________________
३८७
सत्त्वादेर्नव विकल्पाः] न्यायागमानुसारिणीव्याख्यासमेतम् जस्तमसा तत्कार्याणाश्च प्रकाशप्रवृत्तिनियमानामव्यतिरेकैकवृत्तिता, इतिः परिसमाप्त्यर्थः, एवन्तावदेतया भावनयाऽऽपादितैक्यानां सत्त्वादीनां सत्त्वस्वात्मनैव कर्तृकर्मत्ववृत्तिरुक्ता परस्परस्वरूपापादनेन भेदमभ्युपगम्य ।
इदानीं फलाभेदान्नैव भेद इति प्रतिपादयिष्यन्नाह
सत्त्वसत्त्वेनैव सत्त्वसत्त्वं प्रकाश्यते त्रयाणामपि सत्त्वरूपत्वस्यापादितत्वात् , यत्तत्सत्त्वं । सत्त्वमेव भवति नान्यद्भवति रजस्तमो वा तत्सत्त्वसत्त्वं तेन सत्त्वसत्त्वेनैव प्रकाश्यते व्यज्यते, परिणामेन मृत्सत्त्वे यद्विद्यमानं सत्त्वसत्त्वं तेनैव तद्व्यज्यते, स्वपरिणामेन सदेव हि सत्त्वेन परिणमति नासत् , यदुक्तम्भवति व्यक्तीभवतीति तदुक्तम्भवति प्रवृत्तिनियमानपेक्षेण सत्त्वसत्त्वेन सत्त्वसत्त्वं प्रकाश्यत इति, सत्त्वसत्त्वमिति च विशेषणं रजःसत्त्वतमःसत्त्वाभ्याम् , तयोरपि त्वन्मतप्रसिद्ध्या भेदेऽस्मदुक्तवदभेद एव, सतो हि भावः सत्त्वं यस्मात्तदेव सद्भवति 10 तस्मात्तदेव सत्त्वं तत्त्वं तद्भावः परिणाम इत्यनान्तरम् ।
(सत्त्वसत्त्वेनैवेति) सत्त्वसत्त्वेनैव [सत्त्व सत्त्वं प्रकाश्यते त्रयाणामपि सत्त्वरूपत्वस्यापादितत्वात् , सत्त्वसत्त्वं रजःसत्त्वं तमःसत्त्वमिति भिद्यते, तस्याभेदः फलाभेदादापाद्यतेऽधुना, यत्तत्सत्त्वं सत्त्वमेव भवति नान्यद्भवति रजस्तमो वा, तत्सत्त्वसत्त्वं तेन सत्वसत्त्वेनैव प्रकाश्यते व्यज्यते तदेव, सत्त्वस्य सत्त्वस्यैव भवनं व्यज्यते स्फुटीक्रियते, पूर्ववत् कर्तृकर्मभावोऽवस्थावशात् , 15 तद्दर्शयति-परिणामेन मृत्सत्त्वे यद्विद्यमानं सत्त्वसत्त्वं-घटप्रकाशसत्त्वं तेनैव तद्व्यज्यते, स्वपरिणामेन सदेव हि सत्त्वेन परिणमति नासत् , यथोक्तम् 'अस्थित्तं अस्थित्ते परिणमति' (भग. श. १ उ. २ सू. ३३) इति, यदुक्तं भवति व्यक्तीभवतीति तदुक्तं भवति सत्त्वसत्त्वेन सत्त्वसत्त्वं प्रकाश्यत इति, सत्त्वसत्त्वमिति च विशेषणं रजःसत्त्वतमःसत्त्वाभ्याम् , तयोरपि त्वन्मतप्रसिद्ध्या सत्यपि भेदेऽस्मदुक्तवदभेद एवेत्यभिन्नफलत्वादैक्यमापाद्यम् , किं कारणं ? यस्मात् सतो हि भावः सत्त्वम् , 20 यस्मात्तदेव सद्भवति तस्मात्तदेव सत्त्वं तत्त्वं तद्भावः परिणाम इत्यनर्थान्तरम् , 'तद्भावः परिणाम:'
womwwwww
यथा का घटेनैव कर्म घटः क्रियते सत्त्वखात्मनैव सत्त्वखात्म भवतीत्युक्तमित्युपसंहरति-एवं तावदिति । सत्त्वादीनां भेदाभ्युपगमेऽन्यतमेनासाध्यभूतस्य कस्यचित्फलविशेषस्याभावात्तेष्वन्यतमं यथेच्छमेकमेवाभ्युपगन्तुं युक्तमिति वक्तुमुपक्रमतेसत्त्वसत्त्वेनैवेति सत्त्वादीनां परस्परमैक्यस्यापादितत्वात् कर्तुरेव कर्मत्वाच सत्त्वाद्याश्रयेण नव विकल्पा भवन्ति, तत्र प्रथमो विकल्पोऽयम् , सत्त्वस्वरूपेण सत्त्वेन सत्त्वखरूपं सत्त्वं प्रकाश्यत इत्यर्थः। एवकारव्यवच्छेद्यमाह-यत्तत्सत्त्वमिति तदेव 26 सत्त्वसत्त्वमेव, सुखप्रकाशादिकारणात्मना सत्त्वेन कर्तृभूतेन तदात्मकस्य सत्त्वस्यैव कर्मभूतस्याविर्भाव इत्याह-सत्त्वस्येति । परिणामेनेति, वस्तुनः आत्मीयो भाव एव परिणामः, ततश्च मृदः सत्त्वसत्त्वं खो भावस्तस्मात्तेनैव तव्यज्यत इति भावः । तदेव स्फुटयति-खपरिणामेनेति । तत्राणे मानमाह-यथोक्तमिति । व्यक्तीभवतीत्युच्यमाने प्रकाशात्मकतत्त्वस्यैव लाभ इत्याशयेनाह-यदुक्तं भवतीति । सत्त्वरूपं सत्त्वमिति विशिष्योक्तः प्रयोजनमाह-सत्त्वसत्त्वमिति चेति। सत्त्वरजस्तम सामनन्यत्वेनात्र सत्त्वरूपस्य सत्त्वस्यैव ग्रहणं न तु रजोरूपस्य तमोरूपस्य वा सत्त्वस्येति भावः । सूत्रकृवचनमपि प्रमाणयति-30 तद्धाव इति । तस्य भावस्तद्भावः, कर्मणि षष्ठी भवतेरकर्मकत्वात् , तदेव मृद्रव्यं तेन तेनाकारेण भवति न कूटस्थमवतिष्ठते
१ सि. क. रुत्त्या
।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org