________________
३४
तर्कतरङ्गिणी व्याप्तिः । अतिव्याप्तिमेव स्पष्टयति-आलोकत्वेनेति आलोको भवति कारणम् । अन्धकारेतरविषयकचाक्षुषसाक्षात्कारो भवति कार्यः । अवान्तरव्यापारस्तु घटाद्यालोकसंयोग एवेति । तथा चानुभवत्वव्याप्यो धर्मो भवति-अन्धकारेतरविषयकचाक्षुषसाक्षात्कारः तदवान्तरव्यापार: घटद्यालोकसंयोगः आलोकेऽस्तीत्यतिव्याप्तिः । जातिपददाने तु नातिव्याप्तिरित्यर्थ । व्यारपदानुपादान इति तथा च यदि कारणपदार्थमध्यनिविष्टव्यापारपदं न दीयते तदा परामर्शेऽतिव्यातिः । तस्य व्यापरवत्त्वाभावात् करणत्वं नास्ति । तदभावात्प्रमाणमपि परामर्शो न भवति । व्याप्ति ज्ञानस्यैव प्रमाणत्वादिति भावः । लिङ्गपरामर्शोऽनुमानमिति च । वक्ष्यमाणाशयस्तु यदनन्तरमविलम्बन कार्योत्पत्तिः तत्करणमिति 'मतेन ध्येयम् ।
सदोष इति यदि प्रमेत्यत्र 'प्र' पदं न दीयते तदा चक्षुनिष्ठे दोषे पित्तादौ मतान्तरे तद्विशिष्टे चक्षुषि चातिव्याप्तिरित्यर्थः । अनुभवपदानुपादानेऽऽत्मन्यतिव्याप्तिः । तदेव विवृणोति सुखत्वेति सुखत्वं गुणत्वव्याप्या जातिर्भवति । तदवच्छिनकार्यतानिरूपितकारणताश्रयत्वमात्मत्वेनेति [अति]व्याप्तिः स्यात् । अत आह अनुभवत्वेति समानधिकरणेति नैयत्यमिति व्याप्यपदमध्ये व्याप्तिभागोऽपि प्रविष्ठः । यथाऽनुभवत्वव्याप्यत्वमित्यत्र तत्समानाधिकरणात्यन्ताभावप्रतियोगिसामानाधिकरण्यं व्याप्यत्वम् । तथा च व्याप्यगर्भनिविष्ठं यन्नैयत्यम् व्यापकत्वमिति यावत्, तदंशं त्यक्त्वा सामानाधिकरण्यभाग एव ग्राह्यः । यथाऽनुभवत्वव्याप्यो धर्मो भवति शाब्दत्वरूपः, शाब्दत्वेऽनुभवत्वव्याप्यत्वमिदं शाब्दत्वसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकानुभवत्वावच्छिन्नानुभवत्व-समानाधिकरणेत्यादिकः, तथा चानुभवत्वसमानाधिकरणजात्यवच्छिनकार्यतानिरूपितकारणताश्रयत्वे सति प्रभाकरणत्वमिति प्रमाणत्वम् । व्याप्यपदमध्ये व्यापकांशो व्यर्थः । शाब्दत्व समानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकानुभव-त्वावच्छिन्नानुभवत्वार्थो यथा शाब्दत्वं यत्राधिकरणे वर्तते, तत्राधिकरणे वर्तते योऽत्यन्तभावः, शाब्दत्वं वर्तते शब्दज्ञाने जन्ये, तत्र योऽत्यन्ताभावो घटदीनां तस्याभावस्य प्रतियोगितानवच्छेदकं भवत्यनुभवत्वम् । तत्रानुभवत्वस्य विद्यमानत्वाच्च शब्दजन्यज्ञानेऽनुभवत्वस्याभावो नास्ति । यदाऽनुभवस्याभावो नास्ति, तदानुभवत्वप्रतियोग(गि)तानवच्छेदकमेव । यदि शब्दजन्यज्ञानेऽनुभवत्वस्यत्यन्ताभावः स्यात्तदाऽनुभवत्वत्वं प्रतियोगितावच्छेदकं स्यात् । तदवच्छिन्नं भवत्यनुभवत्वम् । तत्सामानाधिकरण्य तदधिकरणाधिकरणत्वमनुभवत्वाधिकरणवृत्तित्वमिति यावत् । इदमेव भवति व्याप्यत्वम् । एतस्मिन् कृत्ये सति गौरवमेव । अनेकपदार्थघटितत्वात् । अनुभवत्वसमानाधिकरणजात्यवच्छिन्नेत्यादिकरणलाघवमिति व्यापक भागो नैयत्यम् । तदा शाब्दत्वसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकानुभवत्वेतिरूपो भागो व्यर्थ इति यावत् । १. B मतेनेति. २. B -भवस्य.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org