________________
३८६ द्वादशारनयचक्रम्
[विध्युभयारे र्भावः, आविर्भावेन प्रवृत्त्या प्रवृत्तिसत्त्वेनानपेक्षा स्वव्यक्तिराविर्भावः प्रवृत्तिः, स्वशक्त्याऽऽविर्भावेन स्वनियत्या नियमसत्त्वेनानपेक्षा स्वव्यक्तिः स्वप्रवृत्तिः स्वनियम इति प्रकाश एव प्रवृत्तिर्नियमश्च, एवं प्रवृत्तिरेव चेतरद्वयम् , नियम एवेतरद्वयम् ।
__ अपृथग्भूततत्त्वेनेत्यादि, अपृथग्भूततत्त्वत्वादेव तेन सत्त्वेन प्रकाशेन प्रवृत्तिसत्त्वेनेति 5 प्रकाशप्रवृत्त्योरैक्यं दर्शयति, एवकारेणावधारणार्थेन ततः पृथग्भूतार्थाभावश्च दर्शयति, अत एवाहअनपेक्ष्यया स्वशक्त्या, यदुक्तं भवति प्रकाशेनापृथग्भूततत्त्वेन सत्त्वेनेत्यादिपर्यायाः तदुक्तं भवति प्रवृत्तिसत्त्वेन प्रवृत्त्या स्वशक्त्या [ख] व्यक्तिराविर्भावः 'जनी प्रादुर्भावे' प्रादुः प्राकाश्ये [जन्मनि च] प्रकाशो जन्माभिव्यक्तिरित्यनर्थान्तरम् । प्रकाशात्मयोरेव प्रकाश इति दर्शयति - आविर्भावेन प्रवृत्त्या प्रवृत्तिसत्त्वेन प्रवृत्तिसत्त्वमेवानपेक्षा स्वव्यक्तिः-स्वतः पृथग्भूतप्रकाशनियमानपेक्षा स्वात्माभिव्यक्तिरित्यर्थः, 10 तत्पर्यायकथनमाविर्भावः प्रवृत्तिरिति, तथा नियमसत्त्वेनानेपेक्षेत्यादिना ग्रन्थेन प्रकाशप्रवृत्त्यनान्तरभूतो नियम एव सत्त्वं रजश्चेत्यत आह-स्वशक्त्याऽऽविर्भावेन स्वनियत्या, का च सा ? नियमेनानपेक्षा खव्यक्तिः पूर्ववत् स्वप्रवृत्तिः स्वनियम इत्येकार्थ इति प्रागुपपादितत्वात् प्रकाश एव प्रवृत्तिर्नियमश्च, यस्मात् प्रकाशमानः प्रवर्त्तते नियतश्चार्थ इति, एवं प्रवृत्तिरेव चेतरद्वयं यस्मात् प्रवर्त्तमान प्रकाशते नियतश्च, नियम एवेतरद्वयं नियतो यर्थः प्रकाशते प्रवर्त्तते, तस्मादिहापि तदेव भावितमैक्यम् ।
कथं तर्खेकमेव प्रकाशप्रवृत्तिनियमभेदप्रत्ययव्यपदेशभाग्भवतीति ? अत्रोच्यते
अत एषामेकपुरुषप्रवृत्तश्यामायताक्षप्रलम्बबाहुत्ववत्तथैकवस्तुस्वतत्त्वभूताभिधानप्रयोजनकार्याणामव्यतिरेकेकवृत्तितेति ।।
(अत इति) अत एषामेकपुरुषप्रवृत्तश्यामायताक्षप्रलम्बबाहुत्ववत्-यथैकस्मिन् पुरुषे प्रवृत्तानि तदव्यतिरिक्तानि श्यामत्वमायताक्षत्वं प्रलम्बबाहुत्वमित्येतानि भिन्नानीव तद्भेदप्रत्ययव्यपदेशभाञ्जि 20 भवन्ति तथैकवस्त्वित्यादिनोपसंहरति-तथैकस्य वस्तुनः स्वतत्त्वभूतानां तदभिधानप्रयोजनानां सत्त्वर
15
wwwww
कारेणेति । पृथग्भूतगुणाभावादेव सत्त्वं खकार्यव्यक्तौ नान्यापेक्षमित्याह-अनपेक्ष्ययेति । यथा प्रवृत्त्यायपृथग्भूतं प्रकाशात्मकं सत्त्वं खशक्त्यैवान्यानपेक्ष प्रकाशते तथैव प्रकाशाद्यपृथग्भूतं प्रवृत्त्यात्मक रजः स्वशक्त्यैवान्यानपेक्षमाविर्भवतीत्याहयदुक्तं भवतीति । आविर्भावः प्रकाशः प्रवृत्तिनियम इत्यनर्थान्तरमित्याह-तत्पर्यायकथनमिति । सत्त्वेन रजसा
च तमस ऐक्यमादर्शयितुमाह-तथा नियमसत्त्वेनेति । प्रकाशमानस्यैव प्रवर्त्तमानत्वान्नियतत्वाच्च प्रकाश एव प्रवृत्तिनियमौ, 25 प्रवर्तमानस्यैव प्रकाशमानत्वानियतत्वाच्च प्रवृत्तिरेव प्रकाशनियमौ नियतस्यैव प्रकाशमानत्वात् प्रवर्त्तमानत्वाच्च नियम एव प्रकाश
प्रवृत्ती, तस्य तस्यैव तथातथाभावादित्याह-प्रकाश एवेति । प्रकाशप्रवृत्तिनियमानामेकत्वे प्रकाशतेऽयं प्रवर्तते नियम्यत इति कथं ज्ञानवैलक्षण्यं तस्मात रूपरसवद्विमिन्नज्ञानविषयत्वात्तेषां भेद एव, प्रकाशमान एव प्रवर्तते नियतश्च प्रवर्तमान एव प्रकाशते नियतश्च नियत एव प्रकाशते प्रवर्त्तते चेति हेतुहेतुमद्भावव्यपदेशात्तेषां भेद एव, कथमेकस्य तदुपपद्यत इत्याशङ्काया
माह-अत एषामिति यथा श्यामत्वायताक्षत्वप्रलम्बबाहत्वादयो विशेषा पुरुषाव्यतिरेकिणोऽपि भेदप्रत्ययव्यवहारभाजस्त 30 थैव प्रकाशप्रवृत्तिनियमाः सत्त्वरजस्तमांसि चैकात्मभूतान्यपि मेदव्यपदेशभाजि भवन्तीत्याह-तथैकस्यति, सत्त्वस्यैव रजस
एव तमस एव वैकस्य वस्तुन इत्यर्थः । सत्त्वरजस्तमसा परस्परं मेदमभ्युपगम्य सत्त्वमधिकृत्य विकल्पद्वयमारचय्यैक्यमापाय
१सि. क. पेक्ष्यास्वशक्तिः । २ सि. क. नपेक्षणे ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org