________________
३८३
प्रथमविकल्पः]
न्यायागमानुसारिणीव्याख्यासमेतम् एवं प्रकाशाद्यसत्कार्यत्वे सिद्धे सर्वव्यक्तासत्कार्यत्वसाधनम्
असत्कार्याः शब्दादयः कारणत्वात् , अन्यगुणात्मकसुखप्रवृत्त्यादिवत् , सुखं सत्त्वगुणं प्रागसत् प्रवृत्तिनियमकार्य पश्चात्तत् कार्य दृष्टं कारणञ्च तद्वच्छब्दादयोऽसत्कार्याः कारणताश्च बिभ्रति, इतरानुपकृताविद्यमानप्रकाशादित्रयसुखादिकारणवत्, प्रत्येकमितरानुपकृतविद्यमानप्रकाशादित्रयस्वकार्या वा सुखादयः कारणत्वाच्छब्दादिवत्तन्त्वादिवद्वेति पुरुषादिवाद । एवैषः।
(असत्कार्या इति) असत्कार्याः शब्दादयः कारणत्वात्, यद्यत् कारणं तत्तदसत्कार्य दृष्टम् , अन्यगुणात्मकसुखप्रवृत्त्यादिवत्-अन्यो गुणः सत्त्वाद्रजः, तस्यात्मा सुखं तच्च स्वयं साम्यावस्थायां एकप्रकाशात्मकार्यमपि सत् जात्यन्तररजःकार्य प्रवृत्त्यात्मकमारम्भावस्थायामिष्टम् , त्र्यात्मकशब्दाद्यात्मव्यवस्थानवचनात् , तथा नियमानियमात्मकमप्यादिग्रहणात् , अतः सुखं सत्त्वगुणं प्रागसत् 10 प्रवृत्तिनियमकार्य पश्चात्तत्कार्यं दृष्टं कारणञ्च तद्वच्छब्दादयोऽसत्कार्याः कारणताञ्च बिभ्रतीति, एवमन्यगुणदुःखप्रकाशननियमवदन्यगुणमोहप्रकाशप्रवृत्तिवदित्येकैकमेव दृष्टान्तं कृत्वा योज्यम् । एतस्यार्थस्य स्फुटीकरणार्थमाह-इतरानुपकृताविद्यमानप्रकाशादित्रयसुखादिकारणवदिति, इतरेण-रजसा तमसा चानुपकृतौ-प्रागसन्तौ पश्चात्तदुपकारजौ तथा मोहेनापीति । यद्येवं नेष्यते ततः प्रत्येकमितरानुपकृतविद्यमानप्रकाशादित्रयस्वकार्या वा सुखादयः कारणत्वाच्छब्दादिवत्तत्वादिवद्वेति, स्वशब्दादेक- 15 स्यैव सत्त्वगुणस्य त्रयोऽपि प्रकाशादय आत्मीया एव कार्यास्तथेतरयोश्चेति पुरुषादिवाद एवैषः संज्ञामात्रविप्रतिपत्तेरिति । एवं तावदप्रकाशात्मकयो रजस्तमसोः शब्दात्मना व्यवतिष्ठमानेन तत्प्रख्यातिना सत्त्वेन तदात्मप्रख्यापने दोषा उक्ताः ।
__ यदि चैवं सत्कार्यवादस्योक्तत्वात् अमूलत्वप्रसङ्गभयादसत्कार्यवादस्य प्रतिष्ठितमूलत्वप्रसङ्गभयाच नेष्यतेऽयं विकल्पोऽप्रकाशात्मकयोरिति ततः प्रकाशात्मकयोरित्यस्तु, तत्रापि च दोषं वक्तुकाम इदमाह- 20 प्रकाशाद्योxयोरसतोरुत्पत्तिं समर्थयित्वेदानीं तन्निदर्शनेन निखिलव्यक्तकार्येष्वसत्कार्यत्वं वक्ति-असत्कार्या इति, यथा सुखं साम्यावस्थायां प्रकाशात्मकसत्त्वमात्रकार्यमपि वैषम्यावस्थायां प्रवृत्त्यात्मरजःकार्यम् , सुखदुःखमोहात्मकशब्दादेः प्रकाशप्रवृत्तिनियमकार्यत्वस्य शब्दात्मभावाय प्रवर्त्यते प्रकाश्यते व्यवस्थाप्यत इति प्रतिपादनात् तस्मात्तदसत्कार्य प्रवृत्त्यात्मकत्वादेव कारणं तथा शब्दादयोऽपि सुखदुःखमोहात्मकत्वात् प्रकाशप्रवृत्तिनियमात्मकत्वाचासत्कार्य सुखाद्यात्मकत्वात् कारणञ्च प्रवृत्त्याद्यात्मकत्वादिति समर्थयति-अन्यो गुण इति । एवमेवान्यगुणात्मकसुखनियमवदिति दृष्टान्त उक्तरीत्यैव प्रदर्शनीय इत्या-25 चष्टे तथेति । एवं दु:खापेक्षया मोहापेक्षया चान्यगुणदुःखप्रकाशवदन्यगुणदुःखनियमवदन्यगुणमोहप्रकाशवदन्यगुणमोहप्रवृत्तिवदिति दृष्टान्ता वाच्या इत्याह-एवमिति । उक्तदृष्टान्ता मूलकृतैव सूचिता इत्याह-एतस्येति । यदि रजस्तमःसहकारव्यतिरेकेणैव खात्मनि विद्यमानानेव प्रकाशप्रवृत्त्यादीन् सत्त्वं करोतीतीष्यते तर्हि एकस्मादेव सर्वसमुद्भवाङ्गीकारेण पुरुषादिवाद एवायं नाममात्रभेदभिन्न इत्याह-यद्येवमिति, सत्त्वस्य त्रयोऽपि प्रकाशादय आत्मीयाः सत्कार्याः, तथा रजसस्ते तथा, तमसोऽपि ते तथेत्याह-स्वशब्दादिति, प्रकाशादित्रयखकार्या इत्यत्र खशब्दादित्यर्थः । अप्रकाशात्मकयोरिति 30 द्वितीयविकल्पप्रत्याख्यानमुपसंहरति-एवं तावदिति । अप्रकाशात्मकयोरिति विकल्पपक्षे सत्कार्यवादो निर्मूलः स्यात्, असत्कार्यवादः समूलः स्यादिति भयात्तत्त्याग इत्याह-यदि चैवमिति । अथ सत्कार्यवादे कारणे कार्यस्य सत्त्वात्
सि. क. तत्तच्छन्दा०। २ सि. क. मोहोऽपीति ।
Jain Education International 2010_04
For Private & Personal Use Only
www.jainelibrary.org