________________
तर्कतरङ्गिणी
२३ च प्रमाणे यद्व्यवहर्तव्यं तल्लक्ष्यतावच्छेदकम् । अन्यथाऽत्रापि प्रमाणत्वस्य लक्ष्यतावच्छेदकत्वे लक्षणेन प्रमाकरणत्वेन सममभेद: स्यात्, प्रमाकरणस्यैव प्रमाणत्वादिति भावः ।।
प्रघट्टार्थ:-यथा प्रमाणमितरेभ्यो भिद्यते, प्रमाकरणत्वात् । इतरेतरभेदसाधने लक्ष्यतावच्छेदकलक्षणयोरैक्येऽनुमितिवैयर्थ्यापत्तिः । कथमिति चेत् अनुमितिस्तु पक्षतावच्छेदकसाध्यसामानाधिकरण्यं विषयीकरोति । अत्र च पक्षतावच्छेदकं भवति प्रमाणत्वम्, साध्यं भवति प्रमाणेतरभेदः । अनयोः यत्सामानाधिकरण्यं तत्तु व्याप्तिज्ञानेनैव ज्ञातम् । 'यथा प्रमाणेतरभेदाभावस्य व्यापकीभूताभावः प्रमाकरणत्वाभावः तत्प्रतियोगित्वं तु प्रमाकरणत्वे वर्तते । तत्तु व्यतिरेकसहचारज्ञानेन ज्ञातम् । यत्र प्रमाणेतरभेदाभावस्तत्र प्रमाकरणत्वाभाव इति रूपेण व्याप्तिग्रहात् । तयैव साध्यप्रमाकरणत्वयोः सामानाधिकरण्यग्रहादनुमितिवैयर्थ्यमिति भावः । (II) प्रासङ्गिकी तर्कादिचर्चा ।
तर्कशब्द इति तर्कशब्दस्य विपर्येण समं पुनरुत्तिमाशक्य समाधत्ते-गोबलीवर्द इति तथा च तर्कोऽप्याहार्यविपर्ययरूप एव । यथाऽऽहार्य-इच्छाजन्यं ज्ञानं-आरोप इति यावत् । यथाऽत्र घटश्चेत् स्यात्तदा तु(तू)पलभ्येदित्ययं तर्कः । यतो घटभाववति भूतले घटप्रकारकं ज्ञानं जायते, यत इच्छया घटस्यारोपः क्रियते। यद्यपि घटभावं जानाति तथापीच्छया घटस्यारोपः क्रियते । आरोपशब्देन तदभाववति तत्सत्त्वोपादानमुच्यते । तेन तर्को विपर्यय एवान्तर्भवति-इति विपर्ययपदेनैव तर्कसङ्ग्रहात्पार्थक्येन तदुपादानं व्यर्थं स्यात् । सार्थकं कृतम्, यथा केनचिदुक्तं-'गोबलीवर्दमानये'तिपदश्रवणानन्तरं बलीवर्दभिन्नगोपदार्थबोधो भवति धेनोर्बोध:श्रोतुर्भवतिः । तर्कभिन्नमिति अनाहार्यरूपो विपर्यय-स्तर्कश्चाहार्यरूप इति विपर्ययविशेष इति न पुनरुक्तिः। तर्कविपर्यययोः प्रमात्वे दोषविशेषस्य प्रामाण्यं स्यात् । दोषेणैव विपर्ययरूपा बुद्धिर्जायते यथा शङ्खः पीत इति विपर्ययःचक्षुरिन्द्रियनिष्ठपित्तकृतदोषस्तेन भ्रमः।
संशयोऽप्ययथार्थ एव, यथा-स्थाणु र्वा पुरुषो वेति । पुरुष एवेदृशः सन्देहो वृत्तः । तत्र पुरुषे यन्न वर्तते स्थाणुत्वं तद्भानात् । ननु तदभाववति तत्प्रकारत्वाद्विपर्यय एवान्तर्भवतु इति चेत्, [ना]विपर्ययश्च निश्चयः, अयं सन्देहः, विरोधस्यापि तत्र भावात् । विपर्यये विरोधभानं न भासते। तदा निश्चयत्वम्, यथा भूतले घट इत्यत्र घटत्वाभावाप्रकारत्वे सति घटत्वप्रकारत्वं सत्यन्तं सन्देहवारणार्थम् । सन्देहे तु घटत्वाभावप्रकारत्वे सति घटत्वप्रकारकत्वे सति विरोधविषयत्वम् ।
१. B प्रमात्वादिति. २. B यत्. ३. B repeats तर्कशब्द इति thrice !. ४. B भवतु. ५. B भासती (?) ति भेदः । ६. B भावप्र. ७. B घटत्वं.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org