________________
तर्कतरङ्गिणी
३७
त्वतिरिक्ते परमाण्वादावप्यस्ति । तेन घटादिकं प्रत्याकाशत्वरूपेणाकाशमन्यथासिद्धमित्यर्थः । तथा चान्यं प्रति घटरूपकार्यादन्यं शब्दं प्रति पूर्ववर्तित्वं गृहीत्वैव यं प्रति घटरूपकार्यं प्रति पूर्ववर्तितागृह्यत इति शब्देनाकाशं घटं प्रत्यन्यथासिद्धमिति भावः ।
शङ्कते - नन्विति - आशङ्कार्थो यथा - तथाऽऽकाशस्य शब्द प्रति केन रूपेण कारणत्वम्, यदि शब्दस्य समवायिकारणत्वेन रूपेण तदाऽऽत्माश्रयः । यतः शब्द प्रत्याकाशस्य कारणता पृच्छ्यते, तन्निर्वचने तु शब्दकारणताप्रवेशात् शब्दकारणतायाः पूर्वमज्ञानात् । तथा चानेन रूपेणात्माश्रयः । यदि पृथिव्याद्यष्टद्रव्यातिरिक्तद्रव्यत्वेन, तदाऽनेन रूपेण घटं प्रत्यपि कारणता वाच्यैव । तथा च घटादिकं प्रत्यप्यनेन रूपेण घटादिकारणता सिद्धा वेत्याशङ्कार्थः ।
समाधत्ते - अत एवेति यतो घटादीन्प्रति यथाश्रुतेऽन्यथासिद्धत्वं न सम्भवति । अत एवास्यान्यथासिद्धे स्थले इयं वक्ष्यमाणान्यथासिद्धिरस्मद्' पितृचरणैरभिषिक्ता लिखिता । यथाऽवश्येत्यादि - अस्यार्थः - अवश्यकल्प्यमानं यन्नियतपूर्ववर्ति, तत एव कार्यसम्भवे कार्योत्पत्तौ सत्यां तत्सहभूतमन्यथासिद्धम् । तथा च शब्दं प्रत्याकाशमन्यथासिद्धं न भवति । शब्दं प्रत्यवश्यं कल्प्यमानं यन्नियतपूर्ववर्ति भेरीदण्डसंयोगादिना ताल्वोष्टपुटव्यापारादिकं वा तन्मध्येऽऽकाशमप्यवश्यमेव कल्प्यमेव । तस्य समवायिकारणत्वात् । घटादिकं प्रति त्वन्यथासिद्धमेव । यतो घटं प्रत्यवश्यं कल्प्यमानं यन्नियतपूर्ववर्तिदण्डादिकं तेनैव घटसम्भवे दण्डादिसहभूताकाशमन्यथासिद्धमित्यर्थः ।
शरीरं प्रति त्वाकाशं नान्यथासिद्धम् । तत्र युक्तिमाह-तत्राकाशेति तत्रेति शरीरेऽवश्यं कल्प्यमानमस्त्याकाशम्, यथा पृथिव्यादीनां चतुर्णामवश्यं कल्प्यमानं वर्तते तथाऽऽकाशस्यापीत्यर्थः। शरीरस्य पञ्चभौतिकत्वादिति भावः । अन्यथा शब्दं श्रवणेन्द्रियं न गृह्णीयात् । इन्द्रियस्यापि शरीरावयवत्वेन तद्रूपत्वादिति भावः । तत्सहभूतत्वेनेति घटं प्रत्यवश्यं कल्प्यमानं भवति दण्डादिकम् । तत्सहभूतत्वेनाकाशमप्यन्यथासिद्धम् । न चक्रादिकमपि दण्डसहभूतत्वेनान्यथासिद्धमिति वाच्यम् तस्यापि दण्डवदवश्यं कल्प्यमानत्वात् । प्रत्यक्षादिप्रमाणेनापि कार्यकारणभावग्रहात् ।
अन्यं प्रतीत्यादिका या द्वितीया - याऽवश्यं कल्प्यमानेत्यादिकोऽर्थः । अन्यथाऽऽकाशस्य शब्द प्रत्यपि कारणत्वं न स्यात् । शब्दं प्रत्याकाशस्य शब्दकारणत्वेन रूपेण जनकत्वं वाच्यम् । तथा चात्माश्रयः स्यात् । अष्टद्रव्यातिरिक्तद्रव्यत्वेन रूपेण यदि जनकत्वं स्वीक्रियते, तदाऽनेन रूपेण घटं प्रत्यपि कारणत्वे दोषो नास्तीति घटं प्रति कारणत्ववारणार्थमवश्यंकल्प्येत्यादिकाऽन्यथासिद्धिः । ननु भवतु घटादिकं प्रत्याकाशस्य कारणत्वमिति चेत्, न । प्रामाणिकानां तत्र शब्दं प्रति कारणत्वव्यवहारात्। १. i. e बलभद्र the father of गोवर्धन. २. B चरणेऽभि. ३ A कल्प्यमानत्वम्.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org