________________
२०
तर्कतरङ्गिणी पृथिवीत्वात् ।' इत्यत्रेतरभेदवती पृथिवीत्यनुमित्या इतरभेदो विषयीक्रियते । यदि लक्ष्यतावच्छेदकलक्षणयौरैक्यं तदा हेतुज्ञानासिद्धेः हेतुज्ञानासिद्धयाऽनुमित्यनुदयाद्यदि लक्षणज्ञानं जातम्, तदा लक्ष्यतावच्छेदकस्यापि ज्ञानं जातमेवेति । तथा च साध्यपक्षतावच्छेदकयोः प्रथमतः सामानाधिकरणस्य सिद्धौऽनुमानवैयर्थ्यात् । तथा च लक्ष्यतावच्छेदकलक्षणयोरभेदो न स्वीकार्यः । अत एव पृथिव्याः लक्षणं गन्धः, न पृथिवीत्त्वमिति मणिकृत् । तेन च पृथिवीत्वं लक्ष्यता-वच्छेदकमेव । यदवच्छेदेन लक्षणं क्रियते, तल्लक्ष्यतावच्छेदकम् । प्रकृते त्वभेदकृता शङ्का ना सम्भवति । लक्ष्यतावच्छेदकलक्षणयोर्भेदस्य वाच्यत्वादित्याह-वाक्यत्वेति तेनासाधारणधर्मप्रतिपादकं वाक्यं लक्षणम् । तेनेदं वाक्यार्थगर्भ लक्ष्यतावच्छेदकं त्वसाधारणधर्मप्रतिपादकं शास्त्रत्वम् । वाक्यत्वशास्त्रत्वयोः भेदात् । भेदस्तयोरित्यर्थः ।
यद्यपि शास्त्रं वाक्यमेव तथापि वाक्यत्वशास्त्रत्वयोर्भेद इति सिद्धम् । तथा च प्रतियोग्यसमानाधिकरणलक्ष्येतरपदार्थनिष्ठात्यन्ताभावप्रतियोगिसत्त्वे सति प्रतियोग्यसमानाधिकरणलक्ष्यनिष्ठात्यन्ताभावाप्रतियोगिधर्मवत्त्वं लक्षणमन्ततो व्यावृत्तिः । तथा लक्ष्यनिष्ठात्यन्ताभावाप्रतियोगिधर्मवत्त्वं लक्षणमित्युक्ते पृथिव्या लक्षणं ग्न्धोऽपि न स्यात् । तस्यापि पृथिवीनिष्ठात्यन्ताभावप्रतियोगित्वात् । कथमिति चेत् द्वित्वावच्छिन्नप्रतियोगिताकाभावस्य सत्त्वात् । तथाहि पृथिवीनिष्ठो यो गन्धगुणत्वोभयाभावो वर्तते, यद्यपि पृथिव्यां गन्धो वर्तते परं गन्धगुणत्वरूप मुभयं नास्ति तत्प्रतियोगित्वाद् गन्धस्य, तथा च गन्धरूपे लक्षणेऽव्याप्तिरत उक्तं प्रतियोग्यसमानाधिकरणेति पदम्। तथा च प्रतियोग्यसमानाधिकरणं पदमभावविशेषणम्, गन्धाभावस्य प्रतियोगिसमानाधिकरणत्वान्नाव्याप्तिः ।
तथापि पृथिव्या लक्षणं प्रमेयत्वं स्यात् । प्रमेयत्वस्यापि पृथिवीनिष्ठप्रतियोग्यसमानाधिकरणात्यन्ता भावाप्रतियोगित्वात् । पृथिवीनिष्ठो यः प्रतियोग्यसमानाधिकरणोऽत्यन्ताभावो जलत्वादीनां तत्प्रतियोगित्वात्प्रमेयस्येति । तद्वारणार्थं लक्ष्येतरेत्यादि सत्यन्तम् । तथा च प्रमेयत्वस्य पृथिवीतरजलादिनिष्ठात्यन्ताभावप्रतियोगित्वाभावान्नातिव्याप्तिः ।
ननु तथापि प्रमेयत्वेऽतिव्याप्तिः । तस्यापि पृथिवीनिष्ठप्रतियोग्यसमानाधिकरणात्यन्ता भावाप्रतियोगित्वं च तिष्ठत्येव । पृथिव्यां प्रमेयत्वस्याभावो नास्ति, अत एवाप्रतियोगित्वम् । तथा च
१. B स्वीकर्तव्य. २. A omits तेन च. ३. B यदनवच्छेदेन. But this reading gives a contrary meaning. ४. B न भवति. ५. B वाक्यत्व. ६. B omits the reading between यद्यपि................मुभयं नास्ति. ७. B -भावप्रतियोगित्वात.
___Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org