________________
३०
तर्कतरङ्गिणी ऽत्यन्ताभावो' घटत्वादीनां तदप्रतियोग्यनुभवत्वं तेन चाक्षुषत्वं व्याप्यम्, अनुभवत्वं व्यापकम्; व्यापकेन सह सामानाधिकरण्यमेव व्याप्यस्य । यत्र व्याप्यं तत्रावश्यं व्यापकमिति । यथा यत्र धूमस्तत्र वह्निः,२ तथा च प्रकृते घटोऽयमिति चाक्षुषज्ञानेऽनुभवत्वव्याप्याजातिः चाक्षुषत्वरूपा, तयाऽवच्छिद्यते-अन्यतो व्यावर्तते या कार्यता-घटोऽयमिति 'चाक्षुषज्ञाननिष्ठा कार्यता तथा निरूपप्यते इति तन्निरूपिता या चक्षुनिष्ठा कारणता तस्या आश्रयत्वे सति-यतः कारणताया आश्रयः चक्षुःस, अत एव तदाश्रयत्वे सति चक्षुषः प्रमाकरणत्वमिति।
ननु तत्कार्यतायाः कथं कारणतानिरूपकत्वमिति चेत्, न । कार्यताज्ञानव्यतिरेकेण कारणताज्ञानाभावात् । कार्यता' श्रयं भवति कार्यम्, तेन कार्य प्रति यदनन्यथासिद्धत्वे सति नियतपूर्ववर्तित्वं तदेव कारणता । सा क(य) दा गृह्यते तदा कार्यताश्रयत्वं गृहीत्वं भवति । अन्यथा कं प्रति कारणता ग्राह्या स्यात् ? अतः कार्यतानिरूपितकारणतेति । निरूपकत्वं च स्वरूपसम्बन्धविशेषो निरूप्यत्वमपि । तथा प्रतियोगित्वानुयोगित्ववत् यत्र पदार्थान्तरकरणे प्रमाण नास्ति तत्र स्वरूपसम्बन्धविशेष उच्यते ।।
पूर्वोक्तमात्मादावतिव्याप्तिमुद्धरति आत्मादाविति आत्मा तु प्रमाणं न भवति । कथमिति चेत्, अनुभवत्वव्याप्यजात्यवच्छिन्नकार्यतानिरूपितकारणता श्रयत्वाभावात् । आत्मनि या प्रमा प्रतिकारणताऽस्ति', सा तु जन्यज्ञानत्वावच्छिन्नकार्यतानिरूपिता भवति । यतो जन्यकार्यत्वेन कार्यताऽऽत्मत्वेन कारणतेति कार्यकारणभावः । जन्यज्ञानत्वं च नानुभवत्वव्याप्यम् । यत्र यत्र जन्यज्ञानत्वं तत्र तत्रानुभवत्वमिति नास्ति । स्मृतौ व्यभिचारात् । अथवा जन्यानुभवत्वेन कार्यताऽऽत्मत्वेन कारणता । अथवा जन्यात्मविशेषगुणत्वेन कार्यताऽऽत्मत्वेन कारणतेति अत्राप्यनुभवत्वव्याप्यत्वं जन्यानुभवत्वेऽपि नास्ति । यतो व्याप्यत्वं भेदगर्भम्, येन यत्रानुभवत्वं तत्रानुभवत्वमिति भावात् । अभेदे तु व्याप्यव्यापकभावः । तत्रैव यत्रान्यथाव्याप्यव्यापकाभावः यथाअयं वृक्षः शिंशपात्वात् । शिशपावृक्षयोरभेदेऽपि व्याप्यव्यापकभावस्वीकार इति । अथवाऽऽत्मत्वेन कारणता, जन्यात्मविशेषगुणत्वेन कार्यता । एतयोरुपाधित्वान्नात्मन्यव्याप्तिरिति भावः । एतदेवाहजन्यज्ञानत्वेनेति. (VII) उक्तलक्षणस्य प्रमाणेषु विनियोगः ।
उक्त) प्रमाणेषु चक्षुरादिष्विदं लक्षणं योजयति । प्रमाणेष्विति प्रमाणानि प्रत्यक्षानु
१. A चाक्षुषत्ववति योऽत्य. २. A अग्नि:. ३. B चाक्षुषनिष्ठा. ४. A omits तया. ५. B - श्रयः. ६. A यदा. ७. Bomits अस्ति. ८. B व्याप्यत्वजन्यानु.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org