________________
३८५
wwww
aamanamaAAAAAAMAmarwa
प्रकाशादिपर्यायाः ] न्यायागमानुसारिणीव्याख्यासमेतम् व्यक्तिशक्तिस्थूलतापत्त्या-पृथुकुक्ष्यादिप्रकारेण व्यक्तिशक्तिरस्य, मृदि शक्तिमत्यां सूक्ष्मावस्थानादुत्तरकालं देशकालाद्यवबन्धापगमात् स्थूलतापत्त्या-इन्द्रियग्राह्यतया, 'निर्मलदर्पणस्वरूपोपलब्धिवत् कर्मैव सद्वस्तु कर्तृ भवति, मृद एव घटत्वात्-मृदेव हि घटो भवति, घटमात्मानमात्मनाऽवस्थान्तरमात्रविशिष्टमवस्थान्तरमात्रविशिष्टेन करोति, कर्मण एव कर्तृत्वाभ्युपगमात् , कुलालदण्डादीनां तर्हि साधनत्वाभावः, स्वयमेव मृदः कर्तृकर्मत्वाभ्युपगमाद्धटस्यैवेति चेन्न, अत एव तत्साधनत्वात् , वीरणा दितोऽ-5 करणात् , असदकरणादिहेतुभ्यो मृद्येव सन्तं घटं कुलालचक्रदण्डादयोऽभिव्यञ्जयन्तः कर्तृकरणसम्प्रदानापादानाधिकरणादिभावं प्रतिलभन्ते तद्विषयमेव, न वीरणादिविषयम्, न तन्त्वादिविषयम् , तदात्मगतव्यक्तिशक्तिप्रतिनियतस्वसाधनक्रमसमावेशादेव तानि च कारणानि परस्परोपजनितकार्यसाधनशक्तीनीत्येकप्रबन्धेन प्रवर्तमानानि कारणानीत्युच्यन्ते नान्यविषयाणि, तस्मात् कुलालादीनामपि तथैव कर्त्तत्वादिभावोपपत्तेः घटेनैव घटः क्रियते इति साधूक्तम् , एवं दृष्टान्तमात्मनैवात्मानं प्रकाशयति करोतीति 10 प्रतिपाद्य दान्तिकं प्रतिपादयति-तथैव सत्त्वेनेत्यादि, यथा कारणे कार्यस्य सत्त्वाद्धटेनैव घटः क्रियते इत्युक्तं तथा कारणे कार्यस्य सत्त्वात् सत्त्वेन सुखप्रकाशादिकारणात्मना तदात्मकं सत्त्वमेव
ww.mmu प्रकाश्यते मृद्घटावस्थावत् , तदर्शयति-शब्दादिप्रकाशेनापृथग्भूतप्रकाशादितत्त्वं किं तत् ? आकाशादि, रूपाद्यपृथग्भूततत्त्वाया मृदो घंटात्तदपृथग्भूत[त ]त्त्वघटादिप्रकाशवत्, प्रकाशापृथग्भूतेन प्रकाशापृथग्भूततत्त्वं प्रकाश्यत इत्यर्थः । प्रकाशापृथग्भूतावेव प्रवृत्तिनियमावपीति तद्दर्शयति-शब्दादिप्रवृत्त्या 15 शब्दादिनियमेन, तदप्याकाशादि यथा प्रकाशापृथग्भावात् प्रकाश्यते तथा प्रवर्त्यते नियम्यते चेति ।
तद्विस्तरेण पर्यायशब्दान्वाख्यानेन भावयति
अपृथग्भूततत्त्वेनैव सत्त्वेन प्रकाशेन प्रवृत्तिसत्त्वेनानपेक्ष्यया स्वशक्त्या स्वव्यक्तिराविपरिणामिनि सर्वविकारजननशक्तिमत्त्वात् , तथा च मृदः सर्वविकारजननसामर्थेऽपि देशकालाकारनिमित्त प्रतिबन्धानकदा निखिलभावानामभिव्यक्तिः, यथा कुङ्कमस्य काश्मीरेऽभिव्यक्तिः, न पाञ्चालादिषु, निदाघे काले न प्रावृषोऽभिव्यक्तिः, न मृगी 20 मनुष्यं प्रसूते तस्यां मनुष्याकारसामग्रीप्रतिबन्धात् , नापुण्यवान् सुखं भुङ्क्ते, तत्र पुण्यनिमित्तस्यावबन्धात्, एतेषामवबन्धानामपगमे यथा निर्मले दर्पणे मुखस्योपलब्धिस्तथैव यथाभिव्यञ्जकसामग्रीसमवधानं सूक्ष्मतमसूक्ष्मतरसूक्ष्मबृहद्बहत्तरबृहत्तमादिक्रमेण स एव घटः कर्ताऽभिव्यक्तिविषयत्वलक्षणं कर्मत्वमुपैतीति भावः । मृदेव चूर्णपिण्डघटकपालकगाकारपरिणतिपरम्परां क्रमवतीमुद्बहतीत्याह-मृद एवेति । केवलमवस्था एव आविभोवतिरोभावधर्मकाः धर्मी तु कूटस्थनित्य इत्याशङ्कायामाहअवस्थान्तरमात्रेति तथा चावस्थाद्वारेणावस्थाबतोऽपि परिणामशालितया न कौटस्थ्य मिति भावः । कार्येण सम्बद्धमेव 35 कारणं साधकं भवतीति कार्यसत्त्वे एव कारणानां कारणत्वमित्याह-अत एवेति । एवं प्रकाशात्मकं सत्त्वमपि प्रकाशते शब्दादिरूपेणेत्याह-कारणे कार्यस्य सत्त्वादिति । शब्दादीति, शब्दतन्मात्रादिप्रकाशेनाकाशादिप्रकाशो कारणापृथग्भूतो भवति, सूक्ष्माकाशाख्येन स्थूलमाकाशं भवति, तन्मात्रपदेनोपभोगयोग्यसकलविशेषसम्बन्धो व्यवच्छिद्यते, न तु गुणान्तरसंपकः, सर्वस्य त्रिगुणात्मकत्वात् , तामसाहङ्कारात्तन्मात्राण्याविर्भवन्ति तत्र सत्त्वरजस्तमसामपृथग्भूततत्त्वत्वस्य प्रागुपपादितत्वात् प्रकाश एव प्रवृत्तिनियमश्चेत्याशयेनाह-प्रकाशापृथग्भूतावेवेति । प्रकाशात्मकयो रजस्तमसोरिति विकल्पाभ्युपगमात् 30 प्रवृत्तिप्रकाशयोर्नियम प्रकाशयोश्चापृथग्भूतत्वम् , तथा च प्रकाशाद्यात्मकसूक्ष्माकाशेन प्रकाशाद्यात्मकस्थूलाकाशः क्रियत इति भावः । सत्त्वं रजस्तमोभ्यामपृथग्भूततत्त्वमत एव प्रकाशात्मकसत्त्वमेव प्रवृत्त्यात्मकं सत्त्वं तेन खात्मप्रकाशनेऽन्यानपेक्षण खव्यक्तिः क्रियत इत्याह-अपृथग्भूततत्त्वेनैवेति । सत्त्वात् पृथग्भूतो गुणः कश्चिन्नास्त्येवेति सूचयत्येवकार इत्याह-एव
१ सि. पृथक् । २ सि. क. निर्मज्यद० । ३ सि. क. कर्तृरेवकर्तृत्वा० । ४ सि. क. नियतश्च सा० । ५ सि. क, घटे।
द्वा० न० ११ (४९)
_Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org