________________
तर्कतरङ्गिणी तदनुभवस्य-घटत्वानुभवस्य प्रमात्वमित्यर्थः । घटे पटादीनामनवच्छेदकत्वाद् घटत्वस्य समवायसम्बन्धेन वृत्तित्वाच्चेति योजना ।।
__ आदितः पदकृत्यं यथा-यदनवच्छेदेनेत्यस्य त्यागे यत्र घटः पूर्वं श्यामः स्थितस्तस्य रक्ततादशायामिदानीं श्यामोऽयमिति ज्ञानेऽतिव्याप्तिः । तत्रापि यत्सम्बन्धपुरस्कारेणसमवायसम्बन्धपुरस्कारेण श्यामत्वस्य घटेन सह समवायसम्बन्धः । तेन सम्बन्धनेन यत्र घटे यच्छयामत्वं तेन सम्बद्धो भवति घटः । 'तत्पदेन यत्किञ्चिद्ग्राह्यं यत्-पदस्यानुक्तत्वात् तदनवच्छेदेनपूर्वकालानवच्छेदेन तत्सम्बन्धपुरस्कारेण-समवायसम्बन्धपुरस्कारेण तत्र घटे तदनुभवस्यश्यामत्वानुभवस्य प्रमात्वं स्यात् । तद्वारणार्थ यदनवच्छेदेनेति । तथा च यदनवच्छेदेन यत्सम्बन्धं तदनवच्छेदेन तदनुभवाभावान्नातिव्याप्तिः । श्यामत्वं त्वेतत्कालानवच्छेदेन घटसम्बद्धम्। तस्य चैतत्कालानवच्छेदेनैव पूर्वभ्रमदशायामनुभवात् । तेन नातिव्याप्तियत्सम्बन्धपुरस्कारेणेत्यस्य पदकृत्यं-यथा यत्र शुक्तौ रजतज्ञानं जातं तत्रातिव्याप्तिः । तत्रापि यदनवच्छेदेन-घटत्वाद्यनवच्छेदेन यत्र यत्सम्बद्ध-शुक्तौ रजतत्वसम्बद्धं तत्र तदनवच्छेदेनघटत्वाद्यनवच्छेदेन, तत्सम्बन्धपुरस्कारेणसमवायसम्बन्धपुरस्कारेण, तत्रशुक्तौ तदनुभवस्यरजतत्वानुभवस्य प्रमात्वं स्यादत आह-यत्सम्बन्ध पुरस्कारेणेति तथा च यत्सम्बन्धपुरस्कारेण-समवायसम्बन्धपुरस्कारेण शुक्तौ रजतस्य सम्बन्धाभावान्नातिव्याप्तिः । समवायसम्बन्धेन शुक्तौ रजतत्वं नास्त्येवेति भावः ।
तदनवच्छेदेनेति पद कृत्य-अयं घट इत्यत्र 'पटे यत्र यत्र घटभ्रमो जातस्तत्रातिव्यातिः । यतस्तत्रापि यदनवच्छेदेन-पटत्वाद्यनवच्छेदेन यत्सम्बन्धपुरस्कारेण-समवायसम्बन्धपुरस्कारेण यत्र-पटे यत्सम्बन्धं घटत्वसम्बन्धं तत्सम्बन्धपुरस्कारेण समवायसम्बन्धपुरस्कारेण तत्र पटे तदनुभवस्यघटत्वानुभवस्य प्रमात्वरूप लक्षणस्य सत्त्वादतिव्यप्तिः । तदनवच्छेदेनेति पददाने तु यदनवच्छेदेन-पटत्वाद्यनवच्छेदेन घटत्वं सम्बद्धम्, तदनवच्छेदेन पटत्वाद्यनवच्छेदेन घटत्वाभावात् । तथा च यदनवच्छेदेन घटत्वं सम्बद्धं तदनवच्छेदेन तज्ज्ञानं जातमिति तत्सम्बन्धपुरस्कारेणेत्यस्य पदकृत्यम्-यथा गन्धवद् जलमित्यत्र समवायसम्बन्धेन गन्धस्य जले प्रतीतिर्जाता तत्रातिव्याप्तिः । यतस्तत्र यदनवच्छेदेन-पृथिवीत्वाद्यनवच्छेदेन यत्सम्बन्धपुरस्कारेण गन्धः सम्बद्धः, तदनवच्छेदेनपृथिवीत्वाद्यनवच्छेदेन तत्र जले तदनुभवस्य-गन्धानुभवस्य प्रमात्वं स्यात् । अत उक्तं'तत्सम्बन्धेनेति - तथा च जले यत्सम्बन्धपुरस्कारेण गन्धः सम्बद्धः तत्सम्बन्धपुरस्कारेण गन्धानुभवस्य प्रमात्वं न त्वन्यसम्बन्धपुरस्कारेणेति । गन्धस्तु संयुक्तसमवायेनैव जले सम्बद्धमिति १. B omits the reading between तत्पदेन..........नुक्तत्वात्. २. A यत्र वत्स. ३. A -कारेणेति पद. ४. B घटे. ५. A पदादाने. ६. A गन्धेन गन्धस्य. ७. A adds यत्र जले यत्सम्बद्धो-after पुरस्कारेण. ८. A तत्सम्बन्धेति.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org