________________
३२
तर्कतरङ्गिणी घटाभावज्ञानं न भवतीति वा । ततो घटवृत्तित्वविशिष्टसत्ता पटे नास्तिति प्रतीतिः समवायसम्बन्धेनापादयितुमशक्या । समवायसम्बन्धेन च सत्ता पटादौ वर्तत एव । तथा च घटवृत्तित्वविशिष्टा सत्ता पटे नास्तीति प्रतीत्यन्यथाऽनुपपत्तया तादृशसम्बन्धः स्वीकर्तव्य एव । स च सम्बन्धो घटतिरिक्तो नास्ति । वर्तते च यावत्घटमात्रे । तथा येन सत्तायाः समवायसम्बन्ध: स्वीक्रियते तेनाप्ययं सम्बन्ध: स्वीक्रियत एव । तेनायं सम्बन्धः सर्वजनसिद्धो वृत्तः । अनेन च सम्बन्धविशेषेण सत्तैव घटत्वमिति ।
सम्बन्धार्थो-यथा घटे वर्तते या सत्ता, अत्र घटो भवत्याधारः सत्ता' भवत्याधेया; तथा च घटनिष्ठाधारता, सत्तानिष्ठाधेयता । तेन घटाधारतानिरूपिकार्या सत्ताया वर्तते आधेयता तन्निरुपितघटनिष्ठा याऽऽधारता-स एव सम्बन्धः । तेन सम्बन्धेनघटनिष्ठाधारता सम्बन्धेन सत्तैव घटत्वम्, सा पटे नास्ति । पटे तु भिन्नैवाधारता । न च घटनिष्ठाधारतैव पटे कथं नास्तीति वाच्यम् । घटवृत्तित्वविशिष्टा सत्ता पटेऽस्तीति प्रतीति(त्ते)रभावात् । पटादौ साऽऽधारता न स्वीकर्तव्या । एवं पटत्वादिकमपि सत्तैव जातिः।
अयं प्रघट्टार्थः-सत्तानिष्ठो य आधेयताविशेषो घटनिष्ठाधारतानिरूपकः तन्निरुप्य() या 55 धारता घटे तिष्ठति, सैव दण्डजन्यतावच्छेदिका घटत्वशब्दवाच्या घटत्वं जातिः । अतिरिक्तपदार्थकल्पने मानाभावात् । एवं घटपयदिशब्दपुरस्कारेणाधारता विशेषणसत्तैव घटत्वम् ।
ननु यदि सत्तैव घटत्वं तदा सत्ताविशिष्टवद्भूतलमिति ज्ञाने जाते घटाभाववद्भतलमिति ज्ञानं न स्यात् । घटत्वविशिष्टस्य घटस्य यत्र भूतले ज्ञानं तत्र भूतले घटाभावज्ञानं न भवति । भवन्मते तु सत्तैव घटत्वम् । तथा च सत्ताविशिष्टवद्भूतलमिति ज्ञाने घटाभावज्ञानं न स्यादिति चेन्न । तेन सम्बन्धेन "सत्ताविशिष्टं ज्ञानं यदि जातम्, तत्रेष्टापत्तिः । प्रतिबन्धकस्य घटज्ञानस्य सत्त्वाद् यदि समवायसम्बन्धेन सत्ताविशिष्टत्वमापाद्य घटाभाव आपाद्यते, तदा तु घटाभावज्ञानं जायत एवेति सत्तैव घटत्वम् ।
ननु यदि सत्तैव घटत्वं तदा पयदितो व्यावृत्तिः कथं भविष्यति, पटादावपि सत्तायाः वृत्तेरिति चेत्, न । उक्तसम्बन्धेन घटवृत्तित्वविशिष्टा सत्ता पटे नास्तीति तेनैव सम्बन्धेन सत्तयैव पटदितो व्यावृत्तिः।
इति सत्तातिरिक्तजातिखण्डनप्रकारः । अन्योऽपि प्रकारो यथा-ननु यथा गन्धसमवायिकारणतावच्छेदकत्वेन पृथिवीत्वं जातिः १. B सत्ताधेया. २. एवं पटादि. ३. B सैव. ४. B -विशिष्टज्ञानं. ५. A पटाभाव. ६. B व्यावृत्तेः. ७. B गन्धे-.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org