________________
२९
तर्कतरङ्गिणी कार्योत्पत्तिस्तत्कारण' मिति लक्षणं पर्यवसन्नम् । (V) फलायोगव्यवच्छिन्नं कारणं करणमितिमत निरासः ।
ततः फलायोगव्यवच्छिन्नं कारणं करणमिति व्याख्या तन्न । इन्द्रियसन्निकर्षादिनामपि कारणत्वसम्भवात् कारणत्वग्राहकौ चान्वयव्यतिरेकावेव । तौ च यथेन्द्रियादीनां स्तस्तथा सन्निकर्षादीनामपि । तेन विनिगमनाविरहादिन्द्रियादि-वत्सन्निकर्षादीनामपि कारणत्वर्मा (मिति ?) । न च पूर्वोक्तं लाघवमेव विनिगमकमिति वाच्य तदा दण्डसंयोगादीनामप्यकारणतापत्तिस्तथा चात्र प्रामाणिकमते गौरवम् । न चेन्द्रियादीनामकरणत्वं स्यात् । इन्द्रियसंयोगादिविलम्बन कार्यविलम्बादिति । न चेन्द्रिय विलम्बेने-न्द्रिये सत्यपि कार्यानुदयादिति वाच्यम् । व्यापारवत्कारणस्यैव करणत्वमिति स्थाप्यत्वात् । एतदेवाह व्यापारवत्त्वस्येति । (VI) प्रमाणस्य निष्कृष्टलक्षणम् ।
प्रमाणस्यैवेदं निष्कृष्टं लक्षणमाह-अनुभवत्वेति अनुभवत्वस्य व्याप्या या जातिः, तदवच्छिन्ना या कार्यता, तया निरूपिता या कारणता तस्या आश्रयत्वे सति प्रमाकरणत्वम् । उदाहरणं यथा घटोऽयमिति चक्षुषा यत्र प्रमारूपं ज्ञानं जातं तत्र चक्षुर्भवति प्रमाणम् । तत्रेदं लक्षणं योज्यते यथा घटोऽयमिति प्रमारूपे ज्ञानेऽनुभवत्वस्य व्याप्या जातिः चाक्षुषत्वरूपा। कथमिति चेत्, अनुभवत्वव्याप्यत्वं चाक्षुषत्वस्येदम् । तथाहि चाक्षुषत्वसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदकावच्छिनानुभवत्वसामानाधिकरण्यमनुभवत्वस्य व्याप्तम् ।
अस्यार्थो यथा चाक्षुषत्वसमानाधिकरणो योऽत्यन्ताभावः-घटत्वादीनामत्यन्ताभावस्तस्य प्रतियोगितानवच्छेदकमनुभवत्वम् । अनुभवत्वं तु व्यापकम्, अनुभवत्वं तु व्यापकतावच्छेदकम् तदवच्छिन्नं भवत्यनुभवत्वम् । तेन सह सामानाधिकरण्यं चाक्षुषत्वे वर्तते । सामानाधिकरण्यं नाम एकाधिकरणवृत्तित्वम् । “यथा घटत्वद्रव्यत्वयोः६ सामानाधिकरण्यम् । घटरूपे घटत्वद्र व्यत्वयोः सत्त्वात् । तद्वत् चाक्षुषत्वानुभवत्वयोरेकाधिकरणवृत्तित्वेन सामानाधिकरण्यम् । यथाऽनुभव-त्वाधिकरण्ये चक्षुर्जन्ये ज्ञाने चाक्षुषत्वानुभवत्वयोः सत्त्वात् सामानाधिकरण्यम्, तथा चात्रानुभवत्वं भवति व्यापकम्, चाक्षुषत्वं भवति व्याप्यम् यत्र यत्र चाक्षुषत्वं तत्र तत्रानुभवत्वम् । यत्र यत्रानुभवत्वं तत्र तत्र' चाक्षुषत्वं नास्ति । अनुभवस्यानुमितौ सत्त्वेऽपि चाक्षुषत्वाभावात् । तथा च व्यापकत्वं नाम तन्नित्यन्ता भावाप्रतियोगित्वम् । तच्छब्देन यद् व्यापकत्वं यत्र ग्राह्यं स तत्र ग्राह्यस्तथा च प्रकृते चाक्षु पस्य व्यापकत्वमनुभवे, तथा चात्र शब्देन चाक्षुषत्वं ग्राह्यम् । तेन चाक्षुषत्वविषयो१. B -कारणमिति. २. B दिग्सं. ३. B चाक्षुषज्ञाने यत्र. ४. B -तानव. ५. B न यथा. ६. B घटघटत्वयोः. ७. B घटद्रव्यत्वयोः. ८. B तत्राचा. ९. A omits यद्. १०. B व्यापकमनु.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org