________________
तर्कतरङ्गिणी प्रथमदलमपि । द्वित्वावच्छिन्नप्रतियोगिताका भावमादाय तद्वारणाय प्रतियोग्यसमानाधिकरणेति 'प्रथमपदम् । द्वित्वावच्छिनप्रतियोगिता काभावस्तु न प्रतियोग्यसमानाधिकरण इति दिक् । (III) परीक्षाविचारः ।
असाधारणपदार्थस्यायमेश्वार्थोऽन्यथा प्रमेयत्वादेरप्यसाधारण्यं स्यात् । तस्यापि लक्षणत्वनिरासार्थमिदं वाच्यम्-येनेति यथा पृथिव्याः लक्षणं कृतं गन्धवत्त्वम् । अत्र येन रूपेणगन्धवत्वेन रूपेण यल्लक्षतावच्छेदकाक्रान्तस्यालक्ष्यतावच्छेदकं यत्पृथिवीत्वम्, तदाक्रान्तस्यतदधिकरणस्य पृथिवीरूपस्य यल्लक्षणं कृतं गन्धवत्त्वादिषु, तल्लक्ष्यतावच्छेदकाक्रान्तस्य पृथिवीरूपस्य तल्लक्षणमुपपद्यते न वेति विचारः परीक्षा । "नायं सन्देहः । एकत्र पृथिव्यां विरुद्धनानार्थविषयं ज्ञानं नास्ति । यत उभयत्र पृथिव्यां गन्धे च विषयीभावात् ।
“यथा शब्देति तथा च 'यथा'शब्दस्यैवायमर्थः । येन रूपेणेति पदकृत्यं यथा प्रमेयत्वेन रूपेण गन्धं गृहीत्वा प्रमेयवती पृथिवीत्यपि लक्षणं स्यात् । गन्धस्यापि प्रमेयत्वात् । तथा च लक्ष्यतावच्छेदकं भवति पृथिवीत्वम्, तदाक्रान्ता भवति पृथिवी, तस्यां यल्लक्षणं प्रमेयवतीत्यादि, 'तदुपपद्यते न वेति विचार: परीक्षा स्यात् । तद्वारणार्थं येन रूपेणेति । तथा च प्रमेयत्वेन रूपेण लक्षणकारणासम्भवान्नेयं परीक्षा । ननु प्रमेयत्वेन रूपेण गन्धमात्रप्रमेयमादाय लक्षणं कुतो न सम्भवति
गन्धस्याप्यसाधारणधर्मत्वादिति चेत्, प्रमेयपदस्य पदार्थमात्रे शक्तत्वात् । यल्लक्ष्यतावच्छेदकाक्रान्तत्वेनेति लक्षणं कृत्वा द्रव्यस्येदं लक्षणं गन्धवत्त्वं सम्भवति न वेति विचार: परीक्षा स्वात् । तस्यापि गन्धवत्त्वेन रूपेण गन्धवत्वं लक्षणं कृत्वा द्रव्यत्वेन रूपेण पृथिवीमात्रं गृहीत्वा, इदं द्रव्यं गन्धवदिति लक्षणं(ण)सम्भवात्तद्वारणार्थं यल्लक्ष्यतावच्छेदकाक्रान्तेति पदम् । तथा च द्रव्यस्य लक्ष्यतावच्छेदकाक्रान्तत्वाभावाद् द्रव्यं गन्धवदिति लक्षणसम्भवान्न परीक्षेति ।
____ तल्लक्ष्यतावच्छेदकाक्रान्तस्येति पदकृत्यपृथिवीत्वेन रूपेण पृथिवीं गृहीत्वा, गन्धक्त्वेन च रूपेण गन्धं गृहीत्वा यल्लक्षणं कृतं गन्धवती पृथिवीति द्रव्यत्वेन रूपेण पृथिवीं गृहीत्वेदं लक्षणं द्रव्यस्योपपद्यते न वेति विचार: परीक्षा स्यात् । तद्वारणाय तदाक्रान्तस्येति । तथा च यद्धर्माक्रान्तस्य पृथिवीत्वधर्माक्रान्तस्य यल्लक्षणं कृतं गन्धवत्त्वादिति । १२तद्धर्माक्रान्तस्यपृथिवीत्वधर्माक्रान्तस्य नेयं परीक्षा । यथा द्रव्यस्य गन्धवदिति लक्षणं सम्भवति न वेति । यतो द्रव्यं गन्धवदिति द्रव्यत्वाक्रान्तस्यैव लक्षणम् । ननु द्रव्यत्वाक्रान्तस्य१४ पृथिवीत्वधर्माक्रान्तस्यैवेयं परीक्षा भवत्विति चेत्, न । द्रव्यस्य १. B -योगिकानां. २. A omits प्रथम. ३. B -योगिकाभा. ४. A -यमर्थो. ५. B omits कृतं. ६. B -वत्त्वादिति. ७. अ B omits the reading between नायं सन्देह................. विषयीभावात्. ८. A तथा. ९. B नोपपद्यते वेति. १०. B तस्याप्य. ११. B पृथिवीगन्ध. १२. A omits कृतं. १३. B omits तद्. १४. A -तस्यैव परीक्षा.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org