________________
तर्कतरङ्गिणी माणमुद्देशलक्षणं प्रतिसन्धीयमानेत्यादिकम्, तन्न मूलोक्तलक्षणस्य तात्पर्यमित्यर्थः । प्रतिसन्धीयमानेति प्रतिसन्धीयमानं ज्ञायमानं सद्यलक्षणवाक्याद्यसमभिव्याप्तं नाम तस्यैवोद्देशत्वात् । तथा च प्रतिसन्धीयमानपदेन मौनिकृतग्रन्थोद्देशे नातिव्याप्तिः । लक्षणवाक्यादित्यादिविशेषणात्, लक्षणपरीक्षावाक्यमध्ये लक्ष्यभागे नातिव्याप्तिः । (II) लक्षणनिरूपणम् ।
शास्त्रमित्यर्थ इति अन्यथा यथाश्रुतेः मोक्षार्थिनो गन्धादावपि प्रवृत्तिः स्यादिति भावः । व्यतिरेकित्वमेवेति अत्यन्ताभावप्रतियोगित्वं धर्मवत्त्वम् । न च तत्कृतित्वे सति तदितरावृत्तित्वमिति सत्यन्तमाकाशदावतिव्याप्तिवारणार्थमिति वाच्यम्, गौरवात् । तदितरावृत्तित्वस्य तदितरवृत्तित्वेन रूपेण तदितरवृत्तित्वस्याभावो वाच्यः । तथा च तदितरवृत्तिमध्येऽतीन्द्रियाकाशादेरपि 'प्रदेशादनुमानादिना प्रतियोगिज्ञानं वाच्यम् । अनुमाने व्याप्त्यादिज्ञानमपेक्ष्यते, व्याप्तिज्ञाने च व्यभिचाराभावविशिष्टसहचारज्ञानमपेक्ष्यते-इत्यादिक्रमेण गौरवम् । तथा चात्यन्ताभावप्रतियोगिधर्मवत्वमेव लक्षणम् ।. यथा पृथिव्यां लक्षणं गन्धः, द्रव्यलक्षणं गुणवत्त्वम् । गन्धः पृथिव्याः लक्षणं भवति, तस्य जलादिनिष्ठात्यन्ताभावप्रतियोगित्वात् । न च गन्धे पृथिवीनिष्ठात्यन्ताभावप्रतियोगित्याभावादव्याप्तिरिति वाच्यम् । यस्य लक्षणं क्रियते तदितरपदार्थनिष्ठात्यन्ताभावप्रतियोगित्वस्य विवक्षितत्वात् । तेन पृथिव्या लक्षणं गन्धः क्रियते । ततः पृथिवीतरपदार्थनिष्ठात्यन्ताभावप्रतियोगित्वस्य गन्धे सत्त्वान्नातिव्याप्तिः ।
ननु पृथिव्याः लक्षणं जलं कुतो न भवतीति तस्यापि पृथिवीतरनिष्ठात्यन्ताभावप्रतियोगिकत्वादिति चेत्, न । तस्यापि संयुक्तसमवायसम्बन्धविशेषेण लक्षणत्वात् जलनिरुपितपृथिव्याधारकसंयोगविशेषस्य पृथिव्यामेव सत्त्वादिति सम्बन्धविशेषेण रूपेण लक्षणं भवत्येव । लक्षणशास्त्रनित्यस्य लक्षणासम्भवं शङ्कते नन्विति व्याघातादिति लक्षणं भवति गन्धादि', तदात्मकत्वं शास्त्रे नास्ति, गन्ध एव गन्धे गन्धात्मकत्व सम्भवात् । शास्त्रस्य शब्दात्मकत्वात् [तत्र]गन्धात्मकत्वाभावः ।
फलितार्थमाह व्यतिरेकीति व्यतिरेकिधर्मप्रतिपादकं वाक्यं लक्षणमिति शास्त्रस्येदं सम्भवत्येव तथा च नासम्भवः । लक्ष्यतावच्छेदकलक्षणयोरभेदमाशङ्कते - एवं चेति यथा पृथिवी पृथिवीत्ववतीत्यत्र लक्ष्यतावच्छेदकं भवति पृथिवीत्वम्, तदेव लक्षणमपि, तदा लक्ष्यतावच्छेदकलक्षणयोरभेदः संवृत्तः । ननु भवतु लक्ष्यतावच्छेदकलक्षणयोरभेद इति चेत्, न् । इतरभेदसाधनार्थं हि लक्षणं क्रियते । इतरभेदसाधनं चानुमानेन-यथा-'पृथिवीतरेभ्यो भिद्यते,
१. A प्रवेशाद. २. B omits सम्बन्धविशेषेण. ३. B लक्षणस्यास. ४. B गन्धादिति. ५. B -भावात्. ६. B लक्ष्याव.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org