________________
२८
तर्कतरङ्गिणी तेनैव सम्बन्धेन यो जले गन्धानुभवस्तस्य प्रमात्वमिति न तु समवायसम्बन्धेन, तत्सम्बन्धपुरस्कारेण तत्रावर्तमानत्वात् । मूलकारोऽपि तत्सम्बन्धपुरस्कारेणेत्यस्य पदकृत्यमाह-समवायेनेति तथा च समवायसम्बन्धेन जले यदि गन्धज्ञानम्, तत्र नातिव्याप्तिः । समवायसम्बन्धपुरस्कारेण तत्रजले गन्धस्य वर्तमानत्वात् । वर्तते च संयुक्तसमवायपुरस्कारेणेति । स तु संयुक्तसमवाय'स्यैवोढेंकनात् । यदनवच्छेतेनेति कृत्यं मूलकारः प्राह-इदानीमश्याम इति यदि यदनवच्छेदेनेदं पदं न दातव्यं तदेदानीं श्याम इत्यत्र पूर्वकाले य: श्याम आसीत् तत्रेयं प्रतीतिः-इदानीं श्याम इति भ्रम एव । तत्रातिव्याप्तिः । तत्र यत्सम्बन्धपुरस्कारेण श्यामत्वस्य समवायसम्बन्धपुरस्कारेण यत्र यत्सम्बद्धं घटे श्याम (श्यामत्वं ?) सम्बद्धं तत्सम्बद्धश्यामत्वस्य समवायसम्बन्धपुरस्कारेण तदनवच्छेदेनैव फलानवच्छेदेन 'तत्र घटे तदनुभवस्य श्यामत्वानुभवो नास्ति । घटे तु श्यामत्वसम्बन्ध एतत्कालानवच्छेदेनानुभवस्तु भ्रमे पूर्वोक्ते इदानीं श्याम इति रूपे एतत्कालानवछेदेनेति वृत्तौ वृत्तौ-इत्यर्थोऽपेक्ष्यते तु। एतत्कालानवच्छेदेनेति क्रियेति कार्यमित्यर्थः । (IV) इन्द्रियस्य प्रमाकरणत्वम् ।
___ व्यासङ्गेति प्राचीनमते इन्द्रियं ज्ञानं प्रमा प्रति करणम् । एवं व्यासङ्गदशायां यदा मनसा समं चक्षुरिन्द्रियादीनां संयोगो नास्ति, तदेन्द्रिये सत्यपि प्रमा नोत्पद्यत इत्यर्थः । इन्द्रियसन्निकर्षे तु सत्यविलम्बेन प्रमोत्पत्तेरिन्द्रियसन्निकर्षस्यैव कारणत्वं स्यात् । तदिन्द्रियादीनां सिद्धान्ते चेन्द्रियादीनामेव करणत्वस्वीकारात् । नन्विद्रिये सत्यविलम्बेनैव कार्योत्पत्तिर्जायते । यथा (दा) घटेन समं चक्षुरिन्द्रियादिसंयोगो वर्तते, तदा चक्षुरिन्द्रियादिना घटविषयकं प्रत्यक्षमविलम्बेनैव जन्यते। न च सन्निकर्षस्यैव कारणत्वमायात्विति वाच्यम् । प्रमा प्रति जनकत्वे प्रमाणाभावात् । न च प्रमोत्पत्तिरेव प्रमाणमिति वाच्यम् । संयोगादिसम्बन्धेनैवेन्द्रियादीनां कारणत्वात् । न तु सम्बन्धस्यापि कारणत्वम्। [यदि]सम्बन्धस्यापि सम्बन्धः कल्पनीयस्तदा चानवस्था स्यादिति येनापि सन्निकर्षस्य कारणता स्वीक्रियते तेनापि चक्षुरिन्द्रियादीनां प्रमा प्रत्यवश्यं जनकत्वं स्वीक्रियते एव । तथा चासम्बन्धिनोऽकारणत्वात्तेषां सम्बन्धो वक्तव्य एवेति । ततो विशेष्ये एव घटप्रमा प्रति चक्षुर्घटसंयोगादिसम्बन्धेन चक्षुरादीनां कारणत्वम् । तथा च चक्षुरादीनां च घटदिसंयोगादिना सम्बन्धेन कारणत्वमावश्यकम्। तथा चावश्यकत्वाल्लाघवाच्च प्रमा प्रति चक्षुरादीनां कारणता तेन यद्व्यापरानन्तरमविलम्बेनैव
१. A गन्धस्यावर्तमानत्वात् । But here the writer wants to prove the absence of गन्ध in water by समवायसम्बन्ध using the hypothetical reasoning (तर्क), he accepts गन्ध in water by समवाय for the time being. २. B -वायस्योट्टं.. ३-४. The order of these two प्रतीकs is reverse in the available text of त.भा.प्र. ५. B घटेन. ६. B पूर्वोक्ते एतत्कालानवच्छेदेनेति वृत्तावपेक्ष्यते । एतत्का. ७. B omits एव. ८. B omits एव. ९. B इति. १०. A चक्षुसंयोगादी.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org