________________
३६
तर्कतरङ्गिणी [६] ॥ कारणनिरूपणम् ॥ प्रसङ्गात्कारणलक्षणं विचारयति-तेनेति अन्यत्रोपक्षीणत्वमिति अन्यत्र कारणत्वमित्यर्थः । आत्माश्रय इति यस्य लक्षणं क्रियते तस्मिन् लक्षणे तदेव यदि प्रविशति तदाऽऽत्माश्रयः । अत्राहुरिति उदयनादयः । मणिकाराणां मते तिस्र एवेति भावः । (I) प्रासङ्गिकमन्यथासिद्धिनिरूपणम् ।।
अन्यत्रेति यथा घटविशेष प्रति रासभोऽन्यथासिद्धः । सर्वघटान्प्रति तु नियतपदेनैव वारितः। एतद्घटं प्रति तु रासभो नियत एव । एतद्घटनियतत्वं रासभे किमिति चेत्, एतद्घट समानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकरासभवत्त्वम् तच्चस्मिनासभेऽप्यस्ति । एतद्घटधिकरणे भूतले यो योऽत्यन्ताभावस्तस्य प्रतियोगितानवच्छेदकं रासभत्वम् । तत्र रासभस्य विद्यमानत्वात् रासभात्यन्ताभावो नास्ति । तथा चोत्पद्यमानघटविशेष प्रति रासभो नियतपूर्ववृत्तिवृत्तः । ५अत्रेयमन्यथासिद्धिः । -अन्यत्र-घटान्तरे क्लृप्ता या सामग्री नियतपूर्ववर्तिनी दण्डादिरूपा तयैव कार्यसम्भवे तद्घटरूपकार्यसम्भवे तत्सहभूतत्वं दण्डादिसामग्रीसहभूतत्वं रासभादिकमन्यथासिद्धम् । अन्यथैतद्घटं प्रति रासभोऽपि कारणं स्यात् । तथा च तद्वारणमनयाऽन्यथासिद्धया ।
ननु तत्रापि रासभस्यापि कारणत्वं भवत्विति चेत्, न । गौरवात्तस्य कारणत्वप्रतीतेरभावाच्च । गौरवं तु कार्यतावच्छेदकाक्रान्तेत्यत्र क्लृप्ता या सामग्री तयैव घटविशेषस्थले निर्वाहो यदि सम्भवेत्तदा रासभघटिता सामग्री किमर्थं कल्पनीयेति गौरवम् ।
नन्वनया रीत्या दण्डोऽप्यन्यथासिद्धः, अन्यत्र धटादन्यत्र क्लृप्ता या सामग्रीश्वरादिरूपा तयैव घटादिसम्भवेन तत्सहभूतमीश्वरसमवहितं दण्डादिकमन्यथासिद्धमिति चेत्, न । ईश्वरस्य कार्यमा प्रति कारणत्वात् । तथा दण्डाभावसमये घटस्योत्पत्तिः स्यात् । घटर्थिनो दण्डे प्रवृत्त्यनुपपत्तेश्चान्यथासिद्धि दोषोऽप्रामाणिके एव कारणे सम्भवतीति न दण्डोऽन्यथासिद्धः ।
द्वितीयमाह-अन्यं प्रतीति आकाशं घटादिकं प्रत्यन्यथासिद्धम् । येन हि घटादिकं प्रकाश्य कारणत्वं स्वीक्रियते तेनाप्याकाशत्वेन रूपेण कारणत्वं वक्तव्यम् । तथा चाकाशत्वं शब्दसमवायिकारणतावच्छेदकत्वम् । तेन शब्दं प्रति पूर्ववर्तित्वं गृहीत्वैवं(व?) घटं प्रति पूर्ववर्तिता गृह्यते-इति घटादीन्प्रति आकाशोऽन्यथासिद्धः । ननु द्रव्यत्वेन रूपेण कारणताऽऽकाशस्य सिद्ध्यतु, तथा च घटादीन्प्रत्याकाशं कारणं द्रव्यत्वं च कारणतावच्छेदकमिति चेत्, न । द्रव्यत्वस्य
घटकारणतानवच्छेदकत्वात् । घटकारणतावच्छेदकत्वं तु घटकारणतान्यूनातिरिक्तवृत्तित्वम् । द्रव्यत्वं १. B -कारणं विचा. २. B आत्माश्रयत्वमिति. ३. A तद्वत्तस्मिन्. ४. A omits पूर्व. ५. A तत्रे... ६. B omits घट.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org