________________
द्वादशारनयचक्रम्
[विध्युभयारे अथ प्रकाशात्मकयो रजस्तमसोः शब्दात्मना व्यवतिष्ठमानेन तत्प्रख्यातिना सत्त्वेन तदात्मभावाय प्रवृत्तिः प्रख्याप्यते इति विकल्प इष्यते, अप्रकाशात्मकयोरिति च नेष्यते ततो यथैव कारणे कार्यस्य सत्त्वाद्धटेनैव घटः क्रियते तदात्मव्यक्तिप्रतिनियतस्वसाधनक्रमसमावेशाच्च कारणघटेन कार्यघटस्तथाभूतव्यक्तिशक्तिस्थूलतापत्त्याऽभिव्यज्यते, निर्मलदर्पणख5 रूपोपलब्धिवत् कर्मैव सद्वस्तु कर्तृ भवति, मृद एव घटत्वात् कुलालदण्डादीनामत एव तत्साधनत्वात् , वीरणादितोऽकरणात् तथैव सत्त्वेन शब्दादिप्रकाशेनापृथग्भूतप्रकाशादितत्त्वमाकाशादि प्रकाश्यते प्रवर्त्यते नियम्यते च शब्दादिप्रवृत्त्या शब्दादिनियमेन च।
अथ प्रकाशात्मकयोरित्यादि यावन्नेष्यत इति, गतार्थम् , ततो यथैवेत्यादि दृष्टान्तमेव तावत् प्रक्रियाप्रसिद्धमुपवर्णयति-कारणे कार्यस्य सत्त्वाद्धटेनैव घटः क्रियते इति-मृत्पिण्डघटेनोर्ध्वग्रीवकुण्डलोष्ठ10 पृथुकुक्षिबुध्नादिघटः क्रियते-प्रकाश्यते करोतेः प्रकाशार्थत्वात् , यथा पृष्ठं कुरु पादौ कुरु[ महा. भा. १-३
१ सूत्रे ]तञ्च करणं विमलीकरणं प्रकाशनमित्यर्थः कारणे कार्यस्य सत एव प्रकाशनात् , सर्पस्फटाटोपमुकुलत्ववत् दीर्घकुण्डलकीभावत्वं, तत्र यथा सर्पणैव सर्पः क्रियते तथेहापि घटेनैव मृदा पृथुकुक्ष्याचाकाराः क्रियन्ते, अत्यन्तभिन्नेनान्येनान्यस्याकरणात् । किञ्चान्यत् तदात्मव्यक्तिप्रतिनियतस्वसाधनक्रमसमावे
शात्-बटात्मनो व्यक्ति:-प्रागनुपलभ्यस्य पश्चाञ्चोपलब्धिः सा प्रतिनियतानामात्मीयानां कुलालदण्डादीनां 15 तत्क्रमस्य च कालाख्यस्य साधनत्वात् , पिण्डशिवकादिभावेषु यथावस्थं व्याप्रियमाणानां क्रमेण व्यापा
रादित्यर्थः, तदर्शयति-कारणघटेन कार्यघटोऽभिव्यज्यत इति, कथं व्यज्यत इति चेत्-तथाभूत
कार्यकारणयोरभेदाच मृदात्मना घटेनैव घटः क्रियते मृदात्मना विद्यमान एव घटो व्यापारानन्तरं स्वस्वरूपेणाविर्भवति नान्यत् किञ्चिदसत्पद्यत इत्याह-कारण इति । बह्वा धातवो भवन्तीति निरूपणावसरे सर्वतंत्रसिद्धान्तमहाभाष्ये प्रोक्तं 'करोति
रभूतप्रादुर्भावे दृष्टः निर्मलीकरणे चापि वर्तते पृष्टं कुरु पादौ कुरु' इत्युक्तं तदनुसारेण क्रियत इत्यस्य प्रकाश्यत इत्यर्थः कृत 20 इत्याह-क्रियत इति । सर्पशरीरे सत एवागविशेषस्य निःसरतः स्फटाटोपतयाऽऽविर्भावः निविशमानस्यैव मुकुलरूपतया तिरोभावस्तथादीीभावः कुण्डलीभावश्च, न तत्रासतः कस्यचिदुत्पत्तिः किन्तु स्फटाटोपावच्छिन्नः सर्प एव मुकुलावच्छिन्नो भवति, एवं मृदात्मा घट एव पृथुकुक्ष्याद्याकारो घटो भवतीत्याह-सति । यदि मृद्धटयोरत्यन्तमसम्बन्धस्तधुपादानैः कार्यस्यासम्बन्धात् सर्वं कार्यजातं सर्वस्मात् भवेदसम्बद्धत्वाविशेषात् , तस्मात् कार्येण सम्बद्धं कारण कार्यस्य जनकम् । सम्ब
न्धश्च कार्यस्यासतो न सम्भवति तस्मात् सदेव तथा भवतीत्याशयेनाह-अत्यन्तेति । घटेनैव घटः क्रियते इत्यनेनोत्पत्त्यादि25 क्रियाकर्तृतया कार्यस्य प्राक् सत्त्वं सूच्यते, अन्यथा हि उत्त्पत्तेः क्रियात्वेन तस्याः सकर्तृकतया कर्तुरभावे क्रियाया आश्रयरहिताया असम्भवात् घट उत्पद्यत इत्यादिव्यवहारोऽनुपपन्न एव स्यादिति । ननु प्रागपि घटादेः सत्वे कुलालदण्डचक्रसूत्रादीनि साधनानि किं कुर्वन्तीत्याशङ्कायामाह-तदात्मेति, क्रमेण प्रवर्तमानानां साधनानां व्यापारो न घटादिखरूपसिद्धये तत्स्वरूपस्य
दा सत्त्वात, स हि घटः सर्वत्र सर्वदा घट एव, न कदाचिदघटः, तस्मात् त्रिष्वपि कालेषु स सन्नेव, किन्तु आविर्भावे एव, घटादेः कार्यस्याविर्भावो नाम साक्षाद्विज्ञानालम्बनत्वप्राप्तिः लोकेऽपि घटादिवस्तु अन्धकारादिनाऽऽवृतं तत्प्रदीपप्रकाशादिनाऽऽवर30 णतिरस्कारेण विज्ञानविषयत्वं प्राप्नुवत् प्राक्सद्धावं न व्यभिचरति तथात्रापि, इदमिन्द्रियप्रत्यक्षविषयत्वमेव स्थूलत्वमत एवाग्रे
वक्ष्यति स्थूलतापत्त्या-इन्द्रियग्राह्यतयेति । ननु कार्यकारणयोरभेदे खस्मात् खस्योत्पत्तेरसम्भव इत्याशंकायामाह-कारणटेनेति सर्पस्य स्फटाटोपादयः सर्पादभिन्ना एव यथाऽऽविर्भवन्ति तिरोभवन्ति च तथैवाभिव्यक्तिविशिष्टघटादिः कार्यमुच्यते सूक्ष्मावस्थाविशिष्टश्च स एव कारणमुच्यते ततो नासम्भव इति भावः । एतदेवाह
सर्व हि सर्वशक्तिकं सर्वत्र
१ सि. क, घटात्मत्वस्य ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org