________________
तर्कतरङ्गिणी मानोपमानशब्दास्तेष्वनुभवत्वेत्यादि लक्षणं विद्यते इत्यर्थः । 'शाब्दत्वादीनिति ननु प्रत्यक्षत्वं कथं व्यक्तमिति चेत्, प्रत्यक्षस्येश्वरज्ञानसाधारणत्वेन कार्यतानवच्छेदकत्वात् । नित्यवृत्तिधर्मस्तु कार्यतावच्छेदको न भवतीति जन्यप्रत्यक्षत्वेनेति चेत्, न । जन्यप्रत्यक्षत्वस्योपाधित्वेन जातित्वाभावात्। तथा च प्रत्यक्षत्वमपि जातिर्न भवति, प्रमाणाभावात् । तेन प्रत्यक्षजन्यप्रत्यक्षत्वयोः जात्याभावाल्लक्षणागमनेन तत्प्रकृतमिति भावः । चाक्षुषत्वमादिधर्ममादायाने लक्षणं योजयतिशाब्दत्वेति 'ज्योतिष्टोमेन स्वर्ग कामो यजेत'-इति वाक्यं प्रमाणं भवति । स्वर्गसाधनं याग इति शाब्दबोधः । एतनिष्ठा या शाब्दत्वजातिः, साऽनुभवत्वव्याप्या भवति । यत्र यत्र शाब्दत्वं तत्र तत्रानुभवत्वमिति तदवच्छिना या कार्यता, तन्निरूपिता या कारणता सा 'ज्योतिष्टोमेन स्वर्गकामो यजेत' इत्यत्र वाक्ये वर्तते । अथ च तत्र प्रभाकरणत्वमप्यस्ति । तत इदं वाक्यं प्रमाणम् ।
ननु शाब्दत्वजातौ किं प्रमाणामिति चेत् प्रतीति रेव प्रमाणम् । तथाहि स्वर्ग शाब्दयामि शब्देन जानामीत्यर्थः । यथा घटं साक्षा[त्]करोमीति प्रतीत्या साक्षात्त्वं जाति: सिध्यति तथा शाब्दत्वमपि। न च साक्षात्त्वं सखण्डोपाधिर्भवतु, स चेन्द्रियजन्यत्वरूप एवेति वाच्यम् । ईश्वरज्ञाने साक्षात्त्वं न स्यात्। तस्य नित्यत्वेनेन्द्रियाजन्यत्वात् । न चाखण्ड एवास्तु । प्रमाणाभावादपसिद्धान्ताच्च । मीमांसकैरखण्डत्व(त्वा?) स्वीकारात् । यत्र जात्यङ्गीकारे जातिसङ्करादिकं बाधकं तिष्ठति तत्रोपाधिः कल्पनीयः । प्रकृते तु बाधकाभावात्साक्षात्त्वं गुणत्वावान्तरजातेरेव बाधकाभावेऽपि यदि जातित्वं नाङ्गीक्रियते, तदा “घटत्वादीनामपि जातित्वं न स्यात् । (VIII) प्रासङ्गिकः जातिविचारः ।
प्रसङ्गाज्जाति विचार्यते । ननु घटत्वादिकं न जाति:, सत्तयैव सर्वत्र निर्वाहात् । कथमित चेत्, सत्तानिष्ठाधेयताविशेषनिरुपिताधारात् सम्बन्धेन घटे वर्तते या सत्ता सैव घटत्वम् । अनेन सम्बन्धेन घटमात्रवृत्तित्वात्सत्तायाः पटादौ च या सत्ताविषयिणी प्रतीतिः सा तु समवायसम्बन्धेन घटे च पूर्वोक्तसम्बन्धेन । ननु पूर्वोक्तस्य सम्बन्धत्वे किं मानमिति चेत्, प्रतीतिरेव । घटवृत्तित्वविशिष्टा सत्ता पटे नास्तीति प्रतीत्या तादृशसम्बन्धलाभात् । न च समवायसम्बन्धेनैव घटवृत्तीत्यादिप्रतीतिसिद्धौ किं सम्बन्धान्तरकल्पनयेति वाच्यम् । तथा च समवायसम्बन्धेन घटवृत्तित्वेत्यादि प्रतीतिरेव न स्यात् । तेन सम्बन्धेन पटादावपि सत्तावृत्तेः । येन हि सम्बन्धेन यद्वस्तु यत्र वर्तते तेन सम्बन्धेन तत्र तदभावज्ञानं न भवतीति । यथा संयोगसम्बन्धेन यत्र भूतले घटो वर्तते तत्र भूतले संयोगसम्बन्धेन १. A शाब्दत्वादिति. २. A reads this footnote here -प्रत्यक्षत्वं जातिर्न भवति । साक्षात्त्वेन तुल्यत्वात् । घटत्वजात्यपेक्षया कलशत्ववत् साक्षात्पर्यायात्प्रत्यक्षस्य । ३. B -त्यक्षेण जन्य. ४. Pl. add व्युत्पाद्यमेवास्तीति शाब्दत्वधर्ममादाय लक्षणं. ५. B त्वमुपा. ६. B रादि बा. ७. B गुणत्वान्तर. ८. B पृथीवित्वादी. ९. B पूर्वोक्तसम्ब. १०. A भवति.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org