________________
२४
तर्कतरङ्गिणी विरोधपदं तु समूहालम्बनज्ञाने संशयत्ववारणार्थम् । कथंचिदिति यद्यपि विशेषणरूपेण सादृश्य नास्ति-यथार्थज्ञानयोः सादृश्ये द्रव्यत्वेन रूपेण नास्ति तथापि केनचिद्रूपेण प्रमेयत्वादिनाऽर्थज्ञानयोः 'सादृश्यसत्त्वाद् भ्रमेऽतिव्याप्तिः । तथा च यथा कथञ्चिद्रूपेणार्थसादृश्यं न विवक्षितं सकलार्थवृत्तिधर्मसादृश्यं प्रमायामपि नास्त्यसम्भवादित्याह-रजतत्वाःदीनामिति तद्वतीति तथा च यथार्थपदस्यार्थसादृश्यं न विवक्षितं किन्तु तद्वति तत्प्रकारकत्वम् तथा च भ्रमे नातिव्याप्तिः । कथमिति चेत्, शुक्तौ यज्जायते रजतत्वप्रकारकं ज्ञानम्, तत्तु रजतत्वाभाववत्यां शुक्तौ, तद्वतीतिपदं भ्रमेऽतिव्याप्तिवारणार्थम्, तत्प्रकार[क]त्वस्य भ्रमेऽपि सत्त्वात् । यथा शुक्ताविदं रजतमित्यत्र रजतत्वस्य प्रकारकत्वात् । प्रकारकत्वं च स्वरूपपसम्बन्धविशेष एव । यथाऽवच्छेदकत्वादिस्वरूपपसम्बन्धविशेषः । तद्वद् यत्रान्यनिर्वचनं न भवति तत्र स्वरूपसम्बन्धत्वं फलैकोनेयं कल्प्यम् । ननु भासमानवैशिष्टं, प्रतियोगित्वरूपम् । अयमर्थः यथा भासमानं-ज्ञायमानं यद्वैशिष्ट्यंसम्बन्धस्तत्प्रतियोगित्वं-तन्निरूपकत्वं यथा घट इत्युक्ते घटत्वं प्रकारः, तत्र भासमानं घटत्वनिरुपितं यद्वैशिष्टं समवायरूपं तत्प्रतियोगित्वं घटत्वस्येति घटत्वं प्रकारो विशेषणमिति यावदिति जीर्णमतम्।
तन्न, विशेष्यस्यापि प्रकारत्वापत्तेः । तस्यापि भासमानवैशिष्ट्यप्रतियोगित्वात् । यथा घट इत्यत्र भासमानवैशिष्ट्यप्रतियोगित्वं घटत्वे, तथा घटेऽपीति संयोगसमवाययोरुभयनिरुप्यत्वादिति । ननु तद्वति तत्प्रकारकत्वस्य भ्रमेऽपि सत्त्वादतिव्याप्तिः । कथमिति चेत्, यत्र गुज्जापुज्जवहः (ह्नी)तिष्ठतः, तत्र वैपरीत्येन यज्ज्ञानं जातं-गुञ्जापुञ्जो वह्निज्ञानं वह्निज्ञाने च गुञ्जापुञ्जज्ञानमिति तद्वति गुञ्जापुञ्जे, वह्नित्ववति वह्नौ तत्प्रकारकत्वज्ञानं गुञ्जापुञ्जत्ववह्नित्वयोः प्रकारकत्वात् समूहालम्बनं ज्ञानस्यैकत्वादित्यत आह 'तद्विशेष्यकत्वे सतीति तद्वान्प्रकारभूतो यो धर्मस्तद्वान्यः पदार्थः स विशेष्यः यत्र तत्प्रकारत्वम् । तथा च भ्रमरूपसमूहालम्बने तद्विशेष्यकत्वं नास्ति । गुञ्जात्वं तु वह्नौ परिभासते, वह्नित्वं तु गुज्जौ (-ज्जायां) परिभासते । तथा च गुज्जात्वनिष्ठप्रकारतानिरुपितविशेष्यत्वं गुञ्जायां नास्ति । वह्नित्वनिष्ठप्रकारतानिरूपितविशेष्यत्वं वह्नौ नास्ति । अतो न तद्विषेष्यकत्वं ज्ञानभ्रमरूपसमूहालम्बनेऽस्तीत्यर्थः ।
एतदेवाह-भ्रम इति शुक्तौ सत्यामिदं रजतमितिज्ञानं यद्यपि रजतत्ववति रजतत्वप्रकारकं ज्ञानं भवति, यतस्तस्य ज्ञानस्य विषयो रजतत्ववानेव भवति, परं न रजतत्वादिमद्विशेष्यकः, इदमंशस्य शुक्तित्वादित्यर्थः । तथा च रजतप्रमाया इदं लक्षणम्रजतत्वनिष्ठप्रकारतानिरूपितरजतनिष्ठविशेष्यतानिरूपित विशेषणीयत्वावच्छिन्नरजतनिष्ठविशेष्यतानिरूपित
१.A सादृश्यत्वात्. २. B omits this प्रतीक. ३. B -योगित्वम् । ४. B भासमानत्वं. ५. B omits वह्रिज्ञानं. ६. B omits this प्रतीक at all. ७. B omits वह्नौ.
JainEducation International 2010_05
For Private & Personal Use Only
www.jainelibrary.org