________________
३५
तर्कतरङ्गिणी
तथैवेति अनुभवत्वसमानाधिकरण'जात्यवच्छिन्नेत्यादिकमेव विवाक्षतम् । न तु व्याप्यपदमध्येऽनवच्छेदकान्तो व्याप्यभाग इति भावः । इदमिति ज्ञानभागे स्मृतिभिन्नव्यतिरेकेणापि लक्षणस्योपपन्नत्वात् । तेनानुभवत्वसमानाधिकरणेत्यादि वक्ष्यमाणेनैव चरितार्थत्वात् ।
आत्मनि संस्कारे चोक्त लक्षणातिव्याप्तिमुद्धरति-न चेति तथा चात्मनो यद्यप्यात्ममनोयोगरूपव्यापारवत्त्वे सति तद्वति तत्प्रकारकारणत्वं ज्ञानेच्छाजनकत्वं कारणत्वमस्ति, तथाप्यनुभवत्वसमानाधिकरणजात्यवच्छिनकार्यताप्रतियोगिककारणताश्रयत्वं नास्ति । कथमिति चेत्, अनुभवत्वस्य समानाधिकरणो]यो धर्मः ज्ञानत्वरूपस्तदवच्छिन्ना या कार्यता, तत्प्रतियोगिनि 'तन्निरूपितकारणताऽऽत्मनि नास्ति । तत्र ज्ञान वृत्तित्वेनात्मकार्यतावच्छेदकत्वाभावात्ज्ञानत्वस्य कार्यतान्यूनवृत्तित्वात् । यथाऽऽत्मनिरूपितकार्यता इच्छायाम्प्यस्ति, तत्र ज्ञानत्वाभावात् तथा च जन्यज्ञानत्वावच्छिन्नकार्यतानिरूपितकारणताश्रयत्वमप्यात्मनि नास्ति । जन्यज्ञानत्वस्य कार्यतानवच्छेदकत्वात् । यथा दण्डस्य कार्यतावच्छेदकं नीलघटत्वं न भवति । कथमिति चेत्, 'नीलरूपस्य स्वसामग्र्यैव जन्यत्वात् । जन्यज्ञानत्वं तु ध्वंसप्रतियोगित्वे सति ज्ञानत्वम् ध्वंसप्रतियोगित्वं त्वात्मना न जन्यते । तेन तत्र प्रतियोगितावच्छेदकम् । एवं संस्कारेऽपि नातिव्याप्तिः । संस्कारे यद्यपि व्यापारवत्त्वे सति तद्वति तत्प्रकारककारणत्वं वर्तते स्मृतिजनकत्वात् तथाप्यनुभवत्वसमानाधिकरणजात्यवच्छिनकार्यताप्रतियोगिककारणताश्रयत्वं नास्ति । संस्कारस्य स्मृतित्वावच्छिन्नं प्रति कारणत्वात् । स्मृतित्वं चानुभवत्वसमानाधिकरणं न भवति । लक्षणे त्वनुभवत्वसमानाधिकरणजात्यवच्छिनेत्यादि विवक्षितम्।
शङ्कते-न चेति तथा च लाघवाद् ज्ञानत्वसमानाधिकरणजात्यवच्छिन्नेत्यादिकमेव वाच्यम्, ज्ञानत्वस्य जातित्वेन लाघवादित्याशङ्कार्थः ।।
समाधत्ते-ज्ञानत्ववदिति नन्वनुभवस्य जातित्वे किं प्रमाणमिति चेत्, कार्यकारणभावः प्रमाणम् । स्मृतित्वेनानुभवत्वेन च कार्यकारणभावः । तथा च स्मृतिजनकत्वावच्छेदकत्वेनानुभवत्वं जातिः । यथा घटजनकत्वावच्छेदेन दण्डत्वं जातिः । यदाऽनुभवत्वस्थाने ज्ञानत्वपदं तदा संस्कारेऽतिव्याप्ति । यतः संस्कारे-व्यापारे उद्बोधरूपवत्त्वे सति तद्वति तत्प्रकारकत्वेत्यादि विशेष्यभागस्तिष्ठति । अथ च द्वितीयभागो ज्ञानत्वसमानाधिकरणजात्यवच्छिन्न कार्यतानिरूपितकारणताश्रयत्वमप्यस्ति । ज्ञानत्वसमानाधिकरणो यो धर्मः स्मृतित्वरूपस्तदवच्छिनकार्यतानिरूपितकारणताश्रयत्वं संस्कारेऽस्ति । तद्वारणायानुभवत्वपदमिति तेन स्मृतित्वमनुभवत्वसमानाधिकरणं न भवतीति न तत्रातिव्याप्तिरिति प्रमाणलक्षणं पर्यवसन्नम् । १. B जात्यवच्छेदकमेव. २. A -रू पिता कार. ३. A omits तत्र. ४. A ज्ञानत्वस्येश्वरज्ञानवृत्तिः. ५. A नीलरूपसाम. ६. A -धिकरणेत्यादि.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org