________________
तर्कतरङ्गिणी
गन्धप्रकारकत्वेसति स्मृतिव्यतिरिक्तज्ञानत्वं गन्धमिति ज्ञानस्य सत्त्वादतिव्याप्तिरित्यर्थः । दोषान्तर'तत्रैवाह-अपि चेति यस्मिन्घटे पूर्वं श्यामं रूपं स्थितम्, तदनन्तरं पाकेन रक्तं रूपं जातं तद्दशायांरक्ततादशायामिदानीं श्याम इति भ्रमेऽतिव्याप्तिः । तत्रापि श्यामत्वसम्बन्धवति घटे श्यामत्वप्रकारकत्वे सति स्मृतिव्यतिरिक्तज्ञानत्वादित्यर्थः ।
२६
विद्यमानतेति इदानीं प्रकारस्याभावान्नातिव्याप्तिरिति भावः । प्रकारस्य विद्यमानताविवक्षायां दोषमाह-४ अश्याम इति रक्ततादशायामश्यामोऽयमित्येका प्रतीतिरपरा च पूर्वं श्याम इति । अनयोः प्रतीत्यो र्प्रमारूपयोः अप्रमात्वं स्यादित्यर्थः । पूर्वं श्यामोऽयमितिप्रतीतौ श्यामत्वस्य विद्यमानत्वाभावात् । तथा च प्रकारस्य विद्यमानताऽपि न युक्तेति भावः ।
न च (नु) प्रथमप्रतीतेः कथमप्रमात्वमिति चेत्, न । अश्याम इत्यत्रापि श्यामत्वं प्रकारः, तस्य ज्ञानकाले विद्यमानत्वाभावादप्रमात्वमित्यर्थः यत इदानीं श्याम इति ज्ञाने एतत्कालावच्छेदेन श्यामत्वस्य भानादप्रमात्वम् । श्याम इत्युक्ते कालस्यानवच्छेदकत्वात् 'यत्र कालोऽवच्छेदको नास्ति तत्र प्रतीतिः प्रमैव । यद्यप्येतत्कालावच्छेदेन' श्यामत्वं नास्ति, तथापि पूर्वकालावच्छेदेन श्यामत्वस्य स्थिते: प्रमैवेति भावः ।
लक्षणस्य निष्कर्षमाह - यदनवच्छेदेनेति यदनवच्छेदेन यत्र यत्सम्बद्धमथ च यत्सम्बन्धपुरस्कारेण यत्र यत्सम्बद्धं तदनवच्छेदेन तत्सम्बन्धपुरस्कारेण च तत्र तदनुभवस्य प्रमात्वम् । तदनवच्छेदेनेत्यस्य यदनवच्छेदेनं सममन्वयः, तत्सम्बन्धपुरस्कारेणेत्यस्य यत्सम्बन्धपुरस्कारेण सममन्वयः । तथा च यदनवच्छेदेन यत्कालानवच्छेदेन यत्र यत्सम्बद्धं तत्कालानवच्छेदेन तत्र तदनुभवस्य प्रमात्वम् । यथा पूर्वं श्याम इत्येतत्कालानवच्छेदेन श्यामत्वसम्बद्धे भवति घटः । एतत्कालानवच्छेदेनैव तत्र घटे तदनुभवस्य - श्यामत्वानुभवस्य प्रमात्वमेव । एतत्कालावच्छेदेन तु श्यामत्वग्रहस्तु भ्रम एव सम्पूर्णलक्षणयोजना । यथेदानीं रक्तो घट इति प्रमाज्ञानम् । तत्रेदं लक्षणयोजनम् । तथा च यदनवच्छेदेनेत्यत्रोदाहरणे यत्पदेन पूर्वकालो ग्राह्यः । तथा च पूर्वकालानवच्छेदेन यत्सम्बद्ध रक्तत्वसम्बद्धो घटः, तदनवच्छेदेन- पूर्वकालानवच्छेदेन यत्सम्बन्धपुरस्कारेण - समवायसम्बन्धपुरस्कारेण रक्तत्वसम्बद्धो घटः । तत्सम्बन्धपुरस्कारेण - समवायसम्बन्धपुरस्कारेण घटोऽयमित्यत्र च यदनवच्छेदेन - पटत्वाद्यनवच्छेदेन तत्सम्बद्धः-घटत्वसम्बद्धो घटः । अद्य अथ यत्सम्बन्धपुरस्कारेण समवायसम्बन्धपुरस्कारेण यत्सम्बद्धः घटत्वसम्बद्धः [घटः ? ] तदनवच्छेदेन-पटत्वानवच्छेदेन, तत्सम्बन्धपुरस्कारेण - समवायसम्बन्धपुरस्कारेण तत्र - घटे
१. B दोषान्तरं आह. २. A omits रक्ततादशायां ३ A and B both read विद्यमान इति. But in त. भा. प्र. it is as above. ४. B श्याम इति ५. B दशायां श्यामो ६ B - चेच्छ्याम इत्य. ७. B omits the reading between यत्रतत्र. ८. B यद्यपि तत्का. ९. B omits च. १०. B यत्र
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org