________________
२२
तर्कतरङ्गिणी गन्धवत्त्वलक्षणात् । गन्धवत्त्वं हि द्रव्यस्य लक्षणं कुतो न सम्भवतीति चेत्, न्यूनवृत्तित्वात् द्रव्यत्वावच्छेदेने गन्धावृत्तित्वात्।
विवक्षायाः फलितार्थमाह'-एवं चेति एवं च येन रूपेणेत्यादिनेत्यर्थः । तदाक्रान्तस्येति पदकृत्यमाह पृथिवीत्वेनेति तथा च पृथिवीत्वेन रूपेण पृथिवीं गृहीत्वा, गन्धवत्त्वं लक्षणं कृत्वा, घटत्वाक्रान्तस्येदं लक्षणम् । घटो गन्धवानिति लक्षणं-सम्भवति न वेति [विचार:]परीक्षा स्यात् । तद्धारणार्थं तदाक्रान्तस्येत्युक्तम् । तथा च यद्धर्मपृथिवीत्वरूपो धर्मस्तदाक्रान्तस्य पृथिवीरूपस्य यल्लक्षणं कृतं गन्धवत्त्वरूपम्, तदाक्रान्तस्य पृथिवीत्वाक्रान्तस्य सम्भवति न वेति विचार: परीक्षा भवति ।
ननु घटत्वाद्याक्रान्तस्य प्रकृते तु पूर्वत्र घटस्येत्यत्र घटत्वाक्रान्तस्यैवेति न परीक्षा । विवक्षायाः फलितमाह-तथा चेति परीक्षाप्रतिपादकं यद्वाक्यम्, येन हि वाक्येन परीक्षा प्रतिपाद्यते-यथा पृथिव्या लक्षणं गन्धवत्त्वमुपपद्यते न वेति विचारप्रतिपादकं वाक्यं “परीक्षात्मकशास्त्रम् । ततः परीक्षात्मकशास्त्रस्येदं लक्षणम्।
__ अतिव्याप्तिमुद्धरति-शास्त्रेति यदि प्रतिपादिवाक्ये शब्दो नित्यो न वेति रूपे परीक्षाप्रतिपादकवाक्ये परीक्षात्वं स्यात्, तद्वारणार्थं शास्त्रगर्भ परीक्षालक्षणं कर्तव्यम् । तथा च परीक्षाप्रतिपादकं शास्त्र परीक्षात्मकशास्त्रस्य लक्षणम् । वादिप्रतिवादिवाक्यं तु न शास्त्रम्, निर्णयाभावात् । न त्वेवं कृतेऽपि लक्ष्यतावच्छेदकस्यैव परीक्षात्मकशास्त्रस्य परीक्षालक्षणेन परीक्षाप्रतिपादकं शास्त्ररूपं, लक्ष्यताववच्छेदकं तु न शास्त्रम्, निर्णयाभावात् । न त्वेवंकृतेऽपि 'लक्ष्यतावच्छेदकस्यैव परीक्षात्मकशास्त्रस्य परीक्षालक्षणेन परीक्षाप्रतिपादकशास्त्ररूपेण महाभेदापत्तिरित्याशङ्कते-शास्त्रत्वविवक्षयेति अभेदमुदाहरति परीक्षात्मेति लक्षणं तु परीक्षाप्रतिपादकं शास्त्ररूपं व्यवहर्तव्यम् । अयं पूर्वोक्तो विचारः, परीक्षापदवाच्य इति ज्ञानत्वमिच्छात्वं वा' लक्ष्यतावच्छेदकमिति नाभेदः ।
[५] ॥ प्रमाणविचारः ॥ (1) प्रमाणलक्षणम् ॥
अत्रापीति प्रमाकरणं प्रमाणमिति लक्षणवाक्येऽपि प्रमाणं प्रमाणत्वेन व्यवहर्तव्यम् । तथा १. A omits द्रव्यस्य. २. B फलितमाह. ३. A पृथिवीत्वरूपेण. ४. A परीक्षाप्रतिपादकं शा.. ५. B शास्त्रत्वस्य. ६. B reads लक्ष्यतावच्छेदकं परीक्षा (?) व्यवहर्तव्यम् । and omits the reading between लक्ष्यता....शास्त्ररूपं ७. B च ८. B लक्ष्यवा.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org