SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ૨૮૮ द्वादशारनयचक्रम् [ विध्युभयारे (तत्त्वा. अ. ५ सू. ४१) इति वचनात् , नद्धि प्रवर्त्तमानं न किश्चिदपेक्षते इति प्रवृत्तिनियमानपेक्षेणेति सत्त्वसत्त्वेनेति ।। एवं रजःसत्त्वेन सत्त्वसत्त्वम्, किमुक्तम्भवति व्यक्तिप्रवृत्तिपरिणत्या तयैव प्रवृत्त्यात्मिकया व्यत्स्येत्येतदुक्तम्भवति, एवं तमःसत्त्वेन सत्त्वसत्त्वम् किमुक्तम्भवति व्यक्तिनियमपरिbणामेन तयैव नियमात्मिकया व्यक्त्येत्येतदुक्तम्भवति, एवमेव रजःसत्त्वेन सत्त्वसत्त्वं प्रका श्यते व्यक्तिप्रवृत्तिपरिणत्या प्रवृत्त्येवेत्युक्तम्भवति, रजःसत्त्वेन रजःसत्त्वं प्रकाश्यते व्यक्तिप्रवृत्तिपरिणत्या प्रवृत्त्येवेत्युक्तम्भवति, रजःसत्त्वेन तमःसत्त्वं प्रकाश्यते व्यक्तिप्रवृत्तिपरिणत्या प्रवृत्त्येवेत्युक्तम्भवति, तथा तमःसत्त्वेन सत्त्वसत्त्वं प्रकाश्यते व्यक्तिनियतिपरिणत्या नियमेनैवेत्युक्तम्भवति, तमःसत्त्वेन रजःसत्त्वं प्रकाश्यते व्यक्तिनियतिपरिणत्या नियमेनै10 वेत्युक्तम्भवति, तमःसत्त्वेन तमःसत्त्वं प्रकाश्यते व्यक्तिनियतिपरिणत्या नियमेनैवेत्युक्तम्भवतीति। (एवमिति) एवं रजःसत्त्वेन सत्त्वसत्त्वं प्रकाश्यत एवेति वर्त्तते, पूर्ववद्व्यक्तिरिति प्रकाशैकार्थ्यम् , किमुक्तं भवति व्यक्तिप्रवृत्तिपरिणत्या प्रकाशनप्रवर्तनपरिणामेन तयैव प्रवृत्त्यात्मिकया व्यक्त्येत्येतदुक्तं भवति इत्यैक्यं दर्शयति । एवं तमःसत्त्वेनेत्यादि । व्यक्तिनियमपरिणामेनेत्यक्षरविपर्या15 समात्रेण भेदादध्यक्यापादनं गतार्थम् यावद्व्यक्त्यैवेत्युक्तं भवतीति । सत्त्वेनैव व्यक्त्यात्मना प्रवृत्तेन नियतेन चावश्यं भवितव्यमन्यथा तत्स्वरूपाद्यभावादित्युक्तत्वात् । एवमेव रजःसत्त्वेन सत्त्वसत्त्वं प्रकाश्यते व्यक्तिप्रवृत्तिपरिणत्या प्रवृत्त्यैवेत्युक्तं भवति, सतो हि भावः सत्त्वम् । रजःसत्त्वेन रजः सत्त्वं प्रकाश्यते व्यक्तिप्रवृत्तिपरिणत्या प्रवृत्त्यैवेत्युक्तं भवतीति तथैव गमनीयम् , तथा रजः सत्त्वेन तमःसत्त्वं प्रकाश्यते व्यक्तिप्रवृत्तिपरिणत्या प्रवृत्त्यैवेत्युक्तं भवतीति, । तथा तमःसत्त्वेन [सत्त्व] 20 न सर्वथोत्पद्यते नापि सर्वथोच्छिद्यते, तस्मात् सामान्यरूपः परिणामः, अनुवृत्तिरूपत्वात् , पिण्डस्थासकोशकुशूलादिषु वरूपापरित्यागेन मृद्रव्यं ह्यनुवर्तते, ततो मृद्रव्यस्य समानभावः सामान्यं मृद्रव्यमेव, तदेव समानं भवति, तथा च द्रव्यस्य खो भाव आत्मलाभोऽवस्थान्तरप्राप्तिः तदेव खं तत्त्वं परिणाम इति सूत्रार्थः । अत एव सत्त्वं तत्त्वं तद्भावः परिणाम इति पर्यायकथनम् । सत्त्वखरूप एव प्रकाशप्रवृत्तिनियमानामन्तलीनत्वात् सत्त्वं प्रकाशनाय नान्यो प्रवृत्तिनियमो अपेक्षत इत्याह-तद्धीति। अथ रजोरूपं यत्सत्त्वं तेन सत्त्वसत्त्वं प्रकाश्यत इति द्वितीयं विकल्पमाह-एवमिति । प्रवृत्त्यात्मप्रकाशसत्त्वेन प्रवृत्त्यात्मक प्रकाशसत्त्वं प्रकाश्यत इत्यर्थ स्फुटयति-किमुक्तं भवतीति । एवं तमोरूपं यत्सत्त्वं तेन सत्त्वसत्त्वं प्रकाश्यत इति तृतीयं विकल्पं दर्शयति-एवं तमःसत्त्वेनेति । नियमात्मप्रकाशसत्त्वेन नियमात्मकं प्रकाशसत्त्वं प्रकाश्यत इति नियमप्रकाशयोरैक्य. माह-व्यक्तीति । अथ रजोरूपेण सत्त्वेन सत्त्वसत्त्वं प्रकाश्यत इति चतुर्थमाह-एवमेवेति । प्रवृत्तिप्राधान्येनायं विकल्पः प्रकाशात्मकप्रवृत्तिसत्त्वेन प्रकाशात्मकप्रवृत्तिसत्त्वं प्रकाश्यते इति प्रकाशप्रवृत्त्योरैक्यमाह-व्यक्तीति । रजोरूपेण सत्त्वेन रजोरूपं सत्त्वं प्रकाश्यत इति पञ्चममाह-रजःसत्त्वेनेति । पूर्ववत् प्रवृत्तिप्रधानोऽयं विकल्पः प्रकाशप्रवृत्त्योरेक्यविषयः । एवं रजोरूपेण सत्त्वेन तमोरूपं सत्त्वं प्रकाश्यत इति षष्ठमाह-तथा रज इति अयमपि प्रवृत्तिप्रधानः प्रकाशप्रवृत्योरैक्य. विषयो विकल्पः । अथ तमोरूपेण सत्त्वेन सत्त्वसत्त्वं प्रकाश्यत इति सप्तममाह-तमःसत्त्वेनेति, नियमप्रधानः प्रकाशनि १ सि. क. रूपादिभा। Jain Education International 2010_04 For Private & Personal Use Only www.jainelibrary.org
SR No.002585
Book TitleDvadasharnaychakram Part 2
Original Sutra AuthorMallavadi Kshamashraman
AuthorLabdhisuri
PublisherChandulal Jamnadas Shah
Publication Year1951
Total Pages350
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy