्रकाशश्चेति त्रयः, रजः प्रकाशेन सत्त्वप्रकाशो रजः प्रकाशस्तमःप्रकाशश्चेति त्रयः, तमः प्रकाशेन सत्त्वप्रकाशो रजः प्रकाशस्तमः प्रकाशश्चेति त्रयो 10 विकल्पाः प्रकाश्यते प्रवर्त्यते नियम्यत इत्यनेनैव ग्रन्थेन त्रयोऽप्यर्था ऐक्यमापादनीयाः प्रत्येकं नवस्वपि इत्यर्थः । एष दाष्टन्तिकोऽप्यर्थो व्याख्यातः । स इदानीं दृष्टान्तेन साधर्म्येणोपसंहियते— सर्वाप्येषा मृद्घटव्यक्तिशक्तिस्थूलतैव तथा सत्त्वप्रकाशादिप्रपञ्चा व्यक्तिरेकैव सत्त्वमिति वा रज इति वा तम इति वा प्रधान इति वा यथेच्छसि तथाऽस्तु सर्वथाऽप्ये- 15 कस्य कारणाख्यस्य वस्तुनः सूक्ष्मस्य स्थूलतैव व्यक्तिरिति । यदुच्यते रजः शब्दकार्य प्रख्याय तदात्मना व्यवतिष्ठमानं सत्त्वतमसोः शब्दात्मभावाय प्रवृत्ति प्रख्यापयतीति तदपि पूर्ववत् प्रश्नद्वयं कृत्वा प्रकाशस्थाने प्रवृत्तिं कृत्वा सर्वमनुगन्तव्यं यावद्वायुमिति, तथा तमः शब्दकार्यमित्यादि तथैवानुगन्तव्यं प्रकाशस्थाने नियमं कृत्वा यावलम्बनपाषाणमिति । www ( सर्वापीति ) सर्वाप्येषा मृद्घटव्यक्तिशक्तिस्थूलतैव यथा प्रागुपवर्णिता कारणे कार्यस्य 20 सत्त्वान्मृद्यनभिव्यक्ताया घटव्यक्तिशक्तेः स्थूलता - ऊर्ध्वग्रीवादिव्यक्तेन्द्रियग्राह्यता सैकैव तथा सत्त्वयमयोरैक्यविषयो विकल्पः । तमोरूपेण सत्त्वेन रजोरूपं सत्त्वं प्रकाश्यत इत्यष्टममाह तथा तम इति, नियमप्रधानः प्रकाशनियमाभेदविषयो विकल्पोऽयम् । एवं तमोरूपेण सत्त्वेन तमोरूपं सत्त्वं प्रकाश्यत इति नवमं नियमप्रधानं प्रकाशनिय - माभेदविषयं विकल्पमाह - तमः सत्त्वेनेति, तदेवं सत्त्वरजस्तमसां फलाभेदादैक्यमापादितम् । फलस्याप्यैक्यमाह - एवमेव चेति, पूर्वोक्तन व विकल्पक्रमेणैव सत्त्वरजस्तमसां प्रकाशेन सहैक्यविषया नवापि विकल्पा विज्ञेया इत्याह-यथेति, मूलं 25 व्याख्या च स्फुटार्थैव । यथा कारणे कार्यस्य सत्त्वाद्धटेनैव घटः क्रियत इति ग्रंथेनोक्तदृष्टान्तसाधम्र्येण दाष्टन्तिकः प्रकृतोऽर्थो वर्णित इत्याह-एष इति । यथा मृदि स्थास कोश कुशूल घटकपालादयोऽवस्था अव्यपदेश्यरूपेण शक्त्यात्मनाऽभेदेन सत्य एव क्रमोपनिपतिततत्तत्सहकारिसमवधानक्रमेण च तासां मृदेव कर्त्री तथातथाव्यपदेश्येन्द्रियग्राह्यान्यतमावस्थाभाग भवति तथा सत्त्वाद्यन्यतम देवान्तलन प्रकाशप्रवृत्तिनियमलक्षणं वस्तु तथातथा प्रकाशते ततो गुणत्रयाभ्युपगमो निरर्थक वात एकात्मक कारणमेव शब्दादी याशयेनाह - सर्वाप्येषेति मृदेव यथा स्वगतां पृथुकुक्ष्याद्याकारेण व्यक्तिशक्ति प्रति 30 प्रतिनियतानां परस्परोपजनितकार्यसाधनशक्तीनां स्वसाधनानां क्रमेण समावेशात् घटाद्यात्मा मृद्भवति तथैवैकस्मादेव निखिलाभिव्यक्तिरित्येकं सूक्ष्मं कारणमेव व्यक्तात्म भवतीत्येककारणपूर्वकमेवेदं जगदित्याशयेनाह - यथेति । तत्र नामविशेषे नाग्रह १ सि. क. नियतिप्रवृत्तिपरिणत्या । Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002585
Book TitleDvadasharnaychakram Part 2
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1951
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy