________________
m
तर्कतरङ्गिणी सिध्यति, एवं स्नेहसमवाय(यि)कारणतावच्छेदकत्वे जलत्वमपीति । तथाऽनुष्णाशीतस्पर्शत्वावच्छिनकारणतानिरूपितकार्यतावच्छेदकत्वेन पाकजान्यजन्यानुष्णाशीतस्पर्शनिष्ठैकाः जाति समायातु । तथा च पाकजान्यजन्यानुष्णाशीतस्पर्शत्वे कार्यकारणभावः कार्यतावच्छेदकं भवति । पाकजान्यजन्यानुष्णाशीतस्पर्शत्वं तदवच्छिन्नं (नः) भवति जन्यानुष्णाशीतस्पर्शः । तत्समवायिकारणतावच्छेदकत्वेन पृथिवीवायुसाधारणैका जातिरायातु । न च पृथिवीत्यादिना सङ्कर इति । यथा यत्र यत्र पृथिवीत्वं तत्र [तत्र] इयं जातिर्नास्ति । पृथिवीत्वं वर्तते पार्थिवपरमाणौ, तत्रेयं जाति (स्ति) । इयं च जाति वर्तते वायौ तत्र पृथिवीत्वं नास्ति । न च उक्तयोः जात्यो:सङ्करः पार्थिवद्वयणुक इति वाच्यम् । सङ्करेणैतयोर्जात्योर्मध्ये का जाति दूरीकर्तव्या ? पृथिवीत्वं वैषा वेति। एषैवेति चेत् [न]। विनिगमनविरहान्न च पृथिवीत्वजातेरुक्तकार्यकारणभाव एव नियामक इति वाच्यम्। प्रकृतेऽपि जन्यानुष्णाशीतस्पर्शसमवायिकारणतावच्छेदकत्वेन कार्यकारणभावसत्त्वात् । तथा च विनिगमनविरहादुभयोर्न जातित्व् । यदा तूभयोर्जातित्वं स्वीक्रियते तदा सिद्धान्तविरोधः । -इति युक्तया पृथिवीत्वं जातिः खण्डिता । एवमुक्तप्रकारेण कार्यकारणभावं' गृहीत्वा जलत्वादिकमपि खण्डनीयामिति दिक् । (IX ) शब्दप्रमाणे उक्तप्रमाणलक्षणविनियोगः ।
मूले प्रकृते यथा घटसाक्षात्करोमीति प्रतीत्या साक्षात्त्वंजातिरायाति तथा स्वर्ग शाब्दयामीति प्रतीत्या शब्दत्वमपि जातिः । तथा च ज्योतिष्टोमेनेति वाक्ये प्रमाणलक्षणमुक्तं तिष्ठत्येव । लापनं यथाअनुभवत्वव्यापा जातिर्भवति शाब्दत्वं तदवच्छिन्नकार्यतानिरूपितकारणताश्रयत्वे सति प्रमाकरणत्वं ज्योतिष्टोमेनेति वाक्ये वर्तते । (X) शेषप्रमाणत्रयेऽपि विनियोगः ।
एवमनुमितिस्थले-यथा पर्वतो वह्निमानित्यनुमितौ अनुभवत्वव्याप्या जातिरनुमितित्वम् “तदवच्छिन्नकार्यतानिरूपितकारणताश्रयत्वे सति प्रमाकरणत्वं परामर्शस्य व्याप्तिज्ञानस्य चास्ति । तेन प्रमात्वं तस्येति । एवमुपमितिस्थलेऽपि योज्यम् ।
चाक्षुषत्वादिति चक्षुषा घटं साक्षात्करोमीति प्रतीत्या चाक्षुषत्वनुभवत्वव्याप्या जातिः । एवं रासभत्वादावपि योज्यम् । (XI) प्रमाणलक्षणपरीक्षा ।
धर्मपदोक्ताविति यद्यनुभवत्वव्याप्यधर्मावच्छिनेत्याधुच्यते तदा आलोके "प्रकाशेऽति१. B omits कार्यकारणभावः. २. B omits कार्य. ३. A omits प्रकृते. ४. B omits the reading between तदवच्छिन्न............प्रमात्वं. ५. B omits प्रकाशे. तर्क.-५
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org