________________
२५
तर्कतरङ्गिणी रजतत्वनिष्ठप्रकारतानिरूपितप्रकारित्वम् । अथ च रजतत्वनिरूपितसमवायनिष्ठसंसर्गाख्यविषयतानिरूपितविषयत्वं रजतप्रमात्वमिति शिरोमणिटीकायाम् । (III) प्रमालक्षणे दोषनिरासः ।
अनुभवपदार्थान्तर्गतेति अनुभवो नाम स्मृतिव्यतिरिक्तं ज्ञानमित्यनुभवान्तर्गतं ज्ञानपदम् । तदेच्छायामतिव्याप्तिः । तस्या अपि तद्वति तत्प्रकारत्वे सति स्मृतिव्यतिरिक्तत्वात् । तथा चेच्छायामपीदमस्ति । यथा रजतमेव भवत्वितीच्छायां रजतत्ववद्विशेष्यकत्वे सति रजतत्वप्रकारकत्वे सति स्मृतिव्यतिरिक्तमस्तीति तद्वारणाय ज्ञानपदमितीच्छायां नातिव्याप्तिः । रजतत्ववदिति तथा च यत्र रजते शुक्तित्वप्रकारकमियं शुक्तिरिति ज्ञानं जातं तत्र रजतत्ववद्विशेष्यकत्वे सति स्मृतिव्यतिरिक्तज्ञानत्वमस्ति परं रजतत्वप्रकारकत्वं नास्तीति नातिव्याप्तिः ।
३अननुगतमिति रजतत्ववतीत्यादिना । समाधत्ते-तच्छब्देति तथा च लक्ष्यमप्यननुगततमेव। कुत्रचिद् घटप्रमा ज्ञानप्रमालक्षी(क्ष्यम्), कुत्रचित्पटप्रमालक्ष्यमिति । तेन लक्षणमप्यननुगतं वक्तव्यमित्यर्थः ।
अत्राकाशत्वमिति इदं ज्ञानं शाब्दं वाऽऽनुमानिकं चेति । अत्र शब्देन वस्तुतः आकाशमेव ग्राह्यम् । तथा चात्राकाशमिति ज्ञानेऽऽकाशवत्याकाशप्रकारत्वे सति स्मृतिव्यतिरिक्तज्ञानत्वं प्रामाण्यम्। यथेदं रजतमित्यत्र रजतत्ववति रजतत्वप्रकारकत्वे सति स्मृतिव्यतिरिक्तंज्ञानत्वं प्रामाण्यम् । तथा 'चात्राकाशत्वमिति ज्ञाने प्रथमान्तमाकाशं विशेष्यम् । तत्र यस्यान्वयः, स तद्विशेषणमाकाशस्यैवान्वयात् । आकाशमेव विशेषणम् । तथा चाकाशवत्याकाशप्रकारत्वे सति स्मृतिव्यतिरिक्तज्ञानत्वमेव प्रामाण्यं वक्तव्यम् । तन्न स्यादाकाशवत्त्वाभावादित्याशङ्कार्थः । नन्वाकाशवत्त्वं कथं नास्तीति चेत्, न । तस्यावृत्तिपदार्थत्वात् । तत्सम्बन्धवतीति तथा चैतादृशप्रामाण्यसंग्रहार्थं विवक्षेति । तथा चाकाशसम्बन्धः-आकाशत्वेन समं समवायसम्बन्धः आकाशत्वस्य शब्दात्मकत्वेन शब्दस्य च तद्गुणत्वेन । तथा चाकाशवत्वं भवति शब्दः, आकाशं भवति द्रव्यं गुणिरूपम् । तेन गुणगुणिनोः समवाय एवेत्यर्थः ।
ननु तत्सम्बन्धवति तत्प्रकारकत्वे सति स्मृतिव्यतिरिक्तं ज्ञानत्वं प्रमात्वमिति लक्षणं कृतम्। तत्र दूषणमाह-समवायसम्बन्धेनेति अयमर्थः-यत्र जलं गन्धवत्, समवायसम्बन्धग्रहणेनेदं ज्ञानं जातम् । तत्रापि भ्रमेऽतिव्याप्तिः । तस्यापि ज्ञानस्य गन्धसम्बन्धवतिजले गन्धप्रकारकत्वे सति स्मृतिव्यतिरिक्तज्ञानसत्त्वाज्जलेन समं सम्बन्धः संयुक्तसमवायोऽस्ति तथा च गन्धसम्बन्धवति
१.A and B read अनुभवपदान्तरि (?)ति. But in त.भा.प्र. it is as above.२.B रजतप्र. ३. B अनगतमिति. ४. B घट. ५. B तथाऽत्रा. ६. B आकाश. ७. B -त्मकेन. ८. B न. ९. B चाकाशत्वं. १०.A omits कृतम.
तर्क.-४
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org