________________
तर्कतरङ्गिणी लक्ष्यभागेऽतिव्याप्तिं वारयति - 'नाम्नेति मात्रपदस्य भिन्नक्रमः, कीर्तनाग्रे मात्रपदस्यदानात्। तेन किं छनमित्यत आह-मात्रपदेनेति अस्यार्थः-मात्र-पदेन लक्षणवाक्यान्तर्गतलक्ष्यदेशे नाम्ना वस्तुसङ्कीर्तनमात्रत्वाभावात् नाम्ना यद्वस्तुनः सङ्कीर्तनमात्रं तन्नास्ति लक्षणभागस्यापि वर्तमानत्वादित्यर्थः । लक्ष्यत्वादिति लक्षणवाक्यस्य लक्ष्यभागस्याप्युद्देशत्वादित्यर्थः । तथा च तत्रातिव्याप्तिवारणार्थं मात्रदानं व्यर्थमित्यर्थः । तत्रेति यदि लक्षण वाक्यान्तर्गतलक्ष्य भागेनोद्देशसिद्धिस्तदा लक्षणवाक्यभिन्नोद्देशकथनं व्यर्थमिति । तत्रोच्यते न्यूनाधिकसङ्ख्याव्यवच्छेदार्थं भिन्नोद्देशकथनमिति दूषयति तत्रेत्यादिना । तत्र न्यूनधिकसङ्ख्याव्यवच्छेदे पृथगुद्देशत्वेन रूपेण न्यूनाधिकसङ्ख्याव्यवच्छेदेन बोध्यते, गौरवात् । लाघवादुद्देशत्वेनैव रूपेण तद्बोधनात्, तथा च उद्देशस्तु लक्षणवाक्यान्तर्गत एवेति किं पार्थक्येन ।
__ननु पूर्वं यदुक्तं पृथगुद्देशस्य न्यूनाधिकसंख्याव्यवच्छेदशक्तिर्नास्ति यदि, सा माऽस्तु, परं तात्पर्यग्रहार्थं पृथगुद्देशः कर्तव्य एव । तथा च पृथगुद्देशेन तात्पर्यमर्यादया न्यूनाधिकसङ्ख्याव्यवच्छेदो बोध्यते । अयं तात्पर्यार्थः-यथा घटादिप देन घटदिपदार्थो[5]वबोध्यः, एतादृशं यद्वक्तुर्ज्ञानं तत्तात्पर्यमुच्यते, तत्प्रतीतीच्छयोच्चारणम्, तथा च प्रकृतेर्वक्तुन्यूनाधिकसङ्ख्याव्यवच्छेदबोधेच्छयोद्देशस्य वाच्यत्वमिति तात्पर्यनिर्वाहार्थं पृथगुद्देशकरणम्। तदपार्थक्यो देशेन लक्षणवाक्यान्तर्गतोद्देशेनापि सम्भवतीत्याह-अपृथगिति तत्रेति न्यूनाधिकसङ्ख्याव्यवच्छेदे मानाभावादिति पराभिप्रायाज्ञाने प्रमाणमेव शरणमिति भावः ॥
“लक्षणेनेति च पृथगुद्देशेन न्यूनाधिकसङ्ख्याव्यवच्छेदो न बोध्यते । किन्तु लक्षणे जिज्ञासा जन्यते । तेन पृथगुद्देशस्य न्यूनाधिकसङ्ख्याव्यवच्छेदेन तात्पर्यमित्यर्थः । दूषयति लक्ष्येति लक्षणजिज्ञासां प्रति लक्ष्यज्ञानमेव कारणमिति, न तु पृथगुद्देशोऽपीति भावः । जिज्ञासां प्रति शब्दजनकत्वात् । तथा च पृथगुद्देशकथनप्रयोजनं नास्तीति पूर्वपक्षः ।
तत्रेति न्यूनाधिकसङ्ख्याव्यवच्छेदे । व्यवहारेति व्यवहारो नाम शब्दः प्रयोगविशेषः । यथा घटशब्दस्य घटे व्यवहारो वाच्यतासम्बन्धेन घटपदवत्वमेवशिष्टानां लक्षणे वाक्यान्तर्गतलक्ष्यभागे उद्देशस्याभिधानाभावादित्यर्थः । उभयथापीति मात्र पदस्य नामकीर्तनयोः पुरतो दानेऽपि लक्षणवाक्यान्तर्गतं यल्लक्ष्यं तत्प्रतिपादके नाम्नि प्रमाणादिकेऽतिव्याप्तिः । यथा प्रमाकरणं प्रमाणमित्यत्र लक्षणवाक्यान्तर्गतोलक्ष्यभागप्रमाणरूपः, तत्प्रतिपादकं नाम प्रमाणपदम् । तस्यापि नाममात्रेणाथ वस्तुसङ्कीर्तनमित्युभयथाऽपि सत्त्वादित्यर्थः । अनुपदमिति मया यदनुपदं शीघ्रं यद्वीक्ष्य१. B मात्रेति. २. B नान्ते. ३. B तत्रास्ति. ४. A लक्ष्यादिति. ५. B यथा. ६. B देशस्त्वे. ७. B पदार्थेन. ८. B लक्षणेति.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org